प्रथमं मण्डलम् - सूक्तम् 135

9 ऋचः

ऋषिः: परुच्छेपो दैवोदासिः देवता: वायुः छन्दः: अत्यष्टिः

सूक्तम् 1.135 - सम्पूर्णम्

1 / 9
ऋक्: 1.135.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.135.1
स्ती॒र्णं ब॒र्हिरुप᳚ नो याहि वी॒तये᳚ स॒हस्रे᳚ण नि॒युता᳚ नियुत्वते श॒तिनी᳚भिर्नियुत्वते ।
तुभ्यं॒ हि पू॒र्वपी᳚तये दे॒वा दे॒वाय᳚ येमि॒रे ।
प्र ते᳚ सु॒तासो॒ मधु᳚मन्तो अस्थिर॒न्मदा᳚य॒ क्रत्वे᳚ अस्थिरन् ॥
▶ पदपाठः (Word-by-word)
स्ती॒र्णम् । ब॒र्हिः । उप᳚ । नः॒ । या॒हि॒ । वी॒तये᳚ । स॒हस्रे᳚ण । नि॒॑युता᳚ । नि॒यु॒त्व॒ते॒ । श॒तिनी᳚भिः । नि॒यु॒त्व॒ते॒ ।
तुभ्य᳚म् । हि । पू॒र्व॑पी᳚तये । दे॒वाः । दे॒वाय᳚ । ये॒मि॒रे ।
प्र । ते॒ । सु॒तासः᳚ । मधु᳚॑मन्तः । अ॒स्थि॒र॒न् । मदा᳚य । क्रत्वे᳚ । अ॒स्थि॒र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो नोऽस्मद्यज्ञार्थं स्तीर्णंआस्तृतंबर्हिरभिलक्ष्यउपयाहि आगच्छ किमर्थं वीतयेहविषांभ- क्षणाय केनसाधनेनेतितदुच्यते—सहस्रेणसहस्रसंख्याकेननियुता जातावेकवचनम् नियुतइतिवायो- रश्वानांनामधेयं नियुतोवायोरितिनिरुक्तत्वात् तथाशतिनिभिः शतसंख्योपेताभिर्नियुद्भिः आगच्छे- तिशेषः यद्वा सहस्रेणनियुताशतिनीभिश्च नियुद्भिर्नियुत्वते तद्वतेदेवायहविर्दीयतेइतिशॆषः यद्वा तुभ्यमित्यनेनसंबन्धः उक्तसंख्याकाभिर्नियुद्भिस्तद्वतेदेवायद्योतमानाय तुभ्यं ङयिचेत्याद्युदात्तत्वम् पूर्वपीतये इतरदेवेभ्यःपूर्वपानाय देवाःयेमिरेयमितवन्तः यद्वा देवाः स्तोतारऋत्विजःदेवायतुभ्यं- येमिरे आहवनीयंप्रतिसोमंनियमितवन्तः अग्रंपिबामधूनांसुतंवायोइत्यादिमन्त्रान्तरप्रसिद्धिद्योतना- र्थोहिशब्दः किंच एतेत्व्दर्थंसुताः अभिषुताःमधुमन्तोमाधुर्योपेताः सोमाः मदायतवमोदाय प्र प्रकर्षे- णास्थिरन् तिष्ठन्ति किंच क्रत्वेकर्मणेतत्सिद्भ्यर्थं अस्थिरन् ऋत्विग्भिर्धृतास्तिष्ठन्ति अतस्त्वंपिबेति- शेषः तिष्ठतेश्छान्द्सेलुङिव्यत्ययेनझस्यरन् स्थाध्वोरिच्चेतिसिचः कित्त्वं धातोरित्वंच ह्रस्वादङ्गा- दितिसिलोपः ॥ १ ॥

