श्रवणम्

1.89.5
तमीशा᳚नं॒ जग᳚तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव᳚से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद᳚सा॒मस᳚द्वृ॒धे र᳚क्षि॒ता पा॒युरद᳚ब्धः स्व॒स्तये᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । ईशा᳚नम् । जग᳚तः । त॒स्थुषः᳚ । पति᳚म् । धि॒य॒म्॑जि॒न्वम् । अव᳚से । हू॒म॒हे॒ । व॒यम् ।
पू॒षा । नः॒ । यथा᳚ । वेद᳚साम् । अस᳚त् । वृ॒धे । र॒क्षि॒ता । पा॒युः । अद᳚ब्धः । स्व॒स्तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वार्धेनेंद्रः स्तूयते । अपरार्धेन पूषा । ईशानमैश्वर्यवंतं अत एव जगतो जंगमस्य प्राणिजातस्य तस्थुषः स्थावरस्य च पतिं स्वामिनं धियंजिन्वं धीर्भिः कर्मभिः प्रीणयितव्यं एवंभूतं तमिंद्रमवसे रक्षणाय वयं हूमहे । अह्वयामः । पूषा नोऽस्माकं वेदसा धनानां वृधे वर्धनाय रक्षिता यथासत् येन प्रकारेण भवति तेनैव प्रकारेणादब्धः केनाप्यहिंसितः पूषा स्वस्तयेऽस्माकमविनाशाय पायुः रक्षिता भवतु ॥ तस्थुषः । तिष्ठतेर्लिटः क्वसुः । षष्ठ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । धियंजिन्वम् । जिविः प्रीणनार्थः । कृत्यल्युटो बहुलमिति बहुलवचनात्खच् । इच एकाचोऽम् प्रत्ययवच्च (पा ६-३-६८) इत्यमागमः । असत् । अस भुवि । लेट्यडागमः । बहुलं छंदसीति शपो लुगभावः । पायुः । पा रक्षणे । कृवापाजीत्युण् । स्वस्तये । सुपूर्वादस्तेर्भावे क्तिन् छंदस्युभयथेति तस्य सार्वधातुकत्वादस्तेर्भूः (पा २-४-५२) इति भूभावाभाव इति वृत्तावुक्तं ॥ ५ ॥