प्रथमं मण्डलम् - सूक्तम् 105

19 ऋचः

ऋषिः: आप्त्यस्त्रितः कुत्स आंगिरसो वा देवता: विश्वेदेवाः छन्दः: पंक्तिः

सूक्तम् 1.105 - सम्पूर्णम्

1 / 19
ऋक्: 1.105.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (19)
1.105.1
च॒न्द्रमा᳚ अ॒प्स्व१॒᳚न्तरा सु᳚प॒र्णो धा᳚वते दि॒वि ।
न वो᳚ हिरण्यनेमयः प॒दं वि᳚न्दन्ति विद्युतो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
च॒न्द्रमाः᳚ । अ॒प्॑सु । अ॒न्तः । आ । सु॒॑प॒र्णः । धा॒व॒ते॒ । दि॒वि ।
न । वः॒ । हि॒र॒ण्य॒॑ने॒म॒यः॒ । प॒दम् । वि॒न्द॒न्ति॒ । वि॒॑द्यु॒तः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

चंद्रमा इत्येकोनविंशत्यृचं द्वादशं सूक्तम् । आपां पुत्रस्य त्रितस्य कूषे पतितस्य कुत्सस्य वार्षम् । तथा चोभयोः कूपपात आम्नायते । त्रितः कूपेऽवहितः काटे निबाळ्ह ऋषिरह्वदूतय इति च । त्रितस्य चापां पुत्रत्वं तैत्तिरीयाः स्पष्टमामनंति । तत एकतोऽजायत स द्वितीयमभ्यपातयत् ततो द्वितोऽजायत स तृतीयमभ्यपातयत् ततस्त्रितोऽजायत यदद्भ्योऽजायंत तदाप्यानामप्यत्वम् । तै ब्रा ३-२-८-१०, ११ । इति । तमेतमाप्यं त्रितस्तद्वेदाप्त्य इति तकारोपजनेन वयमधीमह इति । अंत्या त्रिष्टुप् । सं मा तपंतीत्येषा यवमध्या महाबृहती आद्यौ द्वावष्टाक्षरौ पादौ द्वादशाक्षरस्तृतीयस्ततो द्वावष्टाक्षरौ सा यवमध्या महाबृहती । चत्वारोऽष्टका जागतश्च महाबृहतीत्युक्त्वा मध्ये चेद्यवमध्या । अनु ९-१० । इत्युक्तलक्षणोपेतत्वात् । शिष्टाः पंक्तयः । विश्वे देवा देवता । तथा चानुक्रांतम् । चंद्रमा एकोनाप्त्यस्त्रितो वा वैश्वदेवं हि पांक्तमंत्या त्रिष्टुबष्टमी महाबृहती यवमध्येति । हीत्यभिधानादिदमादीनि त्रीणि सूक्तानि वैश्वदेवानि ॥ विनियोगः । अत्र शाट्यायनिन इतिहासमाचक्षते । एकतो द्वितस्त्रित इति पुरात्रय ऋषयो बभूवुः । ते कदाचिन्मरुभूमावरण्ये वर्तमानाः पिपासया संतप्तगात्राः संत एकं कूपमविंदन् । तत्र त्रिशाख्य एको जलपानाय कूपं प्राविशत् । स्वयं पीत्वेतरयोश्च कूपादुदकमुद्धृत्य प्रादात् । तौ तदुदकं पीत्वा त्रितंकूपे पातयित्वा तदीयं धनं सर्वमपहृत्य कूपं च रधचक्रेण पिधाय प्रास्थिषाताम् । ततः कूपे पतितः स त्रितः कूपादुत्तरीतुमशक्नुवन्सर्वे देवा मामुद्धरंत्विति मनसा सस्मार । ततस्तेषां स्तावकमिदं सूक्तं ददर्श । तत्र रात्रौ कूपस्यांतश्चंद्रमसो रश्मीन्पश्यन्परिदेवयते ॥

आप्स्वंतरिक्षासूदकमये मंडलेऽंतर्मध्ये वर्तमानः सुपर्णः शोभनपतनः । यद्वा । सुपर्ण इति रश्मिनाम । सुषुम्णाख्येन सूर्यरश्मिना युक्तश्चंद्रमा दिवि द्युलोक आ धावते । आङ् मर्यादायाम् । एकेनैव प्रकारेण धावते । शीघ्रं गच्छति । तादृशस्य चंद्रमसः संबंधिनो हे हिरण्यनेमयः सुवर्णसदृशपर्यंताः । यद्वा । हितरमणीयप्रांता । विद्युतो विद्योतमाना रश्मयो वो युष्माकं पदं पादस्थानीयमग्रं न विंदंति । मदीयानींद्रियाणि कूपेनावृतत्वान्न लभंते । अत इदमनुचितम् । तस्मात्कूपान्मामुत्तारयतेतृर्थः । अपि च हे रोदसी द्यावापृथिव्यौ मे मदीयमस्येदं स्तोत्रं वित्तम् । जानीतम् । यद्वा । मदीयं कूपपतनरूपं यदिदं दुःखं तदवगच्छतम् । मदीयं स्तोत्रं श्रुत्वा मदीयं दुःखं ज्ञात्वा वास्मात्कूपान्मामुत्तारयतमित्यर्थः ॥ चंद्रमाः । चंद्रमाह्लादनं सर्वस्य जगतो निर्मिमीत इति चंद्रमाः । चंद्रे माङो डित् (उ ४-२२७) इत्यसुन् । दासीभारादिषु पाठात्पूर्वपदप्रकृतिस्वरत्वम् । धावते । सृ गतौ । पाघ्रेत्यादिना वेगितायां धावादेशः । व्यत्ययेनात्मनेपदम् । वित्तम् । विद ज्ञाने । लोट्यदादित्वाच्छपो लुक् । पादादित्वात्तिङ्जतिङ इति निघाताभावः । अस्य । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ऊडिदमिति विभक्तेरुदात्तत्वं ॥ १ ॥