1.135.2
तुभ्या॒यं सोम॒ः परि᳚पूतो॒ अद्रि᳚भिः स्पा॒र्हा वसा᳚न॒ः परि॒ कोश᳚मर्षति शु॒क्रा वसा᳚नो अर्षति ।
तवा॒यं भा॒ग आ॒युषु॒ सोमो᳚ दे॒वेषु᳚ हूयते ।
वह᳚ वायो नि॒युतो᳚ याह्यस्म॒युर्जु᳚षा॒णो या᳚ह्यस्म॒युः ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚ । अ॒यम् । सोमः᳚ । परि᳚॑पूतः । अद्रि᳚॑भिः । स्पा॒र्हा । वसा᳚नः । परि᳚ । कोश᳚म् । अ॒र्ष॒ति॒ । शु॒क्रा । वसा᳚नः । अ॒र्ष॒ति॒ ।
तव᳚ । अ॒यम् । भा॒गः । आ॒युषु᳚ । सोमः᳚ । दे॒वेषु᳚ । हू॒य॒ते॒ ।
वह᳚ । वा॒यो॒ इति᳚ । नि॒॑युतः᳚ । या॒हि॒ । अ॒स्म॒॑युः । जु॒षा॒णः । या॒हि॒ । अ॒स्म॒॑युः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो तुभ्यतुभ्यंत्वदर्थं सुपांसुलुगितिचतुर्थ्यालुक् अयंसोमः हूयमानः कोशंकोशस्थानीयंगृहं- अर्षति गच्छति प्राप्नोति कीदृशः सोमः अद्रिभिःपरिपूतः अभिषवसाधनैः अपगतऋजीषत्वेनशो- धितः यद्वा अद्रिभिरभिषुतः दशापवित्रशोधनेनग्रहणेनवाशोधितः तथास्पार्हास्पृहणी यानितेजां- सिवसानः पिधानः किंच शुक्रा निर्मलानिदीप्तानिवा तेजांसिवसानःसोमःअर्षति त्वां प्राप्नोति ऋषी- गतौ व्यत्ययेनशप् हेवायोआयुषुमनुष्येषु यष्टव्यत्वेनस्थितोभागोभजनीयः अयंसोमः तवत्वदर्थंदेवे- षुमध्येहूयते सत्स्वपीतरेषुदेवेषुयतस्तवभागःअतःप्रथमंतुभ्यंहूयतइत्यर्थः किंच हेवायो एवंतंसोमं- अस्मयुः अस्माभिस्तद्वान् मत्वर्थीयोयुः त्वंनियुतोवह नियुत्संज्ञकानश्वान् वहनायप्रापय ततःपरं- याहि दिवंप्रतिगच्छ तथाकुर्वन् अस्मयुः अस्माभिर्युक्तः सन्नस्माननुगृह्णन् अस्मान्कामयमानोवा क्यचिछान्दसेन्त्यलोपेक्याच्छन्दसीत्युः जुषाणाः प्रीयमाणोयाहि गच्छ ॥ २ ॥

1.135.3
आ नो᳚ नि॒युद्भि᳚ः श॒तिनी᳚भिरध्व॒रं स᳚ह॒स्रिणी᳚भि॒रुप᳚ याहि वी॒तये॒ वायो᳚ ह॒व्यानि᳚ वी॒तये᳚ ।
तवा॒यं भा॒ग ऋ॒त्विय॒ः सर᳚श्मि॒ः सूर्ये॒ सचा᳚ ।
अ॒ध्व॒र्युभि॒र्भर᳚माणा अयंसत॒ वायो᳚ शु॒क्रा अ᳚यंसत ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । नि॒युत्॑भिः᳚ । श॒तिनी᳚भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी᳚भिः । उप᳚ । या॒हि॒ । वी॒तये᳚ । वायो॒ इति᳚ । ह॒व्यानि᳚ । वी॒तये᳚ ।
तव᳚ । अ॒यम् । भा॒गः । ऋ॒त्वियः᳚ । स॑र᳚श्मिः । सूर्ये᳚ । सचा᳚ ।
अ॒ध्व॒र्यु॑भिः᳚ । भर᳚माणाः । अ॒यं॒स॒त॒ । वायो॒ इति᳚ । शु॒क्राः । अ॒यं॒स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो त्वंनःअध्वरं अस्मत्संबन्धिनंयज्ञं शतिनीभिर्नियुद्भिः सहस्रिणीभिश्चताभिः त्वदीयैरश्वै- र्नोस्मद्यज्ञमुपयाहि उपागच्छ किमर्थं वीतये त्वदभिमतकामाय तत्पूतेयेआगत्यच हव्यानिवीतये सोमादिहविर्लक्षणाय अध्वरंहव्यानिचोपलक्ष्यतेषामेव भक्षणाय शतसहस्रैरश्वैरतिशीघ्रमागच्छेत्य- र्थः किंचायंतवभागः भजनीयः सोमः ऋत्वियः प्राप्तकालः प्रदानावसरं प्राप्तः ऋतुशब्देनप्रदानका- लोलक्ष्यते छन्दसिघस् सितिचेतिपदसंज्ञयभसंज्ञायाबाधात् ओर्गुणाभावे यण् किंच सोमः सूर्येउदि- तेसतितस्य रश्मिभिः सचासहसरश्मिर्भवतिसमानदीप्तिर्भवति यद्वा तैः सहितोभवति यतः सूर्ये- उदितेसति रश्मिर्भवति अतः प्राप्तकालइत्यर्थः किंच सोमाः अध्वर्युभिः चमसाध्वर्युभिः तेषांदश- त्वाद्बहुवचनं तैर्भरमाणाः भ्रियमाणाः अयंसत नियताअभवन् किंच हेवायो तेसोमाः शुक्राः अयंसत अत्यन्तदीप्ताउद्यताः अतस्तेषांभक्षणायायाहीत्यर्थः ॥ ३ ॥

