प्रथमं मण्डलम् - सूक्तम् 2

9 ऋचः

ऋषिः: मधुच्छंदा वैश्वामित्रः देवता: वायुः छन्दः: गायत्री

सूक्तम् 1.2 - सम्पूर्णम्

1 / 9
ऋक्: 1.2.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.2.1
वाय॒वा या᳚हि दर्शते॒मे सोमा॒ अरं᳚कृताः ।
तेषां᳚ पाहि श्रु॒धी हव᳚म् ॥
▶ पदपाठः (Word-by-word)
वायो॒ इति᳚ । आ । या॒हि॒ । द॒र्श॒त॒ । इ॒मे । सोमाः᳚ । अर᳚म्॑कृताः ।
तेषा᳚म् । पा॒हि॒ । श्रु॒धि । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

दर्शत हे दर्शनीय वायो कर्मण्येतस्मिन्ना याहि । आगच्छ । त्वदर्थमिमे सोमा अरंकृताः । अभिषवादिसंस्कारोऽलंकारः । तेषां तान्सोमान् । यद्वा । तेषामेकदेशमित्यध्याहारः । पाहि । स्वकीयं भागं पिबेत्यर्थः । तत्पानार्थं हवमस्मदीयमाह्वानं श्रुधि । शृणु । अत्र यास्कः । वायवायाहि दर्शनीयेमे सोमा अरंकृता अलंकृतास्तेषां पिब शृणु नो ह्वानम् । नि १०-२ । इति दर्शतेत्यत्र भृमृदृशीत्यादिसूत्रेण (उ ३-११०) अतच् प्रत्यय औणादिकः । चित्त्वा दंतोत्तस्यामंत्रितानुदात्तत्वम् । अर्तिस्तुस्वित्यादिना (उ १-१३९) कृदुत्तरपदप्रकृतिस्वरत्वे प्राप्ते तदपवादत्वेन गतिरनंतरः (पा ६-२-४९) इति पूर्वपदप्रकृतिस्वरत्वम् । निपातत्वादलंशब्द आद्युदात्तः । पाहीत्यत्र पिबादेशाभावश्छांदसः । श्रुधीत्यत्र श्रुशृण्वित्यादिना (पा ६-४-१०२) हेर्धिभावः । तिङंतादुत्तरस्य निघातो नास्ति । सेर्ह्यपिच्च (पा ३-४-८७) इति । पित्त्वनिषेधादनुदात्ते निवारिते प्रत्ययस्वरः । हवमित्यत्र ह्वयतिधातोर्बहुलं छंदसि (पा ६-१-३४) इति संप्रसारणे सत्युकारांतत्त्वादृदोरप् (पा ३-३-५७) इत्यप्प्रत्ययः । तस्य पित्त्वादनुदात्ते सति धातुस्वरः शिष्यते । संहितायां श्रुधीत्यस्यान्येषामपि दृश्यते (पा ६-३-१३७) इति दीर्घः ॥ १ ॥

1.2.2
वाय᳚ उ॒क्थेभि᳚र्जरन्ते॒ त्वामच्छा᳚ जरि॒तारः᳚ ।
सु॒तसो᳚मा अह॒र्विदः᳚ ॥
▶ पदपाठः (Word-by-word)
वायो॒ इति᳚ । उ॒क्थेभिः᳚ । ज॒र॒न्ते॒ । त्वाम् । अच्छ᳚ । ज॒रि॒तारः᳚ ।
सु॒त॑सो᳚माः । अ॒हः॒॑विदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो जरितारः स्तोतार ऋत्विग्यजमानास्त्वामच्छ त्वामभिलक्ष्योक्थेभिराज्यप्र उगादिशस्त्रैर्जरंते । स्तुवंति । कीदृशाः । सुतसोमा अभिषुतेन सोमेनोपेता अहर्विदः । अहःशब्द एकेनाह्ना निष्पाद्येऽग्निष्टोमादिक्रतौ वैदिकव्यवहारेण प्रसिद्धः । क्रत्वभिज्ञा इत्यर्थः ॥ अर्चति गायतीत्यादिषु चतुश्चत्वारिंशत्स्वर्चतिकर्मसु धातुषु जरते ह्वयतीति पठितम् । स्तुतेरप्यर्चनाविशेषत्वादौचित्येनात्र स्तुत्यर्थो जरतिधातुः । अच्छशब्दस्य संहितायां निपातस्य च (पा ६-३-१३६) इति धीर्घः । सुतसोमा इत्यत्र बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरः (पा ६-२-१) अहर्विद इत्यत्र समासस्वरम् (पा ६-१-२२३) बाधित्वा तत्पुरुषे तुल्यार्थेत्यादिना (पा ६-२-२) द्वितीयापूर्वपदप्रकृतिस्वरे प्राप्ते तदपवादत्वेन गतिकारकोपपदात्कृत् (पा ६-२-१३९) इति कृदुत्तरपदप्रकृतिस्वरः ॥ २ ॥

