श्रवणम्

1.105.15
ब्रह्मा᳚ कृणोति॒ वरु᳚णो गातु॒विदं॒ तमी᳚महे ।
व्यू᳚र्णोति हृ॒दा म॒तिं नव्यो᳚ जायतामृ॒तं वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
ब्रह्मा᳚ । कृ॒णो॒ति॒ । वरु᳚णः । गा॒तु॒॑विद᳚म् । तम् । ई॒म॒हे॒ ।
वि । ऊ॒र्णो॒ति॒ । हृ॒दा । म॒तिम् । नव्यः᳚ । जा॒य॒ता॒म् । ऋ॒तम् । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यो वरुणोऽनिष्टस्य निवारयिता देवो ब्रह्म परिवृढं तद्रक्षणरूपं कर्म कृणोति करोति । तं तादृशं गातुविदं गातोर्मार्गस्य दुःखनिवारकस्य लंभयितारं वरुणमीमहे । अभिमतफलं याचामहे । ईमह इति याज्ञाकर्मा । तस्मै वरुणायायमस्मदीयः स्तोता हृदा हृदयेन मतिं मननीयां स्तुतिं व्यूर्णोति विवृणोति । प्रकाशयति । उच्चारयतीत्यर्थः । सोऽयं नव्यं स्तुत्यो वरुणोऽस्माकमृतं जायताम् । सत्यभूतोऽस्तु ॥ ब्रह्म । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । गातुविदम् । विद्लृलाभे अंतर्भावितण्यर्थात् । क्विप् । ईमहे । ईङ् गतौ । बहुलं छंदसीति विकरणस्य लुक् । हृदा । पद्दन्नित्यादिना हृदयशब्दस्य हृदादेशः ॥ १५ ॥