श्रवणम्

1.77.4
स नो᳚ नृ॒णां नृत᳚मो रि॒शादा᳚ अ॒ग्निर्गिरो॑व᳚सा वेतु धी॒तिम् ।
तना᳚ च॒ ये म॒घवा᳚न॒ः शवि᳚ष्ठा॒ वाज᳚प्रसूता इ॒षय᳚न्त॒ मन्म᳚ ॥
▶ पदपाठः (Word-by-word)
सः । नः॒ । नृ॒णाम् । नृ॑त᳚मः । रि॒शादाः᳚ । अ॒ग्निः । गिरः᳚ । अव᳚सा । वे॒तु॒ । धी॒तिम् ।
तना᳚ । च॒ । ये । म॒घ॑वा᳚नः । शवि᳚ष्ठाः । वाज᳚॑प्रसूताः । इ॒षय᳚न्त । मन्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नृणां यज्ञस्य नेतृणां मध्ये नृतमोऽतिशयेन नेता रिशादा रिशानां शत्रूणामत्ता भक्षयिता । यद्वा । रिशतां हिंसतामसिता निरसिता । एवंविधः सोऽग्नि र्नोऽस्माकं गिरः स्तुतीरवसा हविर्लक्षणेनान्नेन युक्तां धीतिं कर्म च वेतु । कामयताम् । अपि च ये यजमानास्तना । धननामैतत् । विस्तृतेन धनेन मघवानो धनवंतः शविष्ठा अतिशयेन बलिनश्च संतो वाजप्रसूताः प्रसूतं प्रेरितं वाजो हविर्लक्षणमन्नं यैस्तादृशा भूत्वा मन्माग्नेर्मननरूपं स्तोत्रमिषयंत एषयंति ऋत्विग्भिः कारयितुमिच्छंति । तेषामपि स्तुतिमग्निः कामयतामिति भावः ॥ नृणाम् । नृ चेत्यु भयथाभावाद्दीर्घाभावः । नामन्यतरस्यामिति नाम उदात्तत्वम् । तना । तनु विस्तारे । पचाद्यच् । तृतीयैकवचनस्य सुषां सुलुगित्याकारः । वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । शविष्ठाः । शव इति बलनाम । अस्मायामेधेति मत्वर्थीयो विनिः । तत आतिशायनिक इष्ठन् । विन्मतोर्लुगिति विनो लुक् । टेरिति टलोपः । इष्ठनो नित्त्वादाद्युदात्तत्वम् । इषयंत । इषु इच्छायाम् । अस्माण्ण्यंताच्छांदसो लङ् । संज्ञापूर्वकस्य विधेरनित्यत्वाण्णौ लघूपधगुणाभावः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे णिच एव स्वरः शिष्यते ॥ ४ ॥