1.105.2
अर्थ॒मिद्वा उ᳚ अ॒र्थिन॒ आ जा॒या यु᳚वते॒ पति᳚म् ।
तु॒ञ्जाते॒ वृष्ण्यं॒ पयः᳚ परि॒दाय॒ रसं᳚ दुहे वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
अर्थ᳚म् । इत् । वै । ऊं॒ इति᳚ । अ॒र्थिनः᳚ । आ । जा॒या । यु॒व॒ते॒ । पति᳚म् ।
तु॒ञ्जाते॒ इति᳚ । वृष्ण्य᳚म् । पयः᳚ । प॒रि॒॑दाय᳚ । रस᳚म् । दु॒हे॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अर्थिनो धनमपेक्षमाणाः पुरुषा अर्थमिद्वै अपेक्षितं धनं प्राप्नुवंत्येव । नाहं प्राप्नोमि । उ इत्येतत्पादपूरणम् । अपि च जायान्यदीया भार्या पतिं स्वपतिमा युवते । आभिमुख्येन प्राप्नोति । मदीया तु मद्विरहाद्धतासीत् । अपि च संयुक्तौ तौ जायापती वृष्ण्यं वीर्यरूपं पय उदकं तुंजाते । प्रजननायान्योन्यसंघट्वनेन प्रेरयतः । तदनंतरं रसं पुरुषस्य सारभूतं वीर्यं परिदाय गर्भाशयेनादाय गर्भरूपेण धृत्वा दुहे । दुग्धे । पुत्ररूपेण जनयति । मन तु पुत्रोऽपि नोत्पद्यते । अत इदं मदीयं दुःखं हे द्यावापृथिव्यौ जानीतं ॥ उ । उञः पा १-१-१७ । इति शाकल्यस्य मतेन प्रगृह्यत्वात् प्लुतप्रगृह्या अचीति प्रकृतिभावः । युवते । यु मिश्रणे । व्यत्ययेनात्मनेपदम् । शब्लुकि प्राप्ते व्यत्ययेन शः । तुंजाते । तुजि पिजि हिंसाबलदाननिकेतनेषु । इदित्त्वान्नुम् । व्यत्ययेन श्नम् । श्नान्नलोपः । दुहे । दुह प्रपूरणे । लोपस्त आत्मनेपदेष्विति तलोपः ॥ २ ॥

1.105.3
मो षु दे᳚वा अ॒दः स्व१॒᳚रव᳚ पादि दि॒वस्परि᳚ ।
मा सो॒म्यस्य᳚ श॒म्भुव॒ः शूने᳚ भूम॒ कदा᳚ च॒न वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
मो इति᳚ । सु । दे॒वाः॒ । अ॒दः । स्वः᳚ । अव᳚ । पा॒दि॒ । दि॒वः । परि᳚ ।
मा । सो॒म्यस्य᳚ । श॒म्॑भुवः᳚ । शूने᳚ । भू॒म॒ । कदा᳚ । च॒न । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः स्वः स्वर्गे वर्तमानमदस्तदस्मदीयं पितृपितामहप्रपितामहात्मकं संतानं दिवस्परि दिवश्चोपरि वर्तमानं मो षु मैवाव पादि । अवपन्नं विपन्नं प्रभ्रष्टं मा भूत् मम पुत्राभावात् । पुत्रेण लोकाञ्जयति नापुत्रस्य लोकोऽस्तीति श्रुतेः । अतो वयं सोम्यस्य सोमपानार्हस्य पितृगणस्य शंभुवः सुखस्य भावयितुः पुत्रस्य शूने आपगमने कदा चन कदाचिदपि मा भूम । युष्मत्ष्रसादान्मम पुत्रा जायंताम् । अतो मामस्माद्दुःखादुत्तारयतेत्यर्थः हे द्यावापृथिव्यौ युवां च मदीयं विज्ञापनं जानीतं ॥ मो । मा उ इति निपातद्वयसमुदायो मैवेत्यस्यार्थे । सु इत्येतदवधारणे । सुञ इति षत्वम् । पादि पद गतौ । चिण् ते पदः (पा ३-१-६०) इति कर्तरि लुङि श्लेश्चिणादेशः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पंचम्याः परावध्यर्थ इति विसर्जनीयस्य सत्वम् । सोम्यस्य सोममर्हति यः (पा ४-४-१३७) इति यप्रत्ययः । शंभुवः । भवतेरंतर्भावितण्यर्थात्क्विप् । शूने । टुओश्वि गतिवृद्थ्योः । भावे निष्ठा । श्विदिशो निष्ठायामितीट् प्रतिषेधः । वचिस्वपीत्यादिना संप्रसारणम् । ओदितश्च (पा ८-२-४५) इति । निष्ठानत्वम् । व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्य ॥ ३ ॥

1.105.4
य॒ज्ञं पृ᳚च्छाम्यव॒मं स तद्दू॒तो वि वो᳚चति ।
क्व᳚ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद्बि᳚भर्ति॒ नूत᳚नो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञम् । पृ॒च्छा॒मि॒ । अ॒व॒मम् । सः । तत् । दू॒तः । वि । वो॒च॒ति॒ ।
क्व᳚ । ऋ॒तम् । पू॒र्व्यम् । ग॒तम् । कः । तत् । बि॒भ॒र्ति॒ । नूत᳚नः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञं यजनीयमवमं सर्वेषां देवानामादिभूतम् । अग्नि र्मुखं प्रथमो देवतानाम् । ऐ ब्रा १-४ । इति श्रुतेः । अग्निर्वै देवानामवम इति ब्राह्मणाच्च । तमग्निं पृच्छामि । यन्मया पृष्टं तद्देवानां दूतः सोऽग्निर्विवोचति । विविच्य कथयतु । किं पुनस्तत्पृच्छ्यत इति चेत् उच्यते । हे अग्ने त्वदीयं पूर्व्यं पूर्वकालीनमृतं भद्रं स्तोतृभ्यः कृतं श्रेयः क्व गतम् । कुत्रेदानीं वर्तते । नूतनो नवतरस्त्वत्तोऽन्यः कः पुरुषस्तद्भद्रं बिभर्ति । धारयति । यदि त्वय्यवर्तिष्यत ममेदृशी दशापि नाभविष्यत् । अतस्तत् क्व गतमिति कथय ॥ वोचति । वच परिभाषणे । लेट्यडागपुः । वच उमिति व्यत्ययेन धातोरुमागमः । क्व । किमोऽत् (पा ५-३-१२) इति सप्तम्यर्थ्येत् । क्वाति (पा ७-२-१०५) इति किमः क्वादेशः । तित्स्वरित इति स्वरितत्वम् । परेण सह ऋत्यक इति प्रकृतिभावः ॥ ४ ॥

