श्रवणम्

1.105.3
मो षु दे᳚वा अ॒दः स्व१॒᳚रव᳚ पादि दि॒वस्परि᳚ ।
मा सो॒म्यस्य᳚ श॒म्भुव॒ः शूने᳚ भूम॒ कदा᳚ च॒न वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
▶ पदपाठः (Word-by-word)
मो इति᳚ । सु । दे॒वाः॒ । अ॒दः । स्वः᳚ । अव᳚ । पा॒दि॒ । दि॒वः । परि᳚ ।
मा । सो॒म्यस्य᳚ । श॒म्॑भुवः᳚ । शूने᳚ । भू॒म॒ । कदा᳚ । च॒न । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देवाः स्वः स्वर्गे वर्तमानमदस्तदस्मदीयं पितृपितामहप्रपितामहात्मकं संतानं दिवस्परि दिवश्चोपरि वर्तमानं मो षु मैवाव पादि । अवपन्नं विपन्नं प्रभ्रष्टं मा भूत् मम पुत्राभावात् । पुत्रेण लोकाञ्जयति नापुत्रस्य लोकोऽस्तीति श्रुतेः । अतो वयं सोम्यस्य सोमपानार्हस्य पितृगणस्य शंभुवः सुखस्य भावयितुः पुत्रस्य शूने आपगमने कदा चन कदाचिदपि मा भूम । युष्मत्ष्रसादान्मम पुत्रा जायंताम् । अतो मामस्माद्दुःखादुत्तारयतेत्यर्थः हे द्यावापृथिव्यौ युवां च मदीयं विज्ञापनं जानीतं ॥ मो । मा उ इति निपातद्वयसमुदायो मैवेत्यस्यार्थे । सु इत्येतदवधारणे । सुञ इति षत्वम् । पादि पद गतौ । चिण् ते पदः (पा ३-१-६०) इति कर्तरि लुङि श्लेश्चिणादेशः । दिवः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पंचम्याः परावध्यर्थ इति विसर्जनीयस्य सत्वम् । सोम्यस्य सोममर्हति यः (पा ४-४-१३७) इति यप्रत्ययः । शंभुवः । भवतेरंतर्भावितण्यर्थात्क्विप् । शूने । टुओश्वि गतिवृद्थ्योः । भावे निष्ठा । श्विदिशो निष्ठायामितीट् प्रतिषेधः । वचिस्वपीत्यादिना संप्रसारणम् । ओदितश्च (पा ८-२-४५) इति । निष्ठानत्वम् । व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्य ॥ ३ ॥