तवा॒यं भा॒ग ऋ॒त्विय॒ः सर᳚श्मि॒ः सूर्ये॒ सचा᳚ ।
अ॒ध्व॒र्युभि॒र्भर᳚माणा अयंसत॒ वायो᳚ शु॒क्रा अ᳚यंसत ॥
पदपाठः (Word-by-word)
तव᳚ । अ॒यम् । भा॒गः । ऋ॒त्वियः᳚ । स॑र᳚श्मिः । सूर्ये᳚ । सचा᳚ ।
अ॒ध्व॒र्यु॑भिः᳚ । भर᳚माणाः । अ॒यं॒स॒त॒ । वायो॒ इति᳚ । शु॒क्राः । अ॒यं॒स॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेवायो त्वंनःअध्वरं अस्मत्संबन्धिनंयज्ञं शतिनीभिर्नियुद्भिः सहस्रिणीभिश्चताभिः त्वदीयैरश्वै- र्नोस्मद्यज्ञमुपयाहि उपागच्छ किमर्थं वीतये त्वदभिमतकामाय तत्पूतेयेआगत्यच हव्यानिवीतये सोमादिहविर्लक्षणाय अध्वरंहव्यानिचोपलक्ष्यतेषामेव भक्षणाय शतसहस्रैरश्वैरतिशीघ्रमागच्छेत्य- र्थः किंचायंतवभागः भजनीयः सोमः ऋत्वियः प्राप्तकालः प्रदानावसरं प्राप्तः ऋतुशब्देनप्रदानका- लोलक्ष्यते छन्दसिघस् सितिचेतिपदसंज्ञयभसंज्ञायाबाधात् ओर्गुणाभावे यण् किंच सोमः सूर्येउदि- तेसतितस्य रश्मिभिः सचासहसरश्मिर्भवतिसमानदीप्तिर्भवति यद्वा तैः सहितोभवति यतः सूर्ये- उदितेसति रश्मिर्भवति अतः प्राप्तकालइत्यर्थः किंच सोमाः अध्वर्युभिः चमसाध्वर्युभिः तेषांदश- त्वाद्बहुवचनं तैर्भरमाणाः भ्रियमाणाः अयंसत नियताअभवन् किंच हेवायो तेसोमाः शुक्राः अयंसत अत्यन्तदीप्ताउद्यताः अतस्तेषांभक्षणायायाहीत्यर्थः ॥ ३ ॥