1.2.3
वायो॒ तव᳚ प्रपृञ्च॒ती धेना᳚ जिगाति दा॒शुषे᳚ ।
उ॒रू॒ची सोम᳚पीतये ॥
▶ पदपाठः (Word-by-word)
वायो॒ इति᳚ । तव᳚ । प्र॒॑पृ॒ञ्च॒ती । धेना᳚ । जि॒गा॒ति॒ । दा॒शुषे᳚ ।
उ॒रू॒ची । सोम᳚॑पीतये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो तव धेना वाक् सोमपीतये सोमपानार्थं दाशुषे दाश्वांसं दत्तवंतं यजमानं जिगाति । गच्चति । हे यजमान त्वया दत्तं सोमं पास्यामित्येवं वायुर्ब्रूत इत्यर्थः । कीदृशी धेना । प्रपृंचती प्रकर्षेण सोमसंपर्कं कुर्वती । सोमगुणं वर्णयंतीत्यर्थः । उरूची उरून्बहून्य जमानान् गच्छंती । ये ये सोमयाजिनस्तान् सर्वान्वर्णयंतीत्यर्थः । प्रपृंचतीत्यत्र शतुरनुमः (पा ६-१-१७३) इति ङीबुदात्तः । श्लोको धारेत्यादिषु सप्तपंचाशत्सु वाङ्ना मसु गणो धेनु ग्ना इति पठितम् । वर्ततेऽयत इत्यादिषु द्वाविंशाधिकशतसंख्येषु गतिकर्मसु गाति जिगातीति पठितम् । दाशुष इत्यत्र गत्यर्थकर्मणि (पा २-३-१२) इति चतुर्थी । उरूचीत्यत्र गौरादित्वेन (पा ४-१-४१) ङीषि कृते प्रत्ययस्वरः । सोमपीतय इत्यत्र बहुव्रीहित्वाभावेऽपि व्यत्ययेन पूर्वपदप्रकृतिस्वरः ॥ ३ ॥

1.2.4
इन्द्र᳚वायू इ॒मे सु॒ता उप॒ प्रयो᳚भि॒रा ग᳚तम् ।
इन्द᳚वो वामु॒शन्ति॒ हि ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚वायू॒ इति᳚ । इ॒मे । सु॒ताः । उप᳚ । प्रयः᳚॑भिः । आ । ग॒त॒म् ।
इन्द᳚वः । वा॒म् । उ॒शन्ति᳚ । हि ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतस्या ऋच ऐंद्रवायवग्रहे द्वितीयपुरोनुवाक्यारूपेण विशेषविनियोगः पूर्वमेवोक्तः । हे इंद्रवायू भवदर्थमिमे सोमाः सुताः । अभिषुताः । तस्माद्युवां प्रयोभिरन्नैरस्मभ्यं दातव्यैः सहोपा गतम् । अस्मत्समीपं प्रत्यागच्छतम् । हि यस्मादिंदवः सोमा वां युवामुशंति कामयंते तस्मादागमनमुचितम् । इंद्रवायूशब्दस्यामंत्रिताद्युदात्तत्वम् । प्रीणयंति भोक्तृनिति प्रयांस्यन्नानि । प्रीञ् धातोरंतर्भावितण्यर्थात् (पा ३-१-२६) असुन्प्रत्यये सति नित्स्वरः । गमिधातोर्लोण्मध्यमपुरुषद्विवचने बहुलं छंदसि । पा २-४-७३ इति शपो लुकि सत्यनुदात्तोपदेशेत्यादिना (पा ६-४-३७) मकारलोपः । ततो गतमिति भवति । उन्दी क्लेदन इति धातोरुंदेरिच्चादेः ॥ उ । १-१३ ॥ इत्युन्प्रत्ययः अद्यक्षरस्येकारादेशः । तत इंदुशब्दस्य नित्स्वरः । सोमरसस्य द्रवत्वात्क्लेदनं संभवति । युष्मच्छब्दादेशस्य वा मित्येतस्यानुदात्तं सर्वमपादादावित्यनुदात्तः । उशंतीत्यस्य निघाते हि च (पा ८-१-३४) इति सूत्रेण प्रतिषिद्धे सति प्रत्ययस्वरः । हि शब्दस्य निपातस्वरः ॥ ४ ॥

