स नः᳚ स॒त्तो म᳚नु॒ष्वदा दे॒वान्य᳚क्षि वि॒दुष्ट᳚रो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
पदपाठः (Word-by-word)
सः । नः॒ । स॒त्तः । म॒नु॒ष्वत् । आ । दे॒वान् । य॒क्षि॒ । वि॒दुः॑त᳚रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने तवोक्थ्यं प्रशस्यं त्यत् श्रुतिप्रसिद्धमाप्यम् । आपिर्बंधुः । तस्यभावः । बांधवं देवेषु दानादिगुणयुक्तेष्टिंद्रादिष्वस्ति । विद्यते । तस्मात्स तादृशो विदुष्वरो विद्वत्तरस्त्वं नोऽस्माकं यज्ञे सत्तो निषण्णः सन्देवांस्तानिंद्रादीना शास्त्रमर्यादया यक्षि । यज । हविर्भिः पूजय । तत्र दृष्टांतः । मनुष्वत् । यथा मनूनां यज्ञे तद्वत् । अन्यत्पूर्ववत् ॥ आप्यम् । आप्लृ व्याप्तौ । अस्माण्ण्यंतादच इरितीप्रत्ययः । ब्राह्मणादित्वात् ष्यञ् । सत्तः । नसत्तनिषत्तेति निपातनान्निष्ठानत्वाभावः । छांदसो निशब्द लोपो द्रष्टव्यः । मनुष्टत् । मनेरौणादिक उसिप्रत्ययः । तत्र तस्येवेति षष्ठ्यर्थे वतिः । नभोऽंगिरोमनुषां वत्युपसंख्यानम् । पा १-४-१८-३ । इति भत्वेन पदत्वाभावाद्रुत्वाद्यभावः । यक्षि । बहुलं छंदसीति शपो लुक् । व्रश्जादिषत्वे कुत्वम् । विदुष्वरः । विद्वःशब्दात्तरप्ययस्मयादित्वेन भत्वाद्वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ १३ ॥