1.105.5
अ॒मी ये दे᳚वा॒ः स्थन᳚ त्रि॒ष्वा रो᳚च॒ने दि॒वः ।
कद्व᳚ ऋ॒तं कदनृ᳚तं॒ क्व᳚ प्र॒त्ना व॒ आहु᳚तिर्वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
अ॒मी इति᳚ । ये । दे॒वाः॒ । स्थन᳚ । त्रि॒षु । आ । रो॒च॒ने । दि॒वः ।
कत् । वः॒ । ऋ॒तम् । कत् । अनृ᳚तम् । क्व᳚ । प्र॒त्ना । वः॒ । आ॑हु᳚तिः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः । त्रिषु पृथिव्यादिषु स्थानेषु येऽमी यूयं स्थन वर्तमाना भवथ । यानि स्थानानि दिवो द्योतमानस्य सूर्यस्य आ रोचने दीप्तिविषये वर्तंते । सूर्यप्रकाश्येषु स्थानेष्वित्यर्थः । तेषां वो युष्माकं संबंधि स्तोतृविषयमृतं सत्यं कत् । कस्मिन्देशे वर्तते । अनृतं द्वेष्वृविषयमसत्यं च कत् कुत्रगतम् । अपि च प्रश्ना चिरकालीना वो युष्माकम् । संबंधिन्याहुतिर्मया पूर्वमनुष्ठितो यागः क्व । कुत्रासीत् । ईदृग्भूदुःखानुभवेन मया पूर्वमनुष्ठितो यागसमूहो युष्मान्न प्राप्नोदित्यनुमिमे । अन्यत्पूर्ववत् ॥ स्थन । तप्तनप्तनथनाश्चेति तशब्दस्य थनादेशः । कत् क्वशब्दस्य वर्णव्यापत्त्या कद्भावः ॥ ५ ॥

1.105.6
कद्व᳚ ऋ॒तस्य᳚ धर्ण॒सि कद्वरु᳚णस्य॒ चक्ष᳚णम् ।
कद᳚र्य॒म्णो म॒हस्प॒थाति᳚ क्रामेम दू॒ढ्यो᳚ वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
कत् । वः॒ । ऋ॒तस्य᳚ । ध॒र्ण॒सि । कत् । वरु᳚णस्य । चक्ष᳚णम् ।
कत् । अ॒र्य॒म्णः । म॒हः । प॒था । अति᳚ । क्रा॒मे॒म॒ । दुः॒॑ध्यः᳚ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवा वो युष्माकं संबंधिन ऋतस्य सत्यस्याभिमतफलप्रापणस्य धर्णसि धारणं कत् । कुत्र गतम् । वरुणस्यानिष्टनिवारकस्य देवस्य चक्षणमनुग्रहदृष्ट्या दर्शनं कत् । क्व गतम् । महो महतो महानुभावस्यार्यम्णोऽरीणां नियंतुरेतत्संज्ञ कस्य देवस्य संबंधिना पथा शोभनमार्गेणेष्टदेशप्रापणं कत् । क्व गतम् । एतत्सर्वं युष्मास्वेव वर्तते । न कुत्रापि गतम् । अतो वयं दूढ्यो दुर्धियः पापबुद्धीनस्मदनिष्टाचरणपरान् शत्रूनति क्रामेम । अतितरेम । तैः कृतादस्मात्कूपपातलक्षणाद्दुःखाद्वयमुत्तीर्णा भवेम । हे व्यापापृथिव्यौ मदीयमिदं जानीतं ॥ धर्णसि । धृञ् धारणे । सानसिधर्णसिपर्णसीत्यादिना (उ ४-१०७) असिच्प्रत्ययांतो निपात्यते । अर्यम्णः । षष्ठ्येकवचनेऽल्लोपोऽन इत्यकारलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । महः । महतोऽच्छब्दलोपश्छांदसः । यद्वा । मह पूजायाम् । क्विप् । उभयथापि सावेकाच इति विभक्तेरुदात्तत्वम् । दूढ्यः । पृषोदरादिः । ध्यै चेति तत्र पाठाद्दुरो रेफस्योत्वम् । उत्तरपदादेः ष्टुत्वं च । उदात्तस्वरितयोर्यण इति स्वरितत्वं ॥ ६ ॥

