प्रथमं मण्डलम् - सूक्तम् 68

10 ऋचः

ऋषिः: पराशरः शाक्त्यः देवता: अग्निः छन्दः: द्विपदा विराट्

सूक्तम् 1.68 - सम्पूर्णम्

1 / 10
ऋक्: 1.68.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.68.1
श्री॒णन्नुप᳚ स्था॒द्दिवं᳚ भुर॒ण्युः स्था॒तुश्च॒रथ᳚म॒क्तून्व्यू᳚र्णोत् ॥
▶ पदपाठः (Word-by-word)
श्री॒णन् । उप᳚ । स्था॒त् । दिव᳚म् । भु॒र॒ण्युः । स्था॒तुः । च॒रथ᳚म् । अ॒क्तून् । वि । ऊ॒र्णो॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रीणन्निति द्वैपदं दशर्चं चतुर्थं सूक्तम् । तत्राध्ययनतः पंचर्चम् । ऋष्याद्याः पूर्ववत् ॥ विनियोगस्तु लैंगिकः ॥

Sayana bhashya empty

1.68.2
परि॒ यदे᳚षा॒मेको॒ विश्वे᳚षां॒ भुव᳚द्दे॒वो दे॒वानां᳚ महि॒त्वा ॥
▶ पदपाठः (Word-by-word)
परि᳚ । यत् । ए॒षा॒म् । एकः᳚ । विश्वे᳚षाम् । भुव᳚त् । दे॒वः । दे॒वाना᳚म् । म॒हि॒॑त्वा ॥
▶ सायणभाष्यम् (Sayana Commentary)

भुरण्युर्हविषां भर्ता धारयिता पयः प्रभृतिना श्रयणद्रव्येण सोममिव तैर्हविर्भिः श्रीणन् मिश्रयन्दिवमुप स्थात् उपतिष्ठति । प्राप्नोतीत्यर्थः । स्थातुः स्थावरं चरथं जंगमं तदुभयात्मकं जगदक्तून् सर्वा रात्रीश्च व्यूर्णोत् । स्वतेजसा विशेषेणाच्छादयति । हविर्वहनं कुर्वन्सर्वमपि जगत्स्वभासा प्रकाशयति स्मेति भावः । विश्वेषां सर्वेषां देवानां दानादिगुणयुक्तानामिंद्रादीनां मध्ये देवो द्योतमान एक एवायमग्निरेषां पूर्वोक्तानां स्थावरादीनां महित्वा महत्त्वानि महात्म्यानि यद्यस्मात्परि भुवत् परिभवति परिगृह्णाति परितो व्याप्य वर्तते । परिपूर्वो भवतिः परिग्रहार्थः । यद्वा । एषां विश्वेषां स्थावरादीनां मध्ये वर्तमानोऽयं देवोऽग्निर्देवानां महत्त्वानि यद्यदा परि भुवत् परितो व्याप्नोति । तदानीमिति पूर्वत्रान्वयः ॥ ऊर्णोत् ऊर्णुञ् आच्छादने । ऊर्णोतेर्विभाषा (पा ७-२-६) इति वृद्धेर्विकल्पः ॥ १ ॥ २ ॥

1.68.3
आदित्ते॒ विश्वे॒ क्रतुं᳚ जुषन्त॒ शुष्का॒द्यद्दे᳚व जी॒वो जनि᳚ष्ठाः ॥
▶ पदपाठः (Word-by-word)
आत् । इत् । ते॒ । विश्वे᳚ । क्रतु᳚म् । जु॒ष॒न्त॒ । शुष्का᳚त् । यत् । दे॒व॒ । जी॒वः । जनि᳚ष्ठाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.68.4
भज᳚न्त॒ विश्वे᳚ देव॒त्वं नाम᳚ ऋ॒तं सप᳚न्तो अ॒मृत॒मेवै᳚ः ॥
▶ पदपाठः (Word-by-word)
भज᳚न्त । विश्वे᳚ । दे॒व॒॑त्वम् । नाम᳚ । ऋ॒तम् । सप᳚न्तः । अ॒मृत᳚म् । एवैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव द्योतमानाग्ने जीवो जीवन्प्रज्वलन् शुष्कान्नीरसादरणिरूपात्काष्ठाद्यद्यदा जनिष्ठाः प्रादुर्भवसि मथनेनोत्पद्यसे आदित् अनंतरमेव विश्वे सर्वे यजमानास्ते तुभ्यं क्रतुं कर्म जुषंत । सेवंते । अनुतिष्ठंति । तथानुष्ठाय च विश्वे ते सर्वे नाम नामकमृतमवितथं देवत्वं देवतात्वं भजंत । भजंते । प्राप्नुवंति । किं कुर्वंतः । अमृतममरणं त्वामेवैस्त्वां गंतृभिः स्तोत्रैः संपतः समवयंतः । प्राप्नुवंत इत्यर्थः ॥ जुषंतेत्यादीनि त्रीण्याख्यातानि च्छंदसि लुङ् लङ् लिट इति वर्तमानार्थानि । एवैः । यंति स्तोतव्याभिमुख्येन गच्छंतीत्येवानि स्तोत्राणि । इण् शीङ् भ्यां वन् । उ १-१५२ ॥ ३ ॥ ४ ॥

