प्रथमं मण्डलम् - सूक्तम् 77

5 ऋचः

ऋषिः: गोतमो राहूगणः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 1.77 - सम्पूर्णम्

1 / 5
ऋक्: 1.77.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.77.1 समानपद
क॒था दा᳚शेमा॒ग्नये॒ कास्मै᳚ दे॒वजु᳚ष्टोच्यते भा॒मिने॒ गीः ।
यो मर्त्ये᳚ष्व॒मृत᳚ ऋ॒तावा॒ होता॒ यजि᳚ष्ठ॒ इत्कृ॒णोति᳚ दे॒वान् ॥
▶ पदपाठः (Word-by-word)
क॒था । दा॒शे॒म॒ । अ॒ग्नये᳚ । का । अ॒स्मै॒ । दे॒व॑जु᳚ष्टा । उ॒च्य॒ते॒ । भा॒मिने᳚ । गीः ।
यः । मर्त्ये᳚षु । अ॒मृतः᳚ । ऋ॒त॑वा᳚ । होता᳚ । यजि᳚ष्ठः । इत् । कृ॒णोति᳚ । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

कथेति पंचर्चं चतुर्थं सूक्तं त्रैष्टुभं गोतमस्यार्षमाग्नेयम् । अनुक्रांतं च । कथेति ॥ प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेन सहोक्तः सूक्तविनियोगः ॥

अस्मा अग्नये कथा दाशेम । कथं हवींषि ददाम । अग्नेरनुरूपं यज्ञं कर्तुमशक्ता वयमित्यर्थः । अथवास्मैभामिने तेजस्विनेऽग्नये देवजुष्टा सर्वैर्देवैः सेवितव्या गीर्वाक् स्तुतिरपि का कीदृश्युच्यते । तादृशीं स्तुतिमपि कर्तुं न शक्ता इत्यर्थः । अमृतो मरणरहित ऋतावा ऋतवान् सत्यवान्यज्ञवान् वा होता देवानामाह्वाता होमनिष्पादको वा यजिष्ठोऽतिशयेन यष्वा एवंभूतो योऽग्निर्मत्येषु मरणधर्मस्वस्मासु वर्तमानः सन्देवानित्कृणोति हविर्भिर्युक्तान्करोत्येव । तादृशायाग्नये कथा दाशेमेति पूर्वेणान्वयः ॥ कथा । था हेतौ च च्छंदसीति थाप्रत्ययः । भामिने । भा दीप्तौ । अर्तिस्तुस्वित्यादिना मन्प्रत्ययः । ततो मत्वर्थीय इनिः । ऋतावा । छंदसीवनिपाविति मत्वर्थीयो वनिप् । अन्येषामपि दृश्यत इति दीर्घत्वं ॥ १ ॥

1.77.2 समानपद
यो अ᳚ध्व॒रेषु॒ शंत᳚म ऋ॒तावा॒ होता॒ तमू॒ नमो᳚भि॒रा कृ᳚णुध्वम् ।
अ॒ग्निर्यद्वेर्मर्ता᳚य दे॒वान्त्स चा॒ बोधा᳚ति॒ मन᳚सा यजाति ॥
▶ पदपाठः (Word-by-word)
यः । अ॒ध्व॒रेषु᳚ । शम्॑त᳚मः । ऋ॒त॑वा᳚ । होता᳚ । तम् । ऊं॒ इति᳚ । नमः᳚॑भिः । आ । कृ॒णु॒ध्व॒म् ।
अ॒ग्निः । यत् । वेः । मर्ता᳚य । दे॒वान् । सः । च॒ । बोधा᳚ति । मन᳚सा । य॒जा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योऽग्निरध्वरेषु यागेषु शंतमोऽतिशयेनसुखकारी ऋतावा सत्यवान् । यथार्थदर्शीत्यर्थः । होता देवानामाह्वाता भवति हे ऋत्विग्यजमाना यूयं तमु तमेवाग्निं नमोभिः स्तोत्रैरा कृणुध्वम् । अभिमुखीकुरुत । यद्यदायमग्निर्मर्ताय मनुष्याय यजमानार्थं देवान्वेः वेति गच्छति तदानीं सोऽग्निर्यष्टव्यान्सर्वान्देवान्बोधाति च । जानाति च । ज्ञात्वा च मनसा नमसा तान्यजाति । हविर्भिः पूजयति । अतस्तमेवाग्निमा कृणुध्वमिति योज्यं ॥ वे । वी गत्यादिषु । छंदसि लुङ् लङ् लिट इति वर्तमाने लङ् । तिङां तिङो भवंतीति प्रथमपुरुषैकवचनस्य मध्यमपुरुषैकवचनादेशः । बोधाति । बुध अवगमने । लेट्याडागमः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । चवायोगे प्रथमेति निघातप्रतिषेधः । मनसा । मकारनकारयोः स्थानविपर्ययः ॥ २ ॥

