तवा॒यं भा॒ग आ॒युषु॒ सोमो᳚ दे॒वेषु᳚ हूयते ।
वह᳚ वायो नि॒युतो᳚ याह्यस्म॒युर्जु᳚षा॒णो या᳚ह्यस्म॒युः ॥
पदपाठः (Word-by-word)
तव᳚ । अ॒यम् । भा॒गः । आ॒युषु᳚ । सोमः᳚ । दे॒वेषु᳚ । हू॒य॒ते॒ ।
वह᳚ । वा॒यो॒ इति᳚ । नि॒॑युतः᳚ । या॒हि॒ । अ॒स्म॒॑युः । जु॒षा॒णः । या॒हि॒ । अ॒स्म॒॑युः ॥
सायणभाष्यम् (Sayana Commentary)
हेवायो तुभ्यतुभ्यंत्वदर्थं सुपांसुलुगितिचतुर्थ्यालुक् अयंसोमः हूयमानः कोशंकोशस्थानीयंगृहं- अर्षति गच्छति प्राप्नोति कीदृशः सोमः अद्रिभिःपरिपूतः अभिषवसाधनैः अपगतऋजीषत्वेनशो- धितः यद्वा अद्रिभिरभिषुतः दशापवित्रशोधनेनग्रहणेनवाशोधितः तथास्पार्हास्पृहणी यानितेजां- सिवसानः पिधानः किंच शुक्रा निर्मलानिदीप्तानिवा तेजांसिवसानःसोमःअर्षति त्वां प्राप्नोति ऋषी- गतौ व्यत्ययेनशप् हेवायोआयुषुमनुष्येषु यष्टव्यत्वेनस्थितोभागोभजनीयः अयंसोमः तवत्वदर्थंदेवे- षुमध्येहूयते सत्स्वपीतरेषुदेवेषुयतस्तवभागःअतःप्रथमंतुभ्यंहूयतइत्यर्थः किंच हेवायो एवंतंसोमं- अस्मयुः अस्माभिस्तद्वान् मत्वर्थीयोयुः त्वंनियुतोवह नियुत्संज्ञकानश्वान् वहनायप्रापय ततःपरं- याहि दिवंप्रतिगच्छ तथाकुर्वन् अस्मयुः अस्माभिर्युक्तः सन्नस्माननुगृह्णन् अस्मान्कामयमानोवा क्यचिछान्दसेन्त्यलोपेक्याच्छन्दसीत्युः जुषाणाः प्रीयमाणोयाहि गच्छ ॥ २ ॥