1.135.4
आ वां॒ रथो᳚ नि॒युत्वा᳚न्वक्ष॒दव᳚से॒॑भि प्रयां᳚सि॒ सुधि᳚तानि वी॒तये॒ वायो᳚ ह॒व्यानि᳚ वी॒तये᳚ ।
पिब᳚तं॒ मध्वो॒ अन्ध᳚सः पूर्व॒पेयं॒ हि वां᳚ हि॒तम् ।
वाय॒वा च॒न्द्रेण॒ राध॒सा ग᳚त॒मिन्द्र᳚श्च॒ राध॒सा ग᳚तम् ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । रथः᳚ । नि॒युत्वा᳚न् । व॒क्ष॒त् । अव᳚से । अ॒भि । प्रयां᳚सि । सु॑धि᳚तानि । वी॒तये᳚ । वायो॒ इति᳚ । ह॒व्यानि᳚ । वी॒तये᳚ ।
पिब᳚तम् । मध्वः᳚ । अन्ध᳚सः । पू॒र्व॒॑पेय᳚म् । हि । वा॒म् । हि॒तम् ।
वायो॒ इति᳚ । आ । च॒न्द्रेण᳚ । राध᳚सा । आ । ग॒त॒म् । इन्द्रः᳚ । च॒ । राध᳚सा । आ । ग॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

केवलंवायुंस्तुत्वा व्यासक्ततयेन्द्रवायूस्तौति हेवायोत्वांइन्द्रंच वांयुवांअभि अभिलक्ष्य रथः युव- योःसंबन्धीरथः नियुत्वान् नियुद्भिरश्वैस्तद्वान्सन् आवक्षत् देवयजनं प्रतियुष्मानावहतु वहेर्लेट्यडा- गमः सिब्बहुलमितिसिप् यद्यपिनियुतोवायोरेवरथस्योचिताः तथापि व्यासक्तदेवतात्वात् सहैवाग- मनादिन्द्रार्थमपिवहन्ति किमर्थं अवसे गमनाय रक्षणायवा पुनश्च किमर्थं अवसे गमनाय रक्षणायवा पुनश्च किमर्थं प्रयांसि अन्नानि सोमलक्षणानि सुधितानिसुष्ठुगृहीतानि वीतये तेषांभक्षणाय तथाह- व्यानिवीतये इतरेषांसवनीयपुरोडाशादीनां खादनाय वेतेःक्तिन् मन्त्रेवृषेत्यादिनातस्योदात्तत्वं किंच मध्वःमधुरर्सस्यअन्धसः अन्नस्यसोमरूपस्य कर्मणिषष्ठी मधुरंसोमंपिबतं हि यतः पूर्वपेयं इत- रदेवेभ्य्ःपूर्वपानं वांयुवयोर्हितं पातेरचोयत् इतिय्त् ईद्यतीतीकारः अभिमतं अतःप्रथमंपिबतमित्य- र्थः यद्यपीन्द्रादपिवायोःपूर्वपानं त्वंहिपूर्वपाअसि देवदधिषेपूर्वपेयमित्यादिषुसर्वत्रप्रसिद्धं तथा- पीन्द्रस्येतरदेवेभ्यः पूर्वंवायुनासहपाणंचइन्द्रतुरीयार्थवादनब्राह्मणे—देवावैसोमस्यराज्ञोग्रपेयेनस- मपादयन्नित्यत्रप्रतिपादितम् । किंचागमनसमये हेवायो त्वमिन्द्रश्च चन्द्रेणअस्मदाह्लादकेन हि- रण्येनराधसागवादिरूपेणधनेनच सहागतमागच्छतं राधसा रत्नेनधनेनसहागतम् गमेर्लोटि छान्दसः शपोलुक् अनुदात्तोपदेशेत्यनुनासिकलोपः लुङिच मन्त्रेघसेतिच्लेर्लुक् ॥ ४ ॥

