श्रवणम्

1.105.19
ए॒नाङ्गू॒षेण᳚ व॒यमिन्द्र᳚वन्तो॒॑भि ष्या᳚म वृ॒जने॒ सर्व᳚वीराः ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
ए॒ना । आ॒ङ्गू॒षेण᳚ । व॒यम् । इन्द्र᳚॑वन्तः । अ॒भि । स्या॒म॒ । वृ॒जने᳚ । सर्व᳚॑वीराः ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

एनानेनांगूषेणाघोषणयोग्येन स्तोत्रेण हेतुभूतेनेंद्रवंतोऽनुग्राहकेणेंद्रेण युक्ताः सर्ववीराः सर्वैर्वीरैः पुत्रैः पौत्रादिभिश्चोपेताः सं तो वयं वृजने संग्रामेऽभिष्याम । शत्रूनभिभवेम । तदिदमस्मदीयं वचनं मित्रादयो ममहंताम् । पूजयंतु । पालययंत्वित्यर्थः । उतशब्दो देवतासमुच्छये । अत्र यास्कः । आंगूष स्तोम आघोषः । अनेन स्तोमेन वयमिंद्रवंतः (नि ५-११) इति ॥ एना । द्वितीयाटौःस्वेनः (पा २-४-३४) इति तृतीयायामिदम एनादेशः । सुपां सुलुगिति विभक्तेराजादेशः । चित्स्वरेणांतोदात्तत्वम् । आंगूषेण । आङ् पूर्वाद्घुषेः कर्मणि घञ् । आङो ङिकारलोपाभावश्छांदसः । घोषशब्दस्य गूषभावश्च पृषोदरादित्वात् । थाथादिनोत्तरपदांतोदात्तत्वम् । स्याम । अस्तेः प्रार्थनायां लिङि श्नसोरल्लोप इत्यकारलोपः । उपसर्गप्रादुर्भ्यामस्तिर्यच्चरः (पा ८-३-८७) इति षत्वं ॥ १९ ॥