श्रवणम्

1.135.7 समानपद
अति᳚ वायो सस॒तो या᳚हि॒ शश्व᳚तो॒ यत्र॒ ग्रावा॒ वद᳚ति॒ तत्र᳚ गच्छतं गृ॒हमिन्द्र᳚श्च गच्छतम् ।
वि सू॒नृता॒ ददृ᳚शे॒ रीय᳚ते घृ॒तमा पू॒र्णया᳚ नि॒युता᳚ याथो अध्व॒रमिन्द्र᳚श्च याथो अध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
अति᳚ । वा॒यो॒ इति᳚ । स॒स॒तः । या॒हि॒ । शश्व᳚तः । यत्र᳚ । ग्रावा᳚ । वद᳚ति । तत्र᳚ । ग॒च्छ॒त॒म् । गृ॒हम् । इन्द्रः᳚ । च॒ । ग॒च्छ॒त॒म् ।
वि । सू॒नृता᳚ । ददृ᳚शे । रीय᳚ते । घृ॒तम् । आ । पू॒र्णया᳚ । नि॒॑युता᳚ । या॒थः॒ । अ॒ध्व॒रम् । इन्द्रः᳚ । च॒ । या॒थः॒ । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो त्वंससतः आलस्यादिनानिद्रांकुर्वतः शश्वतः बहून्यजमानान् शश्वदितिबहुनाम शश्वत् विश्वमितितन्नामसुपाठात् अतिअतिक्रम्य उपेक्ष्यअस्मद्यज्ञंयाहिगच्छ इन्द्रश्चतथाकरोतु क्ंदेशमिति- तन्नामसुपाठात् अतिअतिक्रम्य उपेक्ष्यास्मद्यज्ञंयाहिगच्छ इन्द्रश्चतथाकरोतु कंदेशमितितमाह—यत्र- ग्रावावदति यस्मिन्देशेअभिषवार्थः पाषाणध्वनिःश्रूयते तत्रगच्छतं तंदेशंप्रत्यागच्छतं गृहंयज्ञगृहं- गच्छतं पुनःस्थानमेवविशेष्यते सूनृना प्रियतथ्यात्मिका स्तुतिरूपावाक् यत्रविददृशे विशेषेणदृश्यते- इत्यर्थः तत्रगच्छतं यत्रचघृतंअत्यन्तं दीप्तमाज्यं होमार्थं गृहीतं रीयतेगच्छ्ति आहवनीयंप्रतिनीयते रीङ्श्रक्णे दिवादित्वात् श्यन् तत्रगच्छतं गमनप्रकारएवविशेष्यते पूर्णयासं पूर्णयापुष्टांगया नियुता जातावेकवचनं नियुज्जात्याअध्वरं अस्मदीयंयज्ञं आयाथः आभिमुख्येनप्रयाथः किंच हेवायो त्वंइन्द्र- श्च युवांअध्वरं अस्मदीयं यागं याथः आयाथः सहैवागच्छतं तथास्माभिरपिसहैवगच्छतमित्यर्थः ॥ ७ ॥