1.68.5
ऋ॒तस्य॒ प्रेषा᳚ ऋ॒तस्य᳚ धी॒तिर्वि॒श्वायु॒र्विश्वे॒ अपां᳚सि चक्रुः ॥
▶ पदपाठः (Word-by-word)
ऋ॒तस्य᳚ । प्रेषाः᳚ । ऋ॒तस्य᳚ । धी॒तिः । वि॒श्व॑आ᳚युः । विश्वे᳚ । अपां᳚सि । च॒क्रुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.68.6
यस्तुभ्यं॒ दाशा॒द्यो वा᳚ ते॒ शिक्षा॒त्तस्मै᳚ चिकि॒त्वान्र॒यिं द᳚यस्व ॥
▶ पदपाठः (Word-by-word)
यः । तुभ्य᳚म् । दाशा᳚त् । यः । वा॒ । ते॒ । शिक्षा᳚त् । तस्मै᳚ । चि॒कि॒त्वान् । र॒यिम् । द॒य॒स्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतस्य गतस्य देवयजनं प्राप्तस्याग्नेः प्रेषाः प्रकर्षेणेष्यमाणाः स्तुतयः क्रियंते । धीतिः । धीयते सोमः पीयतेऽस्मिन्निति धीतिर्यागः । सोऽपि ऋतस्य देवयजनदेशं प्राप्यस्याग्नेरेव क्रियते । अतः सोऽग्निर्विश्वायुः । विश्वं सर्वमायुरन्नं यस्य स तथाविधो भवति । अपि चास्मै विश्वे सर्वे यजमाना अपांसि दर्शपूर्णमासादीनि कर्माणि चक्रुः । कुर्वंति । हे अग्ने तुभ्यं यो दाशान् चरुपुरोडाशादीनि हवींषि ददाति । यो वान्योऽपि यो यजमानस्ते शिक्षात् त्वदीयं कर्म कर्तुं शक्तो भूयासमितीच्छति । उभयविधाय तस्मै यजमानाय चिकित्वात् तत्कृतमनुष्ठानं ज्ञानंस्त्वं रयिं दयस्व । धनं देहि ॥ दाशात् । दाशृ दाने । लेट्याडागमः । शिक्षात् । शक्लृ शक्तौ । इच्छार्थे सन् । सनि मीमाघुरभलभशकेत्यकारस्येसादेशः (पा ७-४-५४) अत्रलोपोऽभ्यासस्येत्यभ्यासलोपः । स्कोः संयोगाद्योरिति सकारलोपः । पूर्ववल्लेट्याडागमः । चिकित्वान् । कित ज्ञाने । लिटः क्वसुः । दयस्व । दय दानगतिरक्षणहिंसादानेषु ॥ ५ ॥ ६ ॥

