प्रथमं मण्डलम् - सूक्तम् 171

6 ऋचः

ऋषिः: अगस्त्यो मैत्रावरुणिः देवता: मरुतः छन्दः: त्रिष्टुप्

सूक्तम् 1.171 - सम्पूर्णम्

1 / 6
ऋक्: 1.171.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
1.171.1
प्रति᳚ व ए॒ना नम᳚सा॒हमे᳚मि सू॒क्तेन᳚ भिक्षे सुम॒तिं तु॒राणा᳚म् ।
र॒रा॒णता᳚ मरुतो वे॒द्याभि॒र्नि हेळो᳚ ध॒त्त वि मु᳚चध्व॒मश्वा᳚न् ॥
▶ पदपाठः (Word-by-word)
प्रति᳚ । वः॒ । ए॒ना । नम᳚सा । अ॒हम् । ए॒मि॒ । सु॒॑उ॒क्तेन᳚ । भि॒क्षे॒ । सु॒॑म॒तिम् । तु॒राणा᳚म् ।
र॒रा॒णता᳚ । म॒रु॒तः॒ । वे॒द्याभिः᳚ । नि । हेळः᳚ । ध॒त्त । वि । मु॒च॒ध्व॒म् । अश्वा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्मानहंप्रत्येमि अभिगच्छामि केनसाधनेन नमसानमस्कारेण हविषावा नमइत्य- न्ननाम यथासूक्तेनशोभनवचनेनस्तुतिरूपेणतुराणांत्वरमाणानांशत्रूणांहिंसकानांवायुष्माकं सुमतिं- शोभनमतिं अनुग्रहबुद्धिं भिक्षे याचे इन्द्रस्यैवपुनर्हविःप्रदानादिदंयाच्यते किञ्च हेमरुतः यूयंवेद्याभि- र्वेदितव्याभिः स्तुतिभीरराणता रममाणेनमनसाइत्थंभूताःसन्तोहेळः क्रोधनामैतत् क्रोधंयुष्मदभिज- नितंनिधत्त निकृष्टंधारयत त्यजतेत्यर्थः तथाऽश्वान् विमुचध्वंरथेभ्योवियोजयत क्रोधात्पुनर्गमनं- माकुरुतेत्यर्थः ॥ १ ॥

1.171.2
ए॒ष व॒ः स्तोमो᳚ मरुतो॒ नम᳚स्वान्हृ॒दा त॒ष्टो मन᳚सा धायि देवाः ।
उपे॒मा या᳚त॒ मन᳚सा जुषा॒णा यू॒यं हि ष्ठा नम᳚स॒ इद्वृ॒धासः᳚ ॥
▶ पदपाठः (Word-by-word)
ए॒षः । वः॒ । स्तोमः᳚ । म॒रु॒तः॒ । नम᳚स्वान् । हृ॒दा । त॒ष्टः । मन᳚सा । धा॒यि॒ । दे॒वाः॒ ।
उप᳚ । ई॒म् । आ । या॒त॒ । मन᳚सा । जु॒षा॒णाः । यू॒यम् । हि । स्थ । नम᳚सः । इत् । वृ॒धासः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः एषवः स्तोमः इदानींक्रियमाणः प्रकारोवोयुष्माकंयुष्मदर्थइत्यर्थः कीदृशोयं नमस्वान् नमइत्यन्ननाम हविर्लक्षणान्नवान् नकेवलंस्तुतिमात्रं भक्षणायहविरपियुष्माकमित्यर्थः किञ्च हृदा- तष्टः युष्मन्निवेदनबुद्ध्यासंपादितः तादृशःस्तोमोहेदेवाः देवनशीलाः मनसा अनुग्रहवता चित्तेनधा- यि धार्यतां तदर्थंमनसाआदरबुद्भ्याजुषाणाः ईमेनांस्तुतिंतद्धविश्चसेवमानाः उपायात उपागच्छतैव माविलंबंकुरुत यूयंनमसोन्नस्यहवीरूपस्यवृधासः स्थहि वर्धयितारोभवथखलु अतआगन्तव्यमेव इत्पूरणः ॥ २ ॥

1.171.3
स्तु॒तासो᳚ नो म॒रुतो᳚ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ᳚विष्ठः ।
ऊ॒र्ध्वा नः᳚ सन्तु को॒म्या वना॒न्यहा᳚नि॒ विश्वा᳚ मरुतो जिगी॒षा ॥
▶ पदपाठः (Word-by-word)
स्तु॒तासः᳚ । नः॒ । म॒रुतः᳚ । मृ॒ळ॒य॒न्तु॒ । उ॒त । स्तु॒तः । म॒घ॑वा᳚ । शम्॑भ᳚विष्ठः ।
ऊ॒र्ध्वा । नः॒ । स॒न्तु॒ । को॒म्या । वना᳚नि । अहा᳚नि । विश्वा᳚ । म॒रु॒तः॒ । जि॒गी॒षा ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेमरुतः स्तुतासः स्तुताःसन्तोनोस्मान्मृळयन्तु सुखयन्तु उतअपिच मघवा मघमितिधननाम अ- स्मद्दातव्यबहुधनेन तद्वानिन्द्रः स्तुतःशंभविष्ठः सुखस्यभावयितृतमःसन् अस्मान्मृळयन्तु किञ्च हेम- रुतोनोस्माकं जिगीषा जिगातेर्गतिकर्मणोजिगीषा जिगीषितव्यानि प्राप्तव्यानि उत्तरत्रानुभूयमाना- नि विश्वा सर्वाण्यहानि दिवसानि ऊर्ध्वा उन्नतानिउपर्युपरिश्रियायशसावोत्कृष्टानिकोम्याकोम्यानि- स्पृहणीयानिवनानिसर्वैः संभजनीयानिसन्तु जिगीषाजेतुमिष्टानिजेतव्यानिचसन्त्वितिवायोज्यं एवंक्कुत्वामरुतइन्द्रश्चसुखयन्त्वित्यर्थः ॥ ३ ॥