1.105.7
अ॒हं सो अ᳚स्मि॒ यः पु॒रा सु॒ते वदा᳚मि॒ कानि᳚ चित् ।
तं मा᳚ व्यन्त्या॒ध्यो॒३॒᳚ वृको॒ न तृ॒ष्णजं᳚ मृ॒गं वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
अ॒हम् । सः । अ॒स्मि॒ । यः । पु॒रा । सु॒ते । वदा᳚मि । कानि᳚ । चि॒त् ।
तम् । मा॒ । व्य॒न्ति॒ । आ॒॑ध्यः᳚ । वृकः᳚ । न । तृ॒ष्ण॑ज᳚म् । मृ॒गम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः पुरा पूर्वस्मिन्काले सुते युष्मड्यागार्थं सोमेऽभिषुते कानिजित् कतिपयानि स्तोत्राणि योऽहं वदामि उक्तवानस्मि स एवापमस्मि स त्वस्यः कश्चित् । तस्मात्किमर्थं मा परित्यजथ । तं तादृशं मामाध्योऽभिलषितपुत्राड्यप्राप्त्या जनिता मानस्यो व्यथा व्यंति । भक्षयंति । तत्र दृष्टांतः । तृष्णजं जाततृष्णं पिपासंतमुदकं प्रति गच्छंतं मृगं वृको न । यथारण्यत्वा मध्ये मार्गं भक्षयति तद्वत् । अन्यत्पूर्ववत् ॥ व्यंति । वी गत्यादिषु । अदादित्याच्छपो लुक् । तन्वादीनां छंदसि बहुलमुपसंख्यानमिति बहुलवचनाद्यण् । आध्यः । अधीयते मनसि स्थाप्यत इत्याधिः । उपसर्गे घोः किः पा ३-२-९२ । अतो लोप इट चेत्याकारलोपः । जसादिषु छंदसि वावचनमिति जसि चेति गुणस्य विकल्पवादभावेयणादेशः । तृष्णजम् । तृष पिपासायाम् । स्वपित्रगोर्नजिण् । सा ३-२-१७२ । इति नजिङ् । पदकारस्त्वेवं मन्यते । अन्येष्वपि दृश्यत इति दृशिग्रहणस्य सर्वोपाधिव्यभिचारार्थत्वाक्केवलादपि जनेर्डप्रत्ययः । तृष्णा जाता यस्य । ज्यापोः संज्ञाभंडसोर्बहुलमिति ह्रस्वत्वं ॥ ७ ॥

1.105.8
सं मा᳚ तपन्त्य॒भितः᳚ स॒पत्नी᳚रिव॒ पर्श᳚वः ।
मूषो॒ न शि॒श्ना व्य᳚दन्ति मा॒ध्य᳚ः स्तो॒तारं᳚ ते शतक्रतो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
सम् । मा॒ । त॒प॒न्ति॒ । अ॒भितः᳚ । स॒पत्नीः᳚॑इव । पर्श᳚वः ।
मूषः᳚ । न । शि॒श्ना । वि । अ॒द॒न्ति॒ । मा॒ । आ॒॑ध्यः᳚ । स्तो॒तार᳚म् । ते॒ । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऐंद्येषा । हे इंद्र पर्शवः पार्श्वास्थीनि । अत्र सामर्थ्यात्पर्शुस्थानीयाः कूपभित्तयो मा मावभितः सर्वतः सं तपंति । सम्यक् पीडयंति । तत्र दृष्टांतः । सपत्नीरिव । समान एकः पतिर्यासां ताः सपत्न्यो यथैक पतिमभितः पीडयंति । परस्परं वा पीड्यंते । हे शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वेंद्र ते तेव स्तोतारं मामाध्योऽसंपद्यमानैर्यागदानादिभिरुत्पादिता मानस्यः पीडा व्यदंति । विविधं भक्षयंति । तत्र दृष्टांतः । मूषो न यथा मूषिका शिश्ना शिश्नानि कुविंदेन वायितान्यन्नरसेनालिप्तानि सूत्राणि भिक्षयंति । यद्वा । पिश्नशब्देन प्रजननमेवोच्यते । तच्चोपचारात्पुच्छे वर्तते । यथा । स्वकीयानि पुच्छानि घृततैलादिभांडे प्रक्षिप्योर्ध्वमुत्कृष्य व्यदंति । लिहंतीत्यर्थः । एवं मामाधयो भक्षयंति । न चैतत् हे इंद्र तव स्तोतुर्न्याय्यम् । तस्मात्कूपान्मामुत्तारय । अन्यत्समानं ॥ अत्र निरुक्तम् । संतपंति मामभितः सपत्न्य इवेमाः पर्शवः कूपपर्शवो मूषिका इवास्नातानि सूत्राणि व्यदंति । स्वांगाभिधानं वा स्यात् । शिश्नानि व्यदंतीति । से ४-६ । इति । सपत्नीः । नित्यं सपत्न्यादिषु । ४-१-३५ । इति पतिशब्दस्य नकारांतादेशः । ङीप् । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । मूषः मुष स्तेये । क्विपि छांदसो दीर्घः । तथा च यास्कः । मूषो मूषिका इत्यर्थो मूषिकाः पुनर्मुष्णातेर्मूषोऽप्येतस्मादेव (नि ४-५) इति । शिश्ना । ष्णा शौचे । घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थमिति कः । वर्णव्यापत्त्या सकारस्य शकारः । कृञादीनां के द्वे भवत इति वक्तव्यम् । का ६-१-१२-१ । इति द्विर्वचनम् । बहुलं छंदसीत्यभ्यासस्येत्वं ॥ ८ ॥

1.105.9
अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा᳚ मे॒ नाभि॒रात᳚ता ।
त्रि॒तस्तद्वे᳚दा॒प्त्यः स जा᳚मि॒त्वाय᳚ रेभति वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
अ॒मी इति᳚ । ये । स॒प्त । र॒श्मयः᳚ । तत्र᳚ । मे॒ । नाभिः᳚ । आ॑त᳚ता ।
त्रि॒तः । तत् । वे॒द॒ । आ॒प्त्यः । सः । जा॒मि॒॑त्वाय᳚ । रे॒भ॒ति॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽमी द्युलोके वर्तमानाः सप्तसंख्याका रश्मयः सूर्यस्य किरणाः संति तत्र तेषु सूर्यरश्मिष्वध्यात्वं सप्तप्राणरूपेण वर्तमानेषु मे मदीया नाभिरातता संबद्धा । ऋषिरात्मानमेव परोक्षतया निर्दिशति । त्रितस्तीर्णतमस्तिरस्कृताज्ञान आप्त्योऽपां पुत्र ऋषिस्तत्पूर्वोक्तं वृत्तांतं वेद । जानाति । नान्यः । स जानन्नृषिर्जामित्वाय कूपान्निर्गंतृत्वाय रेभति । तान् रश्मीन् स्तौति । अन्यत्समानं ॥ अतता । तनोतेः कर्मणि निष्या । आनुदात्तोपदेशेत्यादिनानुनासिकलोपः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । जामित्वाय । जमतिर्गतिकर्मा । जमति गच्छतीति जामिः । औणादिक इण्प्रत्ययः । तस्य भावस्तत्त्वम् । रेभति । रेभृ शब्दे । भौवादिकः ॥ ९ ॥