1.135.5
आ वां॒ धियो᳚ ववृत्युरध्व॒रा{4} उपे॒ममिन्दुं᳚ मर्मृजन्त वा॒जिन᳚मा॒शुमत्यं॒ न वा॒जिन᳚म् ।
तेषां᳚ पिबतमस्म॒यू आ नो᳚ गन्तमि॒होत्या ।
इन्द्र᳚वायू सु॒ताना॒मद्रि᳚भिर्यु॒वं मदा᳚य वाजदा यु॒वम् ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । धियः᳚ । व॒वृ॒त्युः॒ । अ॒ध्व॒रान् । उप᳚ । इ॒मम् । इन्दु᳚म् । म॒र्मृ॒ज॒न्त॒ । वा॒जिन᳚म् । आ॒शुम् । अत्य᳚म् । न । वा॒जिन᳚म् ।
तेषा᳚म् । पि॒ब॒त॒म् । अ॒स्म॒यू इत्य᳚स्म॒॑यू । आ । नः॒ । ग॒न्त॒म् । इ॒ह । ऊ॒त्या ।
इन्द्र᳚वायू॒ इति᳚ । सु॒ताना᳚म् । अद्रि᳚॑भिः । यु॒वम् । मदा᳚य । वा॒ज॒॑दा॒ । यु॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्रवायू वांयुवांधियः कर्माणिस्तोत्रादिलक्षणानि अध्वरान् उप अस्मदीयान्यज्ञान् लक्षीक्रुत्य ववृत्युः अतिशयेनवर्तयन्ति प्रवर्तयन्ति किंच युष्मदर्थं वाजिनं ग्रहणाय द्रोणकलशाद्ग्रहान् प्रतिगम- नवन्तं आमिक्षावन्तं वाइमंइन्दुं पुरतोवर्तमानंसोमं मर्मृजन्त अध्वर्यंवोदशापवित्रेणसंमार्जयन्ति मार्जनेदृष्टान्तः—आशुंअतिशीघ्रगामिनं अत्यंन सततंगन्तारंवाजिनं वेजनवन्तमश्वमिव यथा स्वेदा- द्यपनयनेनसंमार्जयन्तितद्वत् किंच हेइन्द्रवायू तेषामध्वर्यूणांसंबन्धिनः शोधितान्सोमान् पिबतं पानंकुरुतंतदर्थंनो‍ऽस्माकंयज्ञंप्रतिइहइदानींऊत्यास्मद्रक्षणेन सहआगतं आगच्छतं किंच हेइन्द्रवायू अस्मयू अस्मद्यज्ञमिच्छन्तौ युवंयुवांअद्रिभिर्ग्रावभिः सुतानामभिषुतानां पूर्ववत्कर्मणिषष्ठी तान्पि- बतमितिशेषः किमर्थ मदायतृप्तये मोदायवा यतोयुवंयुवां वाजदावाजस्यान्नस्य दातारौ अतः- पिबतमित्यन्वयः ॥ ५ ॥