1.2.5
वाय॒विन्द्र᳚श्च चेतथः सु॒तानां᳚ वाजिनीवसू ।
तावा या᳚त॒मुप᳚ द्र॒वत् ॥
▶ पदपाठः (Word-by-word)
वायो॒ इति᳚ । इन्द्रः᳚ । च॒ । चे॒त॒थः॒ । सु॒ताना᳚म् । वा॒जि॒नी॒व॒सू॒ इति᳚ वाजिनी॑वसू ।
तौ । आ । या॒त॒म् । उप᳚ । द्र॒वत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्र चकारेणान्यः समुच्चीयते । संनिहितत्वाद्वायुरेव । हे वायो त्वमिंद्रश्च युवामुभौ सुतानामभिषुतान्सोमान् चेतथः । जानीथः । यद्वा अभिषुतानां सोमानां विशेषमित्यध्याहारः । कीदृशौ युवाम् । वाजिनीवसू । वादिनीशब्दो यद्यप्युषोनामसु पठितस्तथाप्यत्रासंभवान्न गृह्यते । वाजोऽन्नम् । तद्यस्यां हविःसंततावस्ति सा वाजिनी । तस्यां वसत इति तौ वाजिनीवसू । आमंत्रितत्वादनुदात्तः । तौ तथाविधौ युवां द्रवत्क्षिप्रमुप समीप आ यातम् । आगच्छतम् । षड्विंशतिसंख्याकेषु क्षिप्रनामसु नु क्षिप्रं मक्षु द्रवदिति पठतम् । तत्र फिट् स्वरः ।

1.2.6
वाय॒विन्द्र᳚श्च सुन्व॒त आ या᳚त॒मुप᳚ निष्कृ॒तम् ।
म॒क्ष्वि१॒᳚त्था धि॒या न᳚रा ॥
▶ पदपाठः (Word-by-word)
वायो॒ इति᳚ । इन्द्रः᳚ । च॒ । सु॒न्व॒तः । आ । या॒त॒म् । उप᳚ । निः॒॑कृ॒तम् ।
म॒क्षु । इ॒त्था । धि॒या । न॒रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वायो त्वमिंद्रश्च सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य निष्कृतं संस्कृतं संस्कर्तारं वा सोममुपा यातम् । आगच्छतम् । नरा हेनरौ पुरुषौ पौरुषेण सामर्थ्येनोपेतौ युवरोरागतयोश्च सतोर्धियामुना कर्मणा मक्षु त्वरया संस्कारः संपत्स्यते । इत्था सत्यं ॥ वायो इत्यस्यामंत्रितस्येति षाष्ठिक माद्युदात्तत्वम् । इंद्रशब्द ऋज्रेंद्रेत्यादिना । उ । २-२८ । रन्प्रत्ययांतत्वेन निपातितो ञ्नत्यादिर्नित्यम् (पा ६-१-१९७) इत्याद्युदात्तः । चशब्दश्चादयोऽनुदात्ताः । फि । ४-१६ । इत्यनुदात्तः । सुन्वत इत्यत्र शतुरनुमो नद्यजादी (पा ६-१-१७३) इति विभक्तेरुदात्तत्वम् । निरत्येष समित्येतस्य स्थाने । नि १२-७ । इति यास्कः । कृतशब्द आदिकर्मणि कर्तरि क्तः (पा ३-४-७१) संस्कर्तुं प्रवृत्त इत्यर्थः । कुगतिप्रादयः (पा २-२-१८) इति समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वे प्राप्ते थाथघञ्क्ताजबित्रकाणाम् (पा ६-२-१४४) इत्यंतोदात्तः । गतिरनंतरः (पा ६-२-४९) इति तु निस उदात्तत्वं न भवति । तद्धि कर्मणि क्ते विहितम् (पा ६-२-४८) निष्करोतीति निष्कृदिति क्विबंतव्याख्याने तु गतिकारकोपपदात्कृत् (पा ६-२-१३९) इत्यृकार उदात्तः स्यात् । धिया । सावेकाचस्तृतीयादिः (पा ६-१-१६८) इति विभक्तिरुदात्ता । नरा । सुपां सुलुगित्यादिना संबोधनाद्विवचनस्य डादेशः । पदात्परत्वादामंत्रितस्येत्याष्टमिको निघातः ॥ ६ ॥

