पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
अस्याग्नेः शासं शासनं तुरासस्त्वरमाणाः संतो ये यजमानाः श्रोषन् शृण्वंति ते सर्वे तेनानुशिष्टं क्रतुं कर्म जुषंत । सेवंते । तत्र दृष्टांतः । पितुर्नपुत्राः । यथा पुत्रा पुरु बहुलं त्रायकाः पुन्नाम्नो नरकाद्वा रक्षकास्तनयाः पितुराज्ञां कुर्वंति तद्वत् । पुत्रः पुरु त्रायते निपरणाद्वा पुन्नरकं ततस्त्रायत इति वा (नि २-११) इति यास्कः । पुरुक्षुः । क्षु इत्यन्ननाम । बह्वन्नः सोऽग्निरेषां यजमानानां दुरो द्वाराणि यज्ञस्य द्वारभूतानि रायो धनानि व्यौर्णोत् । विवृणोति । प्रकाशयति । ददातीति यावत् । अपि च दमूना दमे यज्ञगृहे मनो यस्य सोऽग्निः । नास्मिन्नकं दुःखमस्तीति नाको द्युलोकः । तम् । स्तृभिरिति नक्षत्रनाम । स्तृभिर्नक्षत्रैः पिपेश । अवयवीचकार । नक्षत्रैर्युक्तमकरोदित्यर्थः ॥ श्रोषन् । श्रु श्रवणे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । बहुलं छंदसीति विकरणस्य लुक् । इतश्च लोप इतीकारलोपः । संयोगांतस्य लोपः । पिपेश । पिश अवयवे ॥ ९ ॥ १० ॥