1.135.6
इ॒मे वां॒ सोमा᳚ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर᳚माणा अयंसत॒ वायो᳚ शु॒क्रा अ᳚यंसत ।
ए॒ते वा᳚म॒भ्य᳚सृक्षत ति॒रः प॒वित्र᳚मा॒शवः᳚ ।
यु॒वा॒यवो॑ति॒ रोमा᳚ण्य॒व्यया॒ सोमा᳚सो॒ अत्य॒व्यया᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒मे । वा॒म् । सोमाः᳚ । अ॒प्॑सु । आ । सु॒ताः । इ॒ह । अ॒ध्व॒र्यु॑भिः᳚ । भर᳚माणाः । अ॒यं॒स॒त॒ । वायो॒ इति᳚ । शु॒क्राः । अ॒यं॒स॒त॒ ।
ए॒ते । वा॒म् । अ॒भि । अ॒सृ॒क्ष॒त॒ । ति॒रः । प॒वित्र᳚म् । आ॒शवः᳚ ।
यु॒वा॒॑यवः᳚ । अति᳚ । रोमा᳚णि । अ॒व्यया᳚ । सोमा᳚सः । अति᳚ । अ॒व्यया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो वांयुवयोः तवचेन्द्रस्यचस्वभूताः इमेसोमाः अप्सुअस्मदीयेषुकर्मसु ऊडिदमित्यादिना- विभक्तेरुदात्तत्वं इहअस्मिन्नभिषवस्थाने सुताःअभिषुताः अध्वर्युभिः भरमाणास्तैभ्रियमाणागृहीता- होतुंवाह्रियमाणाः कर्मणिकर्तृप्रत्ययः सन्तः आयंसतआगच्छन्त युवयोर्नियताभवन्ति किंच तएवसो- माः शुक्राः दीप्ताःअयंसत नियताभवन्ति किंच एतेआशवः व्यापकाः सोमाः वांयुवांप्रीणयितुमितिशे- षः तिरःपवित्रंतिर्यग्भूतंसोमान्तर्धायकंवा ऊर्णामयंपवित्रंअभ्यसृक्षत अभिलक्ष्यासृज्यन्त सृष्टाभव- न्ति सृजेःक्र्मणिलुङि लिङ् सिचावात्मनेपदेष्वितिसिचःकित्त्वाद्गुणाभावः अमागमाभावश्च किंच युवायवः युवांकामयमानाः सोमासः सोमाः अव्ययाअव्ययान्यच्छिन्ननिरोमाणि पवित्रसंबंधीन्यवि- रोमाणि यद्वा अव्यया अविमयानि मकारोलुप्यते तादृशानिरोमाणि अतिअतिक्रम्यपात्राद्गच्छन्ती- तिशेषः पुनस्तएव विशेष्यन्ते अतिअतिशयेन अव्यया व्ययरहिताः सोमासः सोमाअसृक्षतेतिशेषः ॥ ६ ॥

1.135.7 समानपद
अति᳚ वायो सस॒तो या᳚हि॒ शश्व᳚तो॒ यत्र॒ ग्रावा॒ वद᳚ति॒ तत्र᳚ गच्छतं गृ॒हमिन्द्र᳚श्च गच्छतम् ।
वि सू॒नृता॒ ददृ᳚शे॒ रीय᳚ते घृ॒तमा पू॒र्णया᳚ नि॒युता᳚ याथो अध्व॒रमिन्द्र᳚श्च याथो अध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
अति᳚ । वा॒यो॒ इति᳚ । स॒स॒तः । या॒हि॒ । शश्व᳚तः । यत्र᳚ । ग्रावा᳚ । वद᳚ति । तत्र᳚ । ग॒च्छ॒त॒म् । गृ॒हम् । इन्द्रः᳚ । च॒ । ग॒च्छ॒त॒म् ।
वि । सू॒नृता᳚ । ददृ᳚शे । रीय᳚ते । घृ॒तम् । आ । पू॒र्णया᳚ । नि॒॑युता᳚ । या॒थः॒ । अ॒ध्व॒रम् । इन्द्रः᳚ । च॒ । या॒थः॒ । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो त्वंससतः आलस्यादिनानिद्रांकुर्वतः शश्वतः बहून्यजमानान् शश्वदितिबहुनाम शश्वत् विश्वमितितन्नामसुपाठात् अतिअतिक्रम्य उपेक्ष्यअस्मद्यज्ञंयाहिगच्छ इन्द्रश्चतथाकरोतु क्ंदेशमिति- तन्नामसुपाठात् अतिअतिक्रम्य उपेक्ष्यास्मद्यज्ञंयाहिगच्छ इन्द्रश्चतथाकरोतु कंदेशमितितमाह—यत्र- ग्रावावदति यस्मिन्देशेअभिषवार्थः पाषाणध्वनिःश्रूयते तत्रगच्छतं तंदेशंप्रत्यागच्छतं गृहंयज्ञगृहं- गच्छतं पुनःस्थानमेवविशेष्यते सूनृना प्रियतथ्यात्मिका स्तुतिरूपावाक् यत्रविददृशे विशेषेणदृश्यते- इत्यर्थः तत्रगच्छतं यत्रचघृतंअत्यन्तं दीप्तमाज्यं होमार्थं गृहीतं रीयतेगच्छ्ति आहवनीयंप्रतिनीयते रीङ्श्रक्णे दिवादित्वात् श्यन् तत्रगच्छतं गमनप्रकारएवविशेष्यते पूर्णयासं पूर्णयापुष्टांगया नियुता जातावेकवचनं नियुज्जात्याअध्वरं अस्मदीयंयज्ञं आयाथः आभिमुख्येनप्रयाथः किंच हेवायो त्वंइन्द्र- श्च युवांअध्वरं अस्मदीयं यागं याथः आयाथः सहैवागच्छतं तथास्माभिरपिसहैवगच्छतमित्यर्थः ॥ ७ ॥