1.105.10
अ॒मी ये पञ्चो॒क्षणो॒ मध्ये᳚ त॒स्थुर्म॒हो दि॒वः ।
दे॒व॒त्रा नु प्र॒वाच्यं᳚ सध्रीची॒ना नि वा᳚वृतुर्वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
अ॒मी इति᳚ । ये । पञ्च᳚ । उ॒क्षणः᳚ । मध्ये᳚ । त॒स्थुः । म॒हः । दि॒वः ।
दे॒व॒॑त्रा । नु । प्र॒॑वाच्य᳚म् । स॒ध्री॒ची॒नाः । नि । व॒वृ॒तुः॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उक्षणः सेक्तारः कामाभिवर्षकाः पंच । तन्न इंद्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् । ऋ १-१०७-३ । इत्यर्धर्चेन प्रतिपादिताः पंचसंख्याका देवाः । यद्वा । अग्निर्वायुः सूर्यश्चंद्रमा विद्युदित्येवं पंचसंख्याकाः । तथा च शाट्यायनकम् । एतान्येव पंच ज्योतींषि यान्येषु लोकेषु दीप्यंते । अग्निः पृथिव्यां वायुरंतरिक्षे च आदित्यो दिवि चंद्रमा नक्षते विद्युदप्स्विति । नक्षत्रे नक्षत्रलोके । अप्सु मेघस्थोदकेषु । तैत्तिरीयेऽप्येवमाम्नातम् । अग्निः पृथिव्यां वायुरंतरिक्षे सूर्यो दिवि चंद्रमा दिक्षु नक्षत्राणि स्वर्लोक इति । येऽमी पंचसंख्याका देवा महो दिवो महतो विस्तीर्णस्य द्युलोकस्य मध्ये तस्थुः । तिष्ठंति आसते देवत्रा देवेषु नु क्षिप्रं प्रवाच्यं प्रशंसनीयं देवानां योग्यं मदीयं स्तोत्रं प्रति सध्रीचीनाः सहां चंतो युगपदागच्छंतस्ते देवा मदीयं परिचरणं स्वीकुर्वंति तदनंतरं नि ववृतुः । तृप्ताः संतो निवर्तंते च । अन्यत्समानं उक्षणः । वा षपूर्वस्य निगम इत्युपधादीर्घाभावः । देवत्रा । देवमनुष्येत्यादिना सप्तम्यर्थे त्राप्रत्ययः । प्रवाच्यम् । वाचयतेरचो यदिति यत् । णेरनिटीति णिलोपः । यतोऽनाव इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । सध्रीचीनाः । सहांचंतीति सध्र्यंचः । त एव सध्रीचीनाः । सहपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । सहस्य सध्रिः (पा ६-३-९५) इति सध्र्यादेशः । विभाषांचेरदिक्स्प्रि यामिति स्वार्थे खप्रत्ययः । ववृतुः । वृतु वर्तने । छंदसि लुङ् लिङ् लिट इति वर्तमाने लिट् । व्यत्ययेन परस्मैपदम् । अन्येषामपि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वं ॥ १० ॥

1.105.11
सु॒प॒र्णा ए॒त आ᳚सते॒ मध्य᳚ आ॒रोध᳚ने दि॒वः ।
ते से᳚धन्ति प॒थो वृकं॒ तर᳚न्तं य॒ह्वती᳚र॒पो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
सु॒॑प॒र्णाः । ए॒ते । आ॒स॒ते॒ । मध्ये᳚ । आ॒॑रोध᳚ने । दि॒वः ।
ते । से॒ध॒न्ति॒ । प॒थः । वृक᳚म् । तर᳚न्तम् । य॒ह्वतीः᳚ । अ॒पः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुपर्णाः । रश्मिनामैतत् । शोभनपतना एते सूर्यरश्मय आरोधने सर्वस्यावरके व्याप्ते दिवोंतरिक्षस्य मध्य आसते वर्तंते । ते सूर्यरश्मयः पथोमार्गाद्वृकमरण्यश्वानं सेधंति । निषेधंति । निवारयंति । कीदृशम् । यह्वतीर्महतीरपस्तरंतमतिक्रामंतम् । कूपपतनात्पूर्वं त्रितं दृष्टैनं भक्षयितुं कश्चिदरण्यश्वा महतीं नदीं तितीर्षुराजगाम । स च सूर्यरश्मीन्दृष्ट्वा यमवसरो न भवतीति निववृते । अतो रश्मयो वृकं निषेधंतीत्युच्यते । यास्कपक्षे त्वाप इत्यंतरिक्षनाम । यह्वतीरपो महदंतरिक्षं पथः पथा द्वादशरश्म्यात्मना मार्गेण तरंतं वृकं चंद्रमसं सूर्यरश्मयो निषेधंति । अहनि हि सूर्यरश्मिभिर्निरुद्धश्छंद्रमा निप्प्रभो दृश्यते । अतो निष्प्रभं कुर्वंतीत्यर्थः ॥ आरोधने । आरुध्यत आव्रियतेऽनेनेत्यारोधनं ॥ करणे ल्युट् । सेधंति । षिदु गत्याम् । अयं केवलोऽपि निपूर्वार्थे द्रष्टव्यः । पथः । पंचम्येकवचने भस्य टेर्लोप इति टलोपः । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । यास्कपक्षे तु तृतीयार्थे व्यत्ययेन पंचमी । यह्वतीः । यह्व इति महन्नाम । अस्मादाचारार्थे सर्वप्रातिपदिकेभ्यः । म ३-१-११-३ । इति क्विप् । ततो लटः शतृ । उगितश्चेति ङीप् । आगमानुशासनस्यानित्यत्वान्नुमभावः । शतुरनुम इति नदीस्वरो व्यत्ययेन न प्रवर्तते ॥ ११ ॥