1.2.7
मि॒त्रं हु᳚वे पू॒तद᳚क्षं॒ वरु᳚णं च रि॒शाद᳚सम् ।
धियं᳚ घृ॒ताचीं॒ साध᳚न्ता ॥
▶ पदपाठः (Word-by-word)
मि॒त्रम् । हु॒वे॒ । पू॒त॑द᳚क्षम् । वरु᳚णम् । च॒ । रि॒शाद᳚सम् ।
धिय᳚म् । घृ॒ताची᳚म् । साध᳚न्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहमस्मिन्कर्मणि हविष्प्रदानाय पूतदक्षं पवित्रबलं मित्रं हुवे । तथा रिशादसं रिशानां हिंसकानामदसमत्तारं वरुणं च हुवे । आह्वयामि । कीदृशौ मित्रावरुणौ । घृतमुदकमंचति भूमिं प्रापयति या धीर्वर्षणकर्म तां घृताचीं धियं साधंता साधयंतौ कुर्वंतौ मित्रशब्दः पुंल्लिंगः प्रातिपदिकस्वरेणांतोदात्तः । हुव इति ह्वयतेर्बहुलं छंदसीति शपो लुकि सति ह्वः संप्रसारणम् (पा ६-१-३२) इत्यनुवृत्तौ बहुलं छंदसीति संप्रसारण उवङादेशः । तिङ्ङतिङ इति निघातः । पूतशब्दः प्रत्ययस्वरेणांतोदात्तः । बहुव्रीहौ पूर्वपदप्रकृति स्वरत्वम् । वरुणशब्दः कृवृदारिभ्य उनन् (उ ३-५३) इत्युनन्प्रत्ययांतो नित्त्वादाद्युदात्तः । रिशंति हिंसंतीति रिशाः शत्रवः । इगुपधज्ञाप्रीकिरः कः (पा ३-१-१३५) इति कः प्रत्ययस्वरेणोदात्तः । तानत्तीति दिशादाः ॥ तम् । सर्वधातुभ्योऽसुन् (उ ४-१८८) इत्यसुन्प्रत्यये नित्स्वरेणोत्तरपदमाद्युदात्तम् । कृदुत्तरपदप्रकृतिस्वरेण स एवावशिष्यते । शेषनिघाते सत्येकादेश उदात्तेनोदात्तः । पा । ८-२-५ । इति सवर्णदीर्घोऽप्युदात्त एव । धीरित्यप इत्यादिषड्विंशतौ कर्मनामसु पठितः । प्रातिपदिकस्वरेणांतोदात्तः घृतमंचतीति घृताची । ऋत्विग्दधृगित्यादिना (पा ३-२-५९) क्विन्यनिदिताम् (पा ६-४-२४) इति नकारलोपः । अंचतेश्चोपसंख्यानम् । पा ४-१-६-२ । इति ङीप् । ऋचः (पा ६-४-१३८) इत्यकारलोपे चौ (पा ६-३-१३८) इति दीर्घत्वम् । घृतशब्दो नब्विषयस्यानिसंतस्येत्याद्युदात्तं बाधित्वा घृतादीनां च (फि १-२२) इत्यंतोदात्तः । समासस्येत्यंतोदात्तस्यापवादकं तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरं बाधित्वा गतिकारकोपपदादित्युत्तरपदप्रकृतिस्वरेणो दात्तस्य धात्वकारस्य लोपे सत्यनुदात्तस्य च यत्रोदात्तलोपः (पा ६-१-१६१) इति ङीप उदात्तत्वे प्राप्ते चौ (पा ६-१-२२२) इति पूर्वपदांतोदात्तत्वम् । साधंता । राध साध संसिद्धावित्यस्मादंतर्भावितण्यर्थाल्लटः शत्रादेशे । पा । ३-२-१२४ श्नुं बाधित्वा व्यत्ययेन शप् । अदुपदेशत्वादुपरि शतृप्रत्ययस्य लसार्वधातुकानुदात्तत्वम् । द्वितीयाद्विवचनस्य शपश्चानुदात्तौ सुप्पितावित्यनुदात्तत्वे धातोरिति धातुस्वर एव शिष्यते । सुषां सुलुगित्यादिना विभक्तेराकारदेशः ॥ ७ ॥

