नव्यं॒ तदु॒क्थ्यं᳚ हि॒तं देवा᳚सः सुप्रवाच॒नम् ।
ऋ॒तम᳚र्षन्ति॒ सिन्ध᳚वः स॒त्यं ता᳚तान॒ सूर्यो᳚ वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
ऋ॒तम᳚र्षन्ति॒ सिन्ध᳚वः स॒त्यं ता᳚तान॒ सूर्यो᳚ वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
पदपाठः (Word-by-word)
नव्य᳚म् । तत् । उ॒क्थ्य᳚म् । हि॒तम् । देवा᳚सः । सु॒॑प्र॒वा॒च॒नम् ।
ऋ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध᳚वः । स॒त्यम् । त॒ता॒न॒ । सूर्यः᳚ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
ऋ॒तम् । अ॒र्ष॒न्ति॒ । सिन्ध᳚वः । स॒त्यम् । त॒ता॒न॒ । सूर्यः᳚ । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे देवासो देवाः नव्यं नवतरमुक्थ्यं प्रशस्यं स्तुत्यर्हं सुप्रवाचनं सुष्ठु ऋत्विग्भिर्वाचयितुं शक्यं एवंभूतं तद्भवदीयं बलं हितम् । युष्मासु निहितम् । अतो युष्मदीयेन बलेन सिंधवः स्यंदनशीला नद्य ऋतमुदकमर्षंति । आलस्यराहित्येन सर्वदा प्रेरयंति । अशोष्याः सत्यः प्रवहंतीत्यर्थः । तथा सूर्यः सत्यं सर्वदा विद्यमानं स्वकीयं तेजस्ततान । आतनोति विस्तारयति । अन्यत्समानं ॥ सुप्रवाचनम् । वच परिभाषणे । अस्याण्यंतादन्येभ्योऽपि दृश्यते इति खलर्थे युच् । अर्षंति । अर्चेर्लेट सिब्बहुलं लेटीति सिप् । गुणः । ततान । अन्येषामपि दृश्यत इति संहितायामभ्यासस्य दीर्घत्वं ॥ १२ ॥