1.105.12
नव्यं॒ तदु॒क्थ्यं᳚ हि॒तं देवा᳚सः सुप्रवाच॒नम् ।
ऋ॒तम᳚र्षन्ति॒ सिन्ध᳚वः स॒त्यं ता᳚तान॒ सूर्यो᳚ वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
नव्य᳚म् । तत् । उ॒क्थ्य᳚म् । हि॒तम् । देवा᳚सः । सु॒॑प्र॒वा॒च॒नम् ।
ऋ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध᳚वः । स॒त्यम् । त॒ता॒न॒ । सूर्यः᳚ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवासो देवाः नव्यं नवतरमुक्थ्यं प्रशस्यं स्तुत्यर्हं सुप्रवाचनं सुष्ठु ऋत्विग्भिर्वाचयितुं शक्यं एवंभूतं तद्भवदीयं बलं हितम् । युष्मासु निहितम् । अतो युष्मदीयेन बलेन सिंधवः स्यंदनशीला नद्य ऋतमुदकमर्षंति । आलस्यराहित्येन सर्वदा प्रेरयंति । अशोष्याः सत्यः प्रवहंतीत्यर्थः । तथा सूर्यः सत्यं सर्वदा विद्यमानं स्वकीयं तेजस्ततान । आतनोति विस्तारयति । अन्यत्समानं ॥ सुप्रवाचनम् । वच परिभाषणे । अस्याण्यंतादन्येभ्योऽपि दृश्यते इति खलर्थे युच् । अर्षंति । अर्चेर्लेट सिब्बहुलं लेटीति सिप् । गुणः । ततान । अन्येषामपि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वं ॥ १२ ॥

1.105.13
अग्ने॒ तव॒ त्यदु॒क्थ्यं᳚ दे॒वेष्व॒स्त्याप्य᳚म् ।
स नः᳚ स॒त्तो म᳚नु॒ष्वदा दे॒वान्य᳚क्षि वि॒दुष्ट᳚रो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
अग्ने᳚ । तव᳚ । त्यत् । उ॒क्थ्य᳚म् । दे॒वेषु᳚ । अ॒स्ति॒ । आप्य᳚म् ।
सः । नः॒ । स॒त्तः । म॒नु॒ष्वत् । आ । दे॒वान् । य॒क्षि॒ । वि॒दुः॑त᳚रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने तवोक्थ्यं प्रशस्यं त्यत् श्रुतिप्रसिद्धमाप्यम् । आपिर्बंधुः । तस्यभावः । बांधवं देवेषु दानादिगुणयुक्तेष्टिंद्रादिष्वस्ति । विद्यते । तस्मात्स तादृशो विदुष्वरो विद्वत्तरस्त्वं नोऽस्माकं यज्ञे सत्तो निषण्णः सन्देवांस्तानिंद्रादीना शास्त्रमर्यादया यक्षि । यज । हविर्भिः पूजय । तत्र दृष्टांतः । मनुष्वत् । यथा मनूनां यज्ञे तद्वत् । अन्यत्पूर्ववत् ॥ आप्यम् । आप्लृ व्याप्तौ । अस्माण्ण्यंतादच इरितीप्रत्ययः । ब्राह्मणादित्वात् ष्यञ् । सत्तः । नसत्तनिषत्तेति निपातनान्निष्ठानत्वाभावः । छांदसो निशब्द लोपो द्रष्टव्यः । मनुष्टत् । मनेरौणादिक उसिप्रत्ययः । तत्र तस्येवेति षष्ठ्यर्थे वतिः । नभोऽंगिरोमनुषां वत्युपसंख्यानम् । पा १-४-१८-३ । इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः । यक्षि । बहुलं छंदसीति शपो लुक् । व्रश्जादिषत्वे कुत्वम् । विदुष्वरः । विद्वःशब्दात्तरप्ययस्मयादित्वेन भत्वाद्वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ १३ ॥

1.105.14
स॒त्तो होता᳚ मनु॒ष्वदा दे॒वा{4} अच्छा᳚ वि॒दुष्ट᳚रः ।
अ॒ग्निर्ह॒व्या सु᳚षूदति दे॒वो दे॒वेषु॒ मेधि᳚रो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
स॒त्तः । होता᳚ । म॒नु॒ष्वत् । आ । दे॒वान् । अच्छ᳚ । वि॒दुः॑त᳚रः ।
अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु᳚ । मेधि᳚रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मनुष्वत् मनोरिवास्माकं यज्ञे सत्तो निषण्णो होता देवानामाह्वाता विदुष्टरो विद्वत्तरो देवो दानादिगुणयुक्तो देवेषु सर्वेष्विंद्रादिषु मध्ये मेधिरो मेधावी । एवंभूतोऽग्निस्तान्देवानच्छाभिमुख्येन हव्या हव्यान्यस्मदीयानि हवींषि । मर्यादायामाकारः । शास्त्रमर्यादया यथाशास्त्रं सुषूदति । प्रेरयतु । अन्यत्समानं ॥ सुषूदति । षूद क्षरणे । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । मेधिरः । मेधारथाभ्यामिरनिरचौ वक्तव्यौ । पा ५-२-१०९-३ । इति मत्वर्थीय इरन् ॥ १४ ॥