1.2.8
ऋ॒तेन᳚ मित्रावरुणावृतावृधावृतस्पृशा ।
क्रतुं᳚ बृ॒हन्त᳚माशाथे ॥
▶ पदपाठः (Word-by-word)
ऋ॒तेन᳚ । मि॒त्रा॒व॒रु॒णौ॒ । ऋ॒त॒॑वृ॒धौ॒ । ऋ॒त॒॑स्पृ॒शा॒ ।
क्रतु᳚म् । बृ॒हन्त᳚म् । आ॒शा॒थे॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मित्रावरुणौ युवां क्रतुं प्रवर्तमानमिमं सोमायागमाशाथे आनशाथे । व्याप्तवंतौ । केन निमित्तेन । ऋतेन अवश्यंभावितया सत्येन फलेन अस्मभ्यं फलं दातुमित्यर्थः । कीदृशौ युवाम् । ऋतावृधौ । ऋतमित्युदकनाम (नि २-२५) सत्यं वा यज्ञं वा (नि ४-१९) इति यास्कः । उदकादीनामन्यतमस्य वर्धयितारौ । अत एव ऋतस्पृसा उदकादीन् स्पृशंतौ । कीदृशं क्रतुम् । बृहंतं अंगैरूपांगैश्चातिप्रौढम् । ऋतशब्दो घृतादित्वादंतोदात्तः । मित्रावरुणावित्यत्र मित्रश्च वरुणश्चेति मित्रावरुणौ । देवताद्वंद्वे च (पा ६-३-२६) इति पूर्वपदस्यानङादेशः । ऋतस्य वर्धयितारावित्यर्थेंऽतर्भावितण्यर्थाद्वृधेः क्विप् । अन्येषामपि दृश्यते (पा ६-३-१३७) इति पूर्वपदस्य दीर्घः । ऋतस्पृशा । सुपां सुलुगिति डादेशः । मित्रावरुणावित्याद्यामंत्रितत्रयस्य स्वस्वपूर्वपदात्परत्वादामंत्रितस्येत्याष्टमिको निघातः । ननु ऋतेनेत्येतस्य सुबामंत्रिते परांगवत्स्वरे (पा २-१-२) इति नियमात् । इह च ऋतेन मित्रावरुणावित्यनयोराशाथे इत्याख्यातेनैवान्वयेन परस्परमसामर्थ्यात् । यत्र पुनः परस्परान्वयेन सामर्थ्यं तत्र परांगवद्भावात्पादादेराद्युदात्तत्वं भवत्येव । यथा मरुतां पितस्तदहं गृणामीति । मृग्रोरुतिः । उ । १ । ९६ । इत्युतिप्रत्ययांतत्वेन पृश्नियै वै पयसो मरुतो जाताः । तै । सम् । २-२-११-४ । इत्यादावंतोदात्तोऽपि हि मरुच्छब्दो मरुतां पितरित्यत्र सामर्थ्यात्परांगवद्भावादेवाद्युदात्तो जातः । प्रकृते त्वृ तेनेत्यस्यासामर्थ्यादेव न परांगवद्भाव इति । ऋतावृधावित्यत्र द्वितीयामंत्रितस्य निघाते कर्तव्य आमंत्रितं पूर्वमविद्यमानवत् (पा ८-१-७२) इति प्रथमामंत्रितेनाविद्यमानवद्भवितव्यमिति चेत् भवतु । अत एव तस्याव्यवधायकत्वादृतेनेति प्रथमपदात्परत्वेनैव द्वितीयामंत्रितं निहनिष्यते । यथा । इमं मे गंगे यमुने । ऋग्वे । १०-७५-५ । इत्यादौ गंगेशब्दस्याविद्यमानवद्भावेऽपि तस्याव्यवधायकत्वादेव म इत्येतदेव पदमुपजीव्य