1.68.7
होता॒ निष᳚त्तो॒ मनो॒रप᳚त्ये॒ स चि॒न्न्वा᳚सां॒ पती᳚ रयी॒णाम् ॥
▶ पदपाठः (Word-by-word)
होता᳚ । नि॑स᳚त्तः । मनोः᳚ । अप᳚त्ये । सः । चि॒त् । नु । आ॒सा॒म् । पतिः᳚ । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.68.8
इ॒च्छन्त॒ रेतो᳚ मि॒थस्त॒नूषु॒ सं जा᳚नत॒ स्वैर्दक्षै॒रमू᳚राः ॥
▶ पदपाठः (Word-by-word)
इ॒च्छन्त᳚ । रेतः᳚ । मि॒थः । त॒नूषु᳚ । सम् । जा॒न॒त॒ । स्वैः । दक्षैः᳚ । अमू᳚राः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं मनोरपत्ये यजमानस्वरूपायां प्रजायां होता देवानामह्वाता सन् निषत्तो निषण्णः । मानव्यो हि प्रजाः । तै सं ५-१-५-६ । इति हि ब्राह्मणम् । स चिन्नु स एव त्वमासां प्रजानां रयिणां गवादीनां धनानामपि पतिः स्वामि । अतस्ताः प्रजास्तनूष्वात्मीयेषु शरीरेषु मिथः संसृष्टमेकीभूतं पुत्ररूपेण परिणतं रेतो वीर्यमिच्छंत । ऐच्छन् । त्वदनुग्रहेण पुत्रमलभंतेति यावत् । लब्धपुत्राश्छ ताः प्रजा अमूरा अमूढाः सत्यः स्वैः स्वकीयैर्दक्षैः समर्थैः पुत्रैः सह सं जानत । सम्यगवगच्छंति चिरकालं जीवंतीत्यर्थः । यद्वा । दक्षशब्दः प्राणवाची । प्राणो वै दक्षोऽपानः क्रतुरिति श्रुतेः । स्वैर्दक्षैः स्वकीयैः प्राणैरमूराः संगतास्त्वयैव सर्वं जानंति ॥ इच्छंत । व्यत्ययेनात्मनेपदम् । जानत । छांदसो लङ् । झस्यादादेशे श्नाभ्यस्तयोरात इत्याकारलोपः । अमूराः । मूरा आमूरेत्यत्रयास्क एवं व्याचख्यौ । मूढा वयं स्मोऽमूढस्त्वमसि (नि ६-८) इति । अतोऽत्राप्यमूरशब्देनामूढत्वमुच्यते । वर्णव्यापत्त्याढकारस्य रेफः । यद्वा । मुर्छा मोहनसमुच्छ्राययोः । अस्मात्संपदादिलक्षणो भावे क्विप् । राल्लोप इति छलोपः । रो मत्वथीयः । न मूरा आमूराः । अथवा । अम गत्यादिषु । अस्मादौणादिक ऊरन्प्रत्ययः ॥ ७ ॥ ८ ॥

1.68.9
पि॒तुर्न पु॒त्राः क्रतुं᳚ जुषन्त॒ श्रोष॒न्ये अ᳚स्य॒ शासं᳚ तु॒रासः᳚ ॥
▶ पदपाठः (Word-by-word)
पि॒तुः । न । पु॒त्राः । क्रतु᳚म् । जु॒ष॒न्त॒ । श्रोष᳚न् । ये । अ॒स्य॒ । शास᳚म् । तु॒रासः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

Sayana bhashya empty

1.68.10
वि राय᳚ और्णो॒द्दुरः᳚ पुरु॒क्षुः पि॒पेश॒ नाकं॒ स्तृभि॒र्दमू᳚नाः ॥
▶ पदपाठः (Word-by-word)
वि । रायः᳚ । औ॒र्णो॒त् । दुरः᳚ । पु॒रु॒॑क्षुः । पि॒पेश᳚ । नाक᳚म् । स्तृ॑भिः᳚ । दमू᳚नाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेः शासं शासनं तुरासस्त्वरमाणाः संतो ये यजमानाः श्रोषन् शृण्वंति ते सर्वे तेनानुशिष्टं क्रतुं कर्म जुषंत । सेवंते । तत्र दृष्टांतः । पितुर्नपुत्राः । यथा पुत्रा पुरु बहुलं त्रायकाः पुन्नाम्नो नरकाद्वा रक्षकास्तनयाः पितुराज्ञां कुर्वंति तद्वत् । पुत्रः पुरु त्रायते निपरणाद्वा पुन्नरकं ततस्त्रायत इति वा (नि २-११) इति यास्कः । पुरुक्षुः । क्षु इत्यन्ननाम । बह्वन्नः सोऽग्निरेषां यजमानानां दुरो द्वाराणि यज्ञस्य द्वारभूतानि रायो धनानि व्यौर्णोत् । विवृणोति । प्रकाशयति । ददातीति यावत् । अपि च दमूना दमे यज्ञगृहे मनो यस्य सोऽग्निः । नास्मिन्नकं दुःखमस्तीति नाको द्युलोकः । तम् । स्तृभिरिति नक्षत्रनाम । स्तृभिर्नक्षत्रैः पिपेश । अवयवीचकार । नक्षत्रैर्युक्तमकरोदित्यर्थः ॥ श्रोषन् । श्रु श्रवणे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । बहुलं छंदसीति विकरणस्य लुक् । इतश्च लोप इतीकारलोपः । संयोगांतस्य लोपः । पिपेश । पिश अवयवे ॥ ९ ॥ १० ॥