स॒त्तो होता᳚ मनु॒ष्वदा दे॒वा{4} अच्छा᳚ वि॒दुष्ट᳚रः ।
अ॒ग्निर्ह॒व्या सु᳚षूदति दे॒वो दे॒वेषु॒ मेधि᳚रो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
अ॒ग्निर्ह॒व्या सु᳚षूदति दे॒वो दे॒वेषु॒ मेधि᳚रो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ॥
पदपाठः (Word-by-word)
स॒त्तः । होता᳚ । म॒नु॒ष्वत् । आ । दे॒वान् । अच्छ᳚ । वि॒दुः॑त᳚रः ।
अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु᳚ । मेधि᳚रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
अ॒ग्निः । ह॒व्या । सु॒सू॒द॒ति॒ । दे॒वः । दे॒वेषु᳚ । मेधि᳚रः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
मनुष्वत् मनोरिवास्माकं यज्ञे सत्तो निषण्णो होता देवानामाह्वाता विदुष्टरो विद्वत्तरो देवो दानादिगुणयुक्तो देवेषु सर्वेष्विंद्रादिषु मध्ये मेधिरो मेधावी । एवंभूतोऽग्निस्तान्देवानच्छाभिमुख्येन हव्या हव्यान्यस्मदीयानि हवींषि । मर्यादायामाकारः । शास्त्रमर्यादया यथाशास्त्रं सुषूदति । प्रेरयतु । अन्यत्समानं ॥ सुषूदति । षूद क्षरणे । लेट्यडागमः । बहुलं छंदसीति शपः श्लुः । मेधिरः । मेधारथाभ्यामिरनिरचौ वक्तव्यौ । पा ५-२-१०९-३ । इति मत्वर्थीय इरन् ॥ १४ ॥