यमुनेशब्दस्य निघातः । किंच प्रकृते मित्रावरुणावित्यामंत्रितं सामान्य वचनम् । तस्य विशेषणतया विशेषवचनमृतावृधाविति । अतो नामंत्रिते समानाधिकरणे सामान्यवचनम् (पा ८-१-७३) इति पूर्वस्याविद्यमानवद्भावप्रतिषेधादपि निरंतरायो द्वितीयस्य निघातः । नन्वेवमप्यपादादावित्यनुवृत्तेर्ऋतावृ धेत्यस्य द्वितीयपादादित्वान्न भवितव्यं निघातेन । अत एव हीमं मे गंग इत्यत्र शुतुद्रिपदस्य पदात्परस्यामंत्रितस्यापि पादादित्वादेवानिघातादाद्युदात्तत्वं जातम् । तद्वदत्रापि भवितव्यं वक्तव्यो वा विशेष इति । उच्यते । मित्रावरुणपदस्य सुबामंत्रित इति परांगवद्भावेन परानुप्रवेशादेव ऋतावृधेत्यस्य न पादादित्यम् । शुतुद्रिपदमपि तर्ह्येवमेव पूर्वस्य सरस्वतिपदस्य परांगवद्भावेन न पादादिरिति निहन्येतेति चेत्न । परांगवद्भावस्तावत्सुबंतमामंत्रितं चाश्रित्य प्रवृत्तेः पदविधिः । अतस्तयोः सत्येव परस्परान्वये परांगवद्भावेन भवितव्यम् । समर्थः पदविधिरिति नियमात् । शुतुद्रिसरस्वतिपदयोश्च न परस्परेणान्वयः । किं तु सचतेत्य नेनेत्य सामार्थ्यान्न परांगवद्भावः । प्रकृते तु मित्रावरुणावृतावृधाविति द्वयोरपि सामानाधिकरण्येन परस्परान्वयादस्ति सामर्थ्यमिति भवितव्यं परांगवद्भावेन । यथा मरुतां पितरित्यत्रेति विषेशः ॥ नन्वत एव तर्हि मित्रावरुणपदस्य परांगवद्भावेन पादादित्वादपादादाविति पर्युदासादामंत्रितनिघातो न स्यादिति चेन्न । पूर्वं सुबंतं परं चामंत्रित माश्रित्य यः स्वरः प्रवर्तते तत्र सुबामंत्रित इति परांगवद्भावः । भवति चैवंविध ऋतावृधपदनिघात इति । तत्र पूर्वस्य परांगवद्भावेनापादादित्वात्स प्रवर्तते । मित्रावरुणपदनिघातस्तु पूर्वमेव पदमुपजीवति न परमामंत्रितमिति न परांगवद्भावः । ननु परांगवद्भाववन्निघातोऽपि पदविधिरिति । ऋतेनेत्यनेनासामर्थ्यात्ततः पदात्परस्य मित्रावरुणपदस्य न स्यादिति चेन्न । समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः । पा २-१-१-११ । इति निघाते पदविधावपि समानवाक्य त्वमेव पर्याप्तं न परांगवद्भाववत्परस्परान्वयोऽपीत्यलम् । क्रतुम् । कृञः कतुः (उ १-७८) प्रत्यय स्वरेणादिरुदात्तः । आशाथे । आनशाथे । छंदसि लुङ् लङ् लिटः (पा ३-४-६) इति वर्तमाने लिट् । नुडभावश्छांदसः ॥ ८ ॥