1.77.3
स हि क्रतु॒ः स मर्य॒ः स सा॒धुर्मि॒त्रो न भू॒दद्भु᳚तस्य र॒थीः ।
तं मेधे᳚षु प्रथ॒मं दे᳚व॒यन्ती॒र्विश॒ उप᳚ ब्रुवते द॒स्ममारी᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । हि । क्रतुः᳚ । सः । मर्यः᳚ । सः । सा॒धुः । मि॒त्रः । न । भू॒त् । अद्भु᳚तस्य । र॒थीः ।
तम् । मेधे᳚षु । प्र॒थ॒मम् । दे॒व॒॑यन्तीः । विशः᳚ । उप᳚ । ब्रु॒व॒ते॒ । द॒स्मम् । आरीः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स्य ह्यग्निः क्रतुः कर्मणां कर्ता । स एव मर्यो मारयिता विश्वस्योपसंहर्ता साधुः साधयितोत्पादयितापि स एवाद्भुतस्याभूतस्यालब्धस्य धनस्य रथी रंहयिता प्रापयिता भूत् । भवति । तत्र दृष्टांतः । मित्रो न । यथा सखा दनानि प्रापयति तद्वत् । एवंभूतो योऽग्निस्तमेव मेधेषु यज्ञेषु देवयंतीर्देवयंत्यो देवानात्मन इच्छंत्यो विशः प्रजाः प्रथममुप ब्रुवते । स्तुतिभिरुपेत्य प्रधान भूत इति कथयंति । कीदृश्यो विशः । दस्मं दर्शनीयं तमग्निमारीर्गच्छंत्यः । भजंत्य इत्यर्थः ॥ मर्यः । मृङ् प्राणत्यागे । अस्मादंतर्भावितण्यर्थाच्छंदसि निष्वर्क्येत्यादौ निपातनाद्यत् । कृत्यल्युटो बहुलमिति बहुल वचनात्कर्तरि द्रष्टव्यः । यतोऽनाव इत्याद्युदात्तत्वम् । देवयंतीः । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । आरीः । ऋ गतौ । जनिघसिभ्यामिण् (उ ४-१२९) इथि बहुलग्रहणादस्मादपीण्प्रत्ययः । कृदिकारादक्तिन इति ङीष् । वा छंदसीति पूर्वसवर्णदीर्घत्वम् । व्यत्ययेनाद्युदात्तत्वं ॥ ३ ॥

