स्थि॒रैरङ्गै᳚स्तुष्टु॒वांस᳚स्त॒नूभि॒र्व्य᳚शेम दे॒वहि᳚तं॒ यदायु᳚ः ॥
पदपाठः (Word-by-word)
स्थि॒रैः । अङ्गैः᳚ । तु॒स्तु॒॑वांसः᳚ । त॒नूभिः᳚ । वि । अ॒शे॒म॒ । दे॒व॑हि᳚तम् । यत् । आयुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अस्ति सौम्यचरुस्तृतीयसवने । तेन चरुणा देवतामिष्ट्वेष्टशेषे तस्मिन्बहु घृतमवनीय तस्मिन्वषट् कर्त्रा स्वकीया छाया द्रष्टव्या । सा यदि न दृश्येत तदानीं भद्रमित्येका पठितव्या । त्वं सोमेति खंडे तथैव सूत्र्यते । राज्ञा सोमेन तद्वयमस्मासु धारयामसि भद्रं कर्णेभिः शृणुयाम देवा इति च (आ ५-१९) इति ॥ महानाम्नीव्रतेऽष्येषा भूमिस्पर्शने जप्या । सूत्रितं चैतद्विदमिति खंडे । भद्रं कर्णेभिः शृणुयाम देवाः शं न इंद्राग्नी भवतामवोभिः । आ । ८-१४ । इति ॥
हे देवा डानादिगुणयुक्ताः सर्वे देवाः कर्णेभिरस्मदीयैः श्रोत्रैर्भद्रं भजनीयं कल्याणं वचनं शृणुयाम । युष्मत्प्रसादाच्छ्रोतुं समर्थाः स्याम । अस्माकं बाधिर्यं कदाचिदपि मा भूत् । हे यजत्रा यागेषु चरुपुरोडाशादिभिर्यष्टव्या देवा अक्षभिरक्षिभिरात्मीयैश्चक्षुर्भिर्भद्रं शोभनं पश्येम । द्रष्टुं समर्थाः स्याम । अस्माकं दृष्टिप्रतिघातोऽपि मा भूत् । स्थिरैर्दृढैरंगैर्हस्तपादादिभिरवयवैस्तनूभिः शरीरैश्च युक्ता वयं तुष्टुवांसो युष्मान् स्तुवंतो यदायुः षोडशाधिकशतप्रमाणं विंशत्यधिकशतप्रमाणं वा देवहितं देवेन प्रजापतिना स्थापितं तद्व्यशेम । प्राप्नुयाम ॥ कर्णेभिः । बहुलं छंदसीति भिस ऐसभावः । अक्षभिः । छंदस्यपि दृश्यत इत्यनङ् स चोदात्तः । यजत्राः । अमिनक्षीत्यादिना यजेरत्रन् प्रत्ययः । तुष्टुवांसः । ष्टुञ् स्तुतौ । लिटः क्वसुः । शपूर्वाः खय इति तकारः शिष्यते । अशेम । अशू व्याप्तौ । लिङ्याशिष्यङ् । यदि तु तत्र परिगणनमन्यव्यावृत्त्यर्थं तदानीं लिङि व्यत्ययेन शप् । देवहितम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं ॥ ८ ॥