1.135.8
अत्राह॒ तद्व᳚हेथे॒ मध्व॒ आहु᳚तिं॒ यम᳚श्व॒त्थमु᳚प॒तिष्ठ᳚न्त जा॒यवो॒॑स्मे ते स᳚न्तु जा॒यवः᳚ ।
सा॒कं गाव॒ः सुव᳚ते॒ पच्य᳚ते॒ यवो॒ न ते᳚ वाय॒ उप᳚ दस्यन्ति धे॒नवो॒ नाप᳚ दस्यन्ति धे॒नवः᳚ ॥
▶ पदपाठः (Word-by-word)
अत्र᳚ । अह᳚ । तत् । व॒हे॒थे॒ इति᳚ । मध्वः᳚ । आ॑हु᳚तिम् । यम् । अ॒श्व॒त्थम् । उ॒प॒॑तिष्ठ᳚न्त । जा॒यवः᳚ । अ॒स्मे इति᳚ । ते । स॒न्तु॒ । जा॒यवः᳚ ।
सा॒कम् । गावः᳚ । सुव᳚ते । पच्य᳚ते । यवः᳚ । न । ते॒ । वा॒यो॒ इति᳚ । उप᳚ । द॒स्य॒न्ति॒ । धे॒नवः᳚ । न । अप᳚ । द॒स्य॒न्ति॒ । धे॒नवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्रवायू अत्राह अस्मिन्नेवयज्ञे अहेतिविनिग्रहार्थीयः मध्वोमधुरस्यमधुसदृशस्यवा तत् तस्य आहुतिं प्रदेयद्रव्यं वहेथेधारयतं यंसोमंअश्वत्थं पर्वतादिव्याप्तिप्रदेशेस्थितं जायवोजेतारोयजमानाः उपतिष्ठन्ति उपेत्यतिष्ठन्तिक्रयाद्यर्थं किंच अस्मे अस्माकं संबंधिनोजायवः जेतारः कर्मनिर्वहितार- स्तेऋत्विजःसन्तु समर्थाभवन्तु यज्ञंनिर्वहन्त्वित्यर्थः यद्वा तेप्रसिद्धाः प्रयोगकुशलाजायवः जेतारऋ- त्विजः अस्मेसन्तुनान्यस्य अत्रवहेथेइत्युक्तं कोत्रविशेषइतितत्राह—हेइन्द्रवायूअस्मिन्यज्ञेगावः धेन- वः साकंसहैवसुवते युष्मदर्थमेव क्षीरमुत्पादयन्ति दोग्ध्र्योभवन्तीत्यर्थः यद्वा गावः साकं सहैव सुवते अपत्यमुत्पादयन्ति त्व्द्दोहनार्थं आदादिकः ङित्त्वात्तास्यनुदात्तेदितिलसार्वधातुकानुदात्तत्वेधातुस्वरः किंच यवः जातावेकवचनंउपलक्षणमेतत् यवादिभिः पुरोडाशादिकंपच्यतेइत्यर्थः किंच हेवायो इन्द्र- च यतोगावएवंसुवते अतस्तेत्वदर्थाधेनवः नोपदस्यन्तिनोपक्षीणाभवन्ति रोगादिनाकृशानभवन्ति नकेवलमनुपक्षीणाः किंतु धेनवः युष्मत्प्रीणयित्र्योगावः नापदस्यन्ति चौराद्युपहारैरुपक्षीणानष्टान- भवन्ति ॥ ८ ॥

