प्रथमं मण्डलम् - सूक्तम् 107

3 ऋचः

ऋषिः: कुत्स आंगिरसः देवता: विश्वेदेवाः छन्दः: त्रिष्टुप्

सूक्तम् 1.107 - सम्पूर्णम्

1 / 3
ऋक्: 1.107.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
1.107.1
य॒ज्ञो दे॒वानां॒ प्रत्ये᳚ति सु॒म्नमादि᳚त्यासो॒ भव᳚ता मृळ॒यन्त᳚ः ।
आ वो॒॑र्वाची᳚ सुम॒तिर्व᳚वृत्यादं॒होश्चि॒द्या व᳚रिवो॒वित्त॒रास᳚त् ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञः । दे॒वाना᳚म् । प्रति᳚ । ए॒ति॒ । सु॒म्नम् । आदि᳚त्यासः । भव᳚त । मृ॒ळ॒यन्तः᳚ ।
आ । वः॒ । अ॒र्वाची᳚ । सु॒॑म॒तिः । व॒वृ॒त्या॒त् । अं॒होः । चि॒त् । या । व॒रि॒वो॒वित्॑त᳚रा । अस᳚त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञो देवानामिति तृचं द्वितीयं सूक्तं कुत्सस्यार्षं त्रैष्टुभं वैश्व देवम् । यज्ञस्तृचमित्यनुक्रांतम् । विनियोगो लैंगिकः ॥

अस्मदीयो यज्ञो देवानामिंद्रादीनां सुम्नं सुखं प्रत्येति प्राप्नोतु । अपि च हे आदित्यास आदित्या मृळयंतोऽस्मान्सुखयंतो भवत । तथा वो युष्माकं सुमतिः शोभना मतिर्भक्तानुग्रहपरा बुद्धिरर्वाच्यस्मदभिमुख्या ववृत्यात् । आवर्तताम् । या मतिरंहोश्चित् दारिद्र्यं प्राप्तस्यापि पुरुषस्य वरिवोवित्तरा । वरिव इति धननाम । अतिशयेन धनस्य लंभयित्र्यसत् भवेत् । सैषा मतिरस्मान्रक्षितुं वर्ततामित्यर्थः ॥ भवत । आमंत्रितं पूर्वमविद्यमानवदित्यादित्यास इति पादादौ वर्तमानस्यामंत्रितस्याविद्यमानवत्त्वेनास्य पादादित्वात् अपादादाविति पर्युदासान्निघाताभावः । मृळयंतः । मड सुखने । ण्यंताल्लटः शतृ । शप् । छंदस्युभयथेति । शतुरार्धधातुकत्वेनादुपदेशाल्लसार्वधातुकानुदात्तत्वाभावे शतुः स्वरः शिष्यते । ववृत्यात् । वृतु वर्तने । लिङि व्यत्ययेन परस्मैपदम् । बहुलम् । छंदसीति शपः श्लुः । अंहोः अहि गतौ । इदित्त्वान्नुम् । औणादिक उप्रत्ययः । वरिवोवित्तरा । विद्लृलाभे । अस्मादंतर्भावितण्यर्थात् क्विप् । तत आतिशायनिकस्तरप् । असत् । असु भुवि । लेट्यडागमः ॥ १ ॥

1.107.2 समानपद
उप᳚ नो दे॒वा अव॒सा ग᳚म॒न्त्वङ्गि᳚रसां॒ साम᳚भिः स्तू॒यमा᳚नाः ।
इन्द्र᳚ इन्द्रि॒यैर्म॒रुतो᳚ म॒रुद्भि᳚रादि॒त्यैर्नो॒ अदि᳚ति॒ः शर्म᳚ यंसत् ॥
▶ पदपाठः (Word-by-word)
उप᳚ । नः॒ । दे॒वाः । अव᳚सा । आ । ग॒म॒न्तु॒ । अङ्गि᳚रसाम् । साम᳚॑भिः । स्तू॒यमा᳚नाः ।
इन्द्रः᳚ । इ॒न्द्रि॒यैः । म॒रुतः᳚ । म॒रुत्॑भिः᳚ । आ॒दि॒त्यैः । नः॒ । अदि᳚तिः । शर्म᳚ । यं॒स॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवा दानादिगुणयुक्ताः सर्वे देवा अवसा रक्षणेनास्मभ्यं दातव्येनान्नेन वा युक्ता नोऽस्मान् स्तोत ॄनुपागमंतु । उपागच्छंतु । प्राप्नुवंतु । कथंभूताः । अंगिरसामेतत्संज्ञकानामृषीणां संबंधिभिः सामभिः प्रगीतैर्मंत्रैः स्तूयमानाः । अपि चेंद्र इंद्रियैः । धननामैतत् । स्वसंबंधिभिरस्मभ्यं दातव्यैर्धनैः सहास्मानागच्छतु । तथा मरुतः सप्तगणरूपा एकोनपंचाशत्संख्याका ईदृङ् चान्यादृङ् चेत्येवमाजिनामानो देवा मरुद्भिः स्वावयवभूतैः प्राणापानादिरूपेण वर्तमानैर्वायुभिः सहास्मानागच्छंतु । तथादितिरखंडनीयादीना वा देवमातादित्यैः स्विकीयैः पुत्रैः सह नोऽस्मभ्यं शर्म सुखं यंसत् । यच्छतु ॥ गमंतु । लोट बहुलं छंदसीति शपो लुक् । छंदस्युभयथेति झेरार्धधातुकत्वेन ङित्त्वाभावाद्गमहनेत्यादिनोपधालोपाभावः । यंसत् । यम उपरमे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् ॥ २ ॥

1.107.3
तन्न॒ इन्द्र॒स्तद्वरु᳚ण॒स्तद॒ग्निस्तद᳚र्य॒मा तत्स᳚वि॒ता चनो᳚ धात् ।
तन्नो᳚ मि॒त्रो वरु᳚णो मामहन्ता॒मदि᳚ति॒ः सिन्धु᳚ः पृथि॒वी उ॒त द्यौः ॥
▶ पदपाठः (Word-by-word)
तत् । नः॒ । इन्द्रः᳚ । तत् । वरु᳚णः । तत् । अ॒ग्निः । तत् । अ॒र्य॒मा । तत् । स॒वि॒ता । चनः᳚ । धा॒त् ।
तत् । नः॒ । मि॒त्रः । वरु᳚णः । म॒म॒ह॒न्ता॒म् । अदि᳚तिः । सिन्धुः᳚ । पृ॒थि॒वी । उ॒त । द्यौः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदस्माभिः प्रार्थ्यमानमन्नमस्ति । चन इत्यन्ननापु । तत्तादृशं चनोऽन्नं नोऽस्मभ्यमिंद्रो धात् । दधातु । ददातु । एवं तद्वरुण इत्यादावपि योज्यम् । तदिदमिंद्रादिभिर्दत्तमस्मदीयमन्नं मित्रादयो ममहंताम् । पूजयंतु । पालयंत्वित्यर्थः ॥ चनः । चायृ पूजानिशामनयोः । चायेरन्ने ह्रस्वश्च । उ ४-१९९ इत्यसुन् नुडागमश्च धातोर्ह्रस्वत्वं च । वलि लोपः । नित्त्वादाद्युदात्तत्वम् । धात् । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लुङ् । गातिस्थेति सिचो लुक् ॥ ३ ॥