1.77.4
स नो᳚ नृ॒णां नृत᳚मो रि॒शादा᳚ अ॒ग्निर्गिरो॑व᳚सा वेतु धी॒तिम् ।
तना᳚ च॒ ये म॒घवा᳚न॒ः शवि᳚ष्ठा॒ वाज᳚प्रसूता इ॒षय᳚न्त॒ मन्म᳚ ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । नृ॒णाम् । नृ॑त᳚मः । रि॒शादाः᳚ । अ॒ग्निः । गिरः᳚ । अव᳚सा । वे॒तु॒ । धी॒तिम् ।
तना᳚ । च॒ । ये । म॒घ॑वा᳚नः । शवि᳚ष्ठाः । वाज᳚॑प्रसूताः । इ॒षय᳚न्त । मन्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृणां यज्ञस्य नेतृणां मध्ये नृतमोऽतिशयेन नेता रिशादा रिशानां शत्रूणामत्ता भक्षयिता । यद्वा । रिशतां हिंसतामसिता निरसिता । एवंविधः सोऽग्नि र्नोऽस्माकं गिरः स्तुतीरवसा हविर्लक्षणेनान्नेन युक्तां धीतिं कर्म च वेतु । कामयताम् । अपि च ये यजमानास्तना । धननामैतत् । विस्तृतेन धनेन मघवानो धनवंतः शविष्ठा अतिशयेन बलिनश्च संतो वाजप्रसूताः प्रसूतं प्रेरितं वाजो हविर्लक्षणमन्नं यैस्तादृशा भूत्वा मन्माग्नेर्मननरूपं स्तोत्रमिषयंत एषयंति ऋत्विग्भिः कारयितुमिच्छंति । तेषामपि स्तुतिमग्निः कामयतामिति भावः ॥ नृणाम् । नृ चेत्यु भयथाभावाद्दीर्घाभावः । नामन्यतरस्यामिति नाम उदात्तत्वम् । तना । तनु विस्तारे । पचाद्यच् । तृतीयैकवचनस्य सुषां सुलुगित्याकारः । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । शविष्ठाः । शव इति बलनाम । अस्मायामेधेति मत्वर्थीयो विनिः । तत आतिशायनिक इष्ठन् । विन्मतोर्लुगिति विनो लुक् । टेरिति टलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । इषयंत । इषु इच्छायाम् । अस्माण्ण्यंताच्छांदसो लङ् । संज्ञापूर्वकस्य विधेरनित्यत्वाण्णौ लघूपधगुणाभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते ॥ ४ ॥

1.77.5
ए॒वाग्निर्गोत᳚मेभिरृ॒तावा॒ विप्रे᳚भिरस्तोष्ट जा॒तवे᳚दाः ।
स ए᳚षु द्यु॒म्नं पी᳚पय॒त्स वाजं॒ स पु॒ष्टिं या᳚ति॒ जोष॒मा चि᳚कि॒त्वान् ॥
▶ पदपाठः (Word-by-word)
ए॒व । अ॒ग्निः । गोत᳚मेभिः । ऋ॒त॑वा᳚ । विप्रे᳚भिः । अ॒स्तो॒ष्ट॒ । जा॒त॑वे᳚दाः ।
सः । ए॒षु॒ । द्यु॒म्नम् । पी॒प॒य॒त् । सः । वाज᳚म् । सः । पु॒ष्टिम् । या॒ति॒ । जोष᳚म् । आ । चि॒कि॒त्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतावा ऋतवान्यज्ञवान् जातवेदा जातधनो जातप्रज्ञो वायमग्निर्विप्रेभिर्मेधाविभिर्गोतमेभिर्गोतमैर्ऋषिभिरेवमुक्तेन प्रकारेणास्तोष्ट । स्तुतोऽभूत् । स्तुतश्च सोऽग्निरेषु गोतमेषु द्युम्नं द्योतमानं सोमं पीपयन् । अपिबत् । यद्वा । तानृषीनपाययत् । तथा सोऽग्निर्वाजं हविर्लक्षणमन्नं पीपयदित्येव । एवं सोमलक्षणं चरुपुरोडाशादिलक्षणं हविश्च स्वीकृत्य सोऽग्निर्जोषमस्माभिः कृतं सेवनमा चिकित्वान् अ समंताज्जानन् पुष्विं याति षोषं प्राप्नोतु । यद्वा । अस्माकं धनानि पोषं प्रापयतु ॥ गोतमेभिः । ऋष्यंधकवृष्णिकुरुभ्यश्च (पा ४-१-११४) इति विहिस्याणोऽत्रिभृगुकुत्सवसिष्ठगोतमांगिरोभ्यश्च (पा २-४-६५) इति बहुषु लुक् । अस्तोष्ट । स्तौतेः कमर्णि लुङिचिणभावश्छांदसः । पीपयत् । पा पाने । ण्यंताल्लुङि च्लेश्चङादि । जोषम् । जुषी प्रीतिसेवनयोः । भावे घञ् । इित्त्वादाद्युदात्तत्वं ॥ ५ ॥