श्रवणम्

1.135.5
आ वां॒ धियो᳚ ववृत्युरध्व॒रा{4} उपे॒ममिन्दुं᳚ मर्मृजन्त वा॒जिन᳚मा॒शुमत्यं॒ न वा॒जिन᳚म् ।
तेषां᳚ पिबतमस्म॒यू आ नो᳚ गन्तमि॒होत्या ।
इन्द्र᳚वायू सु॒ताना॒मद्रि᳚भिर्यु॒वं मदा᳚य वाजदा यु॒वम् ॥
▶ पदपाठः (Word-by-word)
आ । