दे॒वानां᳚ स॒ख्यमुप᳚ सेदिमा व॒यं दे॒वा न॒ आयु॒ः प्र ति᳚रन्तु जी॒वसे᳚ ॥
पदपाठः (Word-by-word)
दे॒वाना᳚म् । स॒ख्यम् । उप᳚ । से॒दि॒म॒ । व॒यम् । दे॒वाः । नः॒ । आयुः᳚ । प्र । ति॒र॒न्तु॒ । जी॒वसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
भद्रा सुखयित्री भजनीया वा देवानां सुमतिः शोभना मतिरनुग्रहात्मिका बुद्धिरस्माकमस्त्विति शेषः । कीदृशानाम् । ऋजूयतामृजुमार्जवयुक्तं सम्यगनुष्ठातारं यजमानमात्मन इच्छताम् । तथा देवानां रातिदार्नं नोऽस्मानाभिमुख्येन नितरां वर्तताम् । तदभिमतफलप्रदाननमप्यस्माकं भवत्वित्यर्थः । वयं च तेषां देवानां सख्यं सखित्वं सख्युः कर्म वोपसेदिम । प्राप्नुवाम । तादृशा देवा नोऽस्माकमायुर्जीवसे जीवितुं प्रतिरंतु । वर्धयंतु ॥ भद्रा । भदि कल्याणे सुखे च । ऋज्रेंद्राग्रेत्यादौ (उ २-२८) रन्प्रत्ययांतो निपातितः । ऋजूयताम् । ऋजुमात्मन इच्छति ऋजूयति । सुप आत्मनः क्यच् । तदंताल्लटः शतृ । शतुरनुम इत्यजादिविभक्तेरुदात्तत्वम् । रातिः । रा दाने । मंत्रे वृषेति क्तिन उदात्तत्वम् । सख्यम् । सख्युर्य इति भावे कर्मणि वा यप्रत्ययः । सेदिम । षद्लृ विशरणगत्यवसादनेषु । छंदसि लुङ् लङ् लिट इति वर्तमाने प्रार्थनायां लिट् । सत्वस्यानैमित्तकत्वेन लिट परत आदेशादित्वाभावादत एकहल्मध्य इत्येत्वाभ्यासलोपौ । अन्येषामपि दृश्यत इति संहितायां दीर्घत्वम् । प्रतिरंतु । प्रपूर्वस्तिरतिर्वर्धनार्थः । तथा च यास्को व्याचख्यौ । देवानां सख्यमुपसीदेम वयं देवा न आयः प्रवर्धयंतु चिरं जीवनाय । नि १२-३९ । इति ॥ २ ॥