1.135.9
इ॒मे ये ते॒ सु वा᳚यो बा॒ह्वो᳚जसो॒॑न्तर्न॒दी ते᳚ प॒तय᳚न्त्यु॒क्षणो॒ महि॒ व्राध᳚न्त उ॒क्षणः᳚ ।
धन्व᳚ञ्चि॒द्ये अ᳚ना॒शवो᳚ जी॒राश्चि॒दगि᳚रौकसः ।
सूर्य᳚स्येव र॒श्मयो᳚ दुर्नि॒यन्त᳚वो॒ हस्त᳚योर्दुर्नि॒यन्त᳚वः ॥
▶ पदपाठः (Word-by-word)
इ॒मे । ये । ते॒ । सु । वा॒यो॒ इति᳚ । बा॒हु॑ओ᳚जसः । अ॒न्तः । न॒दी इति᳚ । ते॒ । प॒तय᳚न्ति । उ॒क्षणः᳚ । महि᳚ । व्राध᳚न्तः । उ॒क्षणः᳚ ।
धन्व᳚न् । चि॒त् । ये । अ॒ना॒शवः᳚ । जी॒राः । चि॒त् । अगि᳚रा॑ओकसः ।
सूर्य᳚स्य॑इव । र॒श्मयः᳚ । दुः॒॑नि॒यन्त᳚वः । हस्त᳚योः । दुः॒॑नि॒यन्त᳚वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसुवायो शोभनफलप्रदवायुदेवते तवस्वभूताइमेपुरतो दृश्यमानायेश्वाःसन्तितेनदी नंदने द्या- वापृथिव्यौअन्तः तयोरन्तराले तंत्वांपतयन्ति पातयन्ति गमयन्ति यद्वा तेतवसंबन्धिनोऽश्वाः पत- यंति पतन्ति यज्ञदेशंगच्छन्ति पतगतौ चौरादिरदन्तः कीदृशास्तेबाह्वोजसः बाहुषुप्रकृष्टबलवन्तः उपलक्षणमेतत् सर्वांगबलाइत्यर्थः किंचउक्षणः सेक्तारः युवानइत्यर्थः महिमहत् अतिप्रभूतं व्राधन्तः वर्धमानाः तथा उक्षणः उक्षाणः तत्सदृशाइत्यर्थः वाषपूर्वस्यनिगमेइतिदीर्घाभावः किंच धन्वन् चित् धन्वनिउदकनिर्गमनापादान भूते अन्तरिक्षेपि निरालंबे अनाशवः नाशरहिताः अव्याप्तावाआकाशे- विलंबमकुर्वाणाइत्यर्थः अतएवजीराश्चित् चिच्छब्दःपूजायां अत्यन्तं क्षिप्रगतयः यद्वा अनाशवइत्य- नेनसहसमुच्चयार्थश्चिच्छब्दः आकाशमार्गेअक्षीणाः शीघ्रगतयश्चे त्यर्थः किंच अगिरौकसः गिरा ओकः स्थानंयेषांनास्तितेतादृशाः भर्त्सनादिनास्थितिमलभमानाइत्यर्थः छान्दसस्तृतीयायाअलुक् तदेव- स्पष्टयति—सूर्यस्यरश्मयइवदुर्नियन्तवः दुःखेननियन्तव्याः तेयथाक्षणेन दशदिशोव्याप्नुवन्ति बहव- श्चतद्वदेतेअपीत्यर्थः पूर्वंगिरा अनिर्ग्राह्यत्वमुक्तं इदानींहस्तेनाप्यनिर्ग्राह्यत्वमाह—हस्तयोर्दुर्नियन्तवः उभाभ्यामपिहस्ताभ्यांदुःखेननियन्तव्याः देवयजनगमनायशीघ्रगमिनइत्यर्थः ॥ ९ ॥

प्रसुज्येष्ठमितिसप्तर्चंतृतीयंसूक्तं ऋषिश्चान्यस्मादितिपरिभाषया परुच्छेपऋषिः अत्यष्टिश्छन्दः ऊतीदेवानामित्यन्त्यात्रिष्टुप् अत्रत्रिष्टुबन्तपरिभाषानाश्रीयते सर्वमात्यष्टमितिविशेषपरिभाषयाबा- धितत्वात् मित्रावरुणौदेवता अन्त्ययोस्तुतन्मन्त्रलिंगोक्तदेवता तथाचानुक्रान्तं—प्रसुसप्तमैत्रावरुणं- त्वंत्येलिंगोक्तदेवतेअन्त्यात्रिष्टुप् तुशब्दप्रयोगांदिदमांदिकेद्वेसूक्तेमैत्रावरुणदेवताकेविनियोगोलैंगिकः ।