1.2.9
क॒वी नो᳚ मि॒त्रावरु᳚णा तुविजा॒ता उ᳚रु॒क्षया᳚ ।
दक्षं᳚ दधाते अ॒पस᳚म् ॥
▶ पदपाठः (Word-by-word)
क॒वी इति᳚ । नः॒ । मि॒त्रावरु᳚णा । तु॒वि॒॑जा॒तौ । उ॒रु॒॑क्षया᳚ ।
दक्ष᳚म् । द॒धा॒ते॒ इति᳚ । अ॒पस᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रावरुणावेतौ देवौ नोऽस्माकां दक्षं बलमपसं कर्म च दधाते । पोषयतः । कीदृशौ । कवी मेधाविनौ तुविजातौ बहूनामुपकारकतया समुत्पन्नौ उरुक्षया बहुनिवासौ । विप्रो धीर इत्यादिषु चतुर्विंशतिसंख्याकेषु मेधाविनामसु कविर्मनीषीति पठितम् । उरु तुवीत्येतौ शब्दौ द्वादशसु बहुनामसु पठितौ । ओजः पाज इत्यादिष्टष्टाविंशतिसंख्याकेषु बलनामसु दक्षो वीळ्विति पठितम् । अपस् शब्दः षड्विंशतिसंख्याकेषु कर्मनामसु पठितः । मित्रावरुणा । मित्रशब्दः प्रातिपदिकस्वरेणांतोदात्तः । वरुणशब्दो नित्स्वरेणाद्युदात्तः । द्वंद्वे देवताद्वंदे च (पा ६-२-१४१) इत्युभावविशिष्येते । तुविजातौ । बहूनामुपकारकतया तत्संबंधित्वेन जाताविति षष्ठीसमासे समासांतोदात्तत्वम् । चतुर्थीसमासे हि क्ते च (पा ६-२-४५) इति पूर्वपदप्रकृतिस्वरः स्यात् । उरूणां बहूनां क्षयावुरुक्षयौ । क्षि निवासगत्योरिति धातोः क्षियंत्यस्मन्निति क्षयः । अधिकरण एरच् (पा ३-३-५६) इत्यच् प्रत्ययांतस्य चित इत्यंतोदात्तत्वे प्राप्ते क्षयो निवासे (पा ६-१-२०१) इत्याद्युदात्तत्वं विहितम् । समासे तु समासस्येत्यंतोदात्तत्वं बाधित्वा कृदुत्तरपदप्रकृतिस्वरेण प्राप्तमुत्तरपदाद्युतात्तत्वं यद्यपि थाथादिस्वरेणांतोदात्तेन बाध्यते तथापि परादिश्चंदसि बहुलम् (पा ६-२-१९९) इत्युत्तरपदाद्युत्तत्वं द्रष्टव्यम् । दक्षो दक्षतेरुत्साहकर्मणो घञ् । ञॆत्त्वादाद्युदात्तः । आप्यते फलमनेनेत्यपः कर्म । आपः कर्माख्यायां ह्रस्वो नुट्च वा (उ ४-२०७) इत्यसुनंतस्यापसस्पारे । ऋग्वे ६-६९-१ । इत्यादौ नित्त्वादाद्युदात्तस्याप्यपश्शब्दस्यात्र व्यत्ययेन प्रत्ययाद्युदात्तत्वं ॥ ४ ॥ ॥ ९ ॥