1.105.15
ब्रह्मा᳚ कृणोति॒ वरु᳚णो गातु॒विदं॒ तमी᳚महे ।
व्यू᳚र्णोति हृ॒दा म॒तिं नव्यो᳚ जायतामृ॒तं वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
ब्रह्मा᳚ । कृ॒णो॒ति॒ । वरु᳚णः । गा॒तु॒॑विद᳚म् । तम् । ई॒म॒हे॒ ।
वि । ऊ॒र्णो॒ति॒ । हृ॒दा । म॒तिम् । नव्यः᳚ । जा॒य॒ता॒म् । ऋ॒तम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो वरुणोऽनिष्टस्य निवारयिता देवो ब्रह्म परिवृढं तद्रक्षणरूपं कर्म कृणोति करोति । तं तादृशं गातुविदं गातोर्मार्गस्य दुःखनिवारकस्य लंभयितारं वरुणमीमहे । अभिमतफलं याचामहे । ईमह इति याज्ञाकर्मा । तस्मै वरुणायायमस्मदीयः स्तोता हृदा हृदयेन मतिं मननीयां स्तुतिं व्यूर्णोति विवृणोति । प्रकाशयति । उच्चारयतीत्यर्थः । सोऽयं नव्यं स्तुत्यो वरुणोऽस्माकमृतं जायताम् । सत्यभूतोऽस्तु ॥ ब्रह्म । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । गातुविदम् । विद्लृलाभे अंतर्भावितण्यर्थात् । क्विप् । ईमहे । ईङ् गतौ । बहुलं छंदसीति विकरणस्य लुक् । हृदा । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः ॥ १५ ॥

1.105.16
अ॒सौ यः पन्था᳚ आदि॒त्यो दि॒वि प्र॒वाच्यं᳚ कृ॒तः ।
न स दे᳚वा अति॒क्रमे॒ तं म᳚र्तासो॒ न प᳚श्यथ वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
अ॒सौ । यः । पन्थाः᳚ । आ॒दि॒त्यः । दि॒वि । प्र॒॑वाच्य᳚म् । कृ॒तः ।
न । सः । दे॒वाः॒ । अ॒ति॒॑क्रमे᳚ । तम् । म॒र्ता॒सः॒ । न । प॒श्य॒थ॒ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पंथाः सततगामी । यद्वा । ब्रह्मलोकं गच्छतामुपासकानां मार्गभूतः । सूर्यद्वारेण ते विरजाः प्रयांति । मु उ १-२-११ । इति श्रुतेः । एवंभूतो योऽसावादित्यो दिविद्युलोके प्रवाच्यं प्रकर्षेण वचनं यथा भवति तथा कृतो निर्मितः । यथा सर्वैः प्राणिभिर्दृश्यते तथा वर्तमान इत्यर्थः । हे देवाः सोऽयमादित्यो युष्माभिरपि नातिक्रमे । अतिक्रमितुं न शक्यः । युष्मज्जीवनस्य तदायत्तत्वात् । सति हि सूर्ये वसंतादयः काला निष्पद्यंते । कालेषु च यागाः क्रियंते । यागेषु च सत्सु भवतां जीवनम् । अतो युष्माभिरप्यसौ नातिक्रमितव्यः । एवं च सति हे मर्तासः पापकृतो मनुष्याः तं महानुभावं सूर्यं न पश्यथ । सूर्यं न जानीथः । एतच्च कूपे पातयित्वा निर्गतावेकतद्वितौ प्रति निंदनं ॥ अहमेव मंत्रद्रष्टा तं सूर्यं जानामि पापकृतौ युवां न जानीथ इति ॥ पंथाः । पत्लृ गतौ । पतेस्थ चेतीनिप्रत्ययः । पथिमथ्यृभुक्षामादित्यात्वम् । इतोऽत्सर्वनामस्थाने (पा ७-१-८६) इत्यत्वमिकारस्य । थो न्थः (पा ७-१-८७) पथिमथोः सर्वनामस्थान इत्याद्युदात्तत्वम् । प्रवाच्यम् । वक्तेर्ण्यंतादचो यदिति भावे यत् । यतोऽनाव इत्याद्युदात्तत्वम् । अतिक्रमे । क्रमु पादविक्षेपे । कृत्यार्थे तवैकेनिति केन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ १६ ॥

1.105.17
त्रि॒तः कूपे॑व᳚हितो दे॒वान्ह᳚वत ऊ॒तये᳚ ।
तच्छु᳚श्राव॒ बृह॒स्पति᳚ः कृ॒ण्वन्नं᳚हूर॒णादु॒रु वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
त्रि॒तः । कूपे᳚ । अव᳚॑हितः । दे॒वान् । ह॒व॒ते॒ । ऊ॒तये᳚ ।
तत् । शु॒श्रा॒व॒ । बृह॒स्पतिः᳚ । कृ॒ण्वन् । अं॒हू॒र॒णात् । उ॒रु । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कूपेऽवहितः पातितस्त्रित एतत्संज्ञ ऋषिरूतये रक्षणाय देवान्हवते । स्तुतिभिराकारयति । यदेतत्त्रितस्याह्वानं बृहस्पतिर्बृहतां महतां देवानां रक्षक एतत्संज्ञो देवस्तदाह्वानं शुश्राव । श्रुतवान् । किं कुर्वन् । अंहूरणादंहसः पापरूपादस्मात्कूपपातादुन्नीयोरु विस्तीर्णं शोभनं कृण्वन् कुर्वन् ॥ हवने । ह्वयतेर्लट बहुलं छंदसीति संप्रसारणम् । शब्गुणावादेशाः । ऊतये । ऊतियूतीत्यादिना क्तिन उदात्तत्वम् । बृहस्पतिः । तद्बृहतोः करपत्योः (पा ६-१-१५७) इति पारस्करादिषु पाठात् सुट् तलोपौ । उभे वनस्पत्यादिष्विति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । अंहूरणात् । अहि गतौ । इदित्त्वान्नुम् । खर्जिपिंज्यादिभ्य ऊरोलचौ (उ ४-९०) इति भाव ऊरप्रत्ययः । दुःखप्राप्तिहेतुभावा गतिरस्यास्तीति पामादिलक्षणो मत्वर्थीयो नः (पा ५-२-१००) आङ् पूर्वाद्दंतेर्वा रूपमुन्नेयं ॥ १७ ॥