1.171.4
अ॒स्माद॒हं त᳚वि॒षादीष᳚माण॒ इन्द्रा᳚द्भि॒या म᳚रुतो॒ रेज᳚मानः ।
यु॒ष्मभ्यं᳚ ह॒व्या निशि᳚तान्यास॒न्तान्या॒रे च᳚कृमा मृ॒ळता᳚ नः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मात् । अ॒हम् । त॒वि॒षात् । ईष᳚माणः । इन्द्रा᳚त् । भि॒या । म॒रु॒तः॒ । रेज᳚मानः ।
यु॒ष्मभ्य᳚म् । ह॒व्या । नि॑शि᳚तानि । आ॒स॒न् । तानि᳚ । आ॒रे । च॒कृ॒म॒ । मृ॒ळत᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः श्रृणुत अहं अस्मान् प्रसिद्धात्तविषात् बलवतइन्द्रात्तत्सकाशात् भियाभीत्याइषमाणाः पलायमानः पुरतःस्थातुमशक्तः तथा रेजमानः वेपमानोभवं ततश्चकिमायातमित्यतआह—यानि- युष्मभ्यंहव्याहवींषिनिशितानिसंस्कृतान्यासन् तानि तान्येव आरे चकृम दूरे क्रुतवन्तोवयं इन्द्रभ- यात् अतोनोस्मानपराधिनोमृळत मृळयत सुखयत ॥ ४ ॥

1.171.5
येन॒ माना᳚सश्चि॒तय᳚न्त उ॒स्रा व्यु᳚ष्टिषु॒ शव᳚सा॒ शश्व᳚तीनाम् ।
स नो᳚ म॒रुद्भि᳚र्वृषभ॒ श्रवो᳚ धा उ॒ग्र उ॒ग्रेभि॒ः स्थवि᳚रः सहो॒दाः ॥
▶ पदपाठः (Word-by-word)
येन᳚ । माना᳚सः । चि॒तय᳚न्ते । उ॒स्राः । वि॑उ᳚ष्टिषु । शव᳚सा । शश्व᳚तीनाम् ।
सः । नः॒ । म॒रुत्॑भिः᳚ । वृ॒ष॒भ॒ । श्रवः᳚ । धाः॒ । उ॒ग्रः । उ॒ग्रेभिः᳚ । स्थवि᳚रः । स॒हः॒॑दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र श्वसाबलभूतेन त्वयानुगृहीताः मानासोमान्याः त्वयाभिमानितावा उस्रारश्मयः शश्वती- नांनित्यानांबह्वीनांउषसांव्युष्टिषुसतीषुप्रकाशेषुसत्सु चितयन्तेचेतयन्ते प्राणिनां स्वस्वव्यवहारा- यप्रज्ञापयन्ते ऎन्द्भांदिशितेनैवानुगृहीताउषसोरश्मयउद्गच्छन्तीतिप्रसिद्धं हेवृषभ वर्षितरिन्द्र सता- दृशस्त्वंमरुद्भिःसहितः नः अस्माकं श्रवोधाः सर्वत्रश्रूयमाणमन्नंधेहिस्थापयदेहीत्यर्थः कीदृशस्त्वं उग्रः उद्गूर्णबलः सहोदाः पराभिभवसमर्थंबलंसहस्तस्यदाता स्थविरः पुरातनः कीदृशैर्मरुद्भिः उग्रेभिः कूरबलैः एवं महानुभावोन्नंदेहि ॥ ५ ॥

1.171.6
त्वं पा᳚हीन्द्र॒ सही᳚यसो॒ नॄन्भवा᳚ म॒रुद्भि॒रव᳚यातहेळाः ।
सु॒प्र॒के॒तेभि᳚ः सास॒हिर्दधा᳚नो वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ॥
▶ पदपाठः (Word-by-word)
त्वम् । पा॒हि॒ । इ॒न्द्र॒ । सही᳚यसः । नॄन् । भव᳚ । म॒रुत्॑भिः᳚ । अव᳚यात॑हेळाः ।
सु॒॑प्र॒के॒तेभिः᳚ । स॒स॒हिः । दधा᳚नः । वि॒द्याम᳚ । इ॒षम् । वृ॒जन᳚म् । जी॒र॑दा᳚नुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वंपाहिरक्षकान् सहीयसोनॄन् सहस्वितमान् अनुग्रहे णातिप्रवृद्धबलान् नेतॄन् मनुष्यान- स्मान् मरुतोवा किञ्च मरुद्भिःसाकं अस्मास्ववयातहेळाभव अपगतमन्युर्भव मरुत्सुवातथाभव किञ्च सुप्रकेतेभिः शोभनप्रज्ञानैर्मरुद्भिःसह सासहिः शत्रूणामभिभवितासन् दधानः अस्मदभिमत- स्यधारयिताभवेतिशेषः शिष्टोव्याख्यातः ॥ ६ ॥

चित्रोवइतितृचात्मकमष्टमंसूक्तमागस्त्यंमारुतंगायत्रं चित्रस्तृचंगायत्रमित्यनुक्रमणिका लैङ्गि- कोविशेषविनियोगः ।