1.105.18
अ॒रु॒णो मा᳚ स॒कृद्वृकः᳚ प॒था यन्तं᳚ द॒दर्श॒ हि ।
उज्जि᳚हीते नि॒चाय्या॒ तष्टे᳚व पृष्ट्याम॒यी वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
अ॒रु॒णः । मा॒ । स॒कृत् । वृकः᳚ । प॒था । यन्त᳚म् । द॒दर्श᳚ । हि ।
उत् । जि॒ही॒ते॒ । नि॒॑चाय्य᳚ । तष्टा᳚॑इव । पृ॒ष्टि॒॑आ॒म॒यी । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुणवर्णो लोहितवर्णो वृकोऽरण्यश्वा सकृदेकवारं पथा यंतं मार्गेण गच्छंतं मां ददर्श हि । दृष्टवान् । हि पादपूरणम् । निचाय्य दृष्ट्वा च मां जिघृक्षुः सन् उज्जिहीते । उद्गच्छति स्म । तत्र दृष्टांतः । तष्टेव पृष्ट्यामयी । यथा तक्षणजनितपृष्ठक्लेशस्तष्टा वर्धकिस्तदपनोदनायोर्ध्वाभिमुखो भवति तद्वत् । हे द्यावापृथिव्या मदीयमिदं दुःखं वित्तम् । जानीतम् । यद्वा वृक इति विवृतज्योतिष्कश्चंद्रमा उच्यते । अरुण आरोचमानः कृत्स्नस्य जगतः प्रकाशकः मासकृत् मासार्धमासर्त्वयनसंवत्सरादीन्कालविशेषान्कुर्वन् । तिथिविभागज्ञानस्य चंद्रगत्यधीनत्वात् । स चंद्रमा आकाशमार्गे यंतं गच्छंतं नक्षत्रगणं ददर्श । हिरवधारणे । नक्षत्रगणमेव ददर्श न कूपपतितं मावित्यनादरो द्योत्यते । यदि मां पश्येत् उद्धरेत्कूपात् । निचाय्य नक्षत्रगणं दृष्ट्वा चोज्जिहीते । येन नक्षत्रेण संयुज्यते तेन सहोद्गच्छति । न मामभिगच्छतीत्यर्थः । अन्यत्सूर्ववत् ॥ अत्र मासकृदिति यास्क एकं पदं मन्यते शाकल्यस्तु पदद्वयम् । तस्मिन्पक्षेयमर्थः । दक्षप्रजापतेर्दुहितृभूताः स्वभार्या अश्विन्याद्यास्तारकाः पुनःपुनःपुनर्ददर्श । मां सकृदेव पश्यतीति सकृद्दृष्ट्वा चोज्जिहीते । ताराभिः सहोर्ध्वमेव गच्छति । न मां कूपादुत्तारयति । अत इदमनुचितम् । हे द्यावापृथिव्यौ मदीयमिमं वृत्तांतं जानीतं ॥ अत्र निरुक्तम् । वृकश्चंद्रमा भवति विवृतज्योतिष्को वा विकृतज्योतिष्को वा विक्रांतज्योतिष्को वा । अरुण आरोचनो मासकृन्मासानां चार्द्धमासानां च कर्ता भवति चंद्रमा वृकः पथा यंतं ददर्श नक्षत्रगणमभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चंद्रमास्तक्ष्णुवन्निव पृष्ठरोगी (नि ५-२०) इति ॥ सकृत् । एकस्य सकृच्च (पा ५-४-१९) इति क्रियाभ्यावृत्तिगणने निपातितः । वृकः । वृञ् वरणे । सृवृभूशुषिमुषिभ्यः कित् (उ ३-४१) इति कप्रत्ययः । जिहीते । ओहाङ् गतौ । जौहोत्यादिकः । भृञामिदित्यभ्यासस्येत्वम् । निचाय्य । चायृ पूजानिशामनयोः । अत्र दर्शनार्थो धातूनामनेकार्थत्वात् । समासेऽनञ्पूर्वे क्त्वो ल्यप् । पृष्ट्यामयी । स्पृश संस्पर्शने । स्पृश्यतेऽनेनेति स्पृष्टिः । छांदसो वर्णलोपः । पृष्टावामयः पृष्ट्यामयः । तद्वान् पृष्ट्यामयी ॥ १८ ॥

1.105.19
ए॒नाङ्गू॒षेण᳚ व॒यमिन्द्र᳚वन्तो॒॑भि ष्या᳚म वृ॒जने॒ सर्व᳚वीराः ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
ए॒ना । आ॒ङ्गू॒षेण᳚ । व॒यम् । इन्द्र᳚॑वन्तः । अ॒भि । स्या॒म॒ । वृ॒जने᳚ । सर्व᳚॑वीराः ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एनानेनांगूषेणाघोषणयोग्येन स्तोत्रेण हेतुभूतेनेंद्रवंतोऽनुग्राहकेणेंद्रेण युक्ताः सर्ववीराः सर्वैर्वीरैः पुत्रैः पौत्रादिभिश्चोपेताः सं तो वयं वृजने संग्रामेऽभिष्याम । शत्रूनभिभवेम । तदिदमस्मदीयं वचनं मित्रादयो ममहंताम् । पूजयंतु । पालययंत्वित्यर्थः । उतशब्दो देवतासमुच्छये । अत्र यास्कः । आंगूष स्तोम आघोषः । अनेन स्तोमेन वयमिंद्रवंतः (नि ५-११) इति ॥ एना । द्वितीयाटौःस्वेनः (पा २-४-३४) इति तृतीयायामिदम एनादेशः । सुपां सुलुगिति विभक्तेराजादेशः । चित्स्वरेणांतोदात्तत्वम् । आंगूषेण । आङ् पूर्वाद्घुषेः कर्मणि घञ् । आङो ङिकारलोपाभावश्छांदसः । घोषशब्दस्य गूषभावश्च पृषोदरादित्वात् । थाथादिनोत्तरपदांतोदात्तत्वम् । स्याम । अस्तेः प्रार्थनायां लिङि श्नसोरल्लोप इत्यकारलोपः । उपसर्गप्रादुर्भ्यामस्तिर्यच्चरः (पा ८-३-८७) इति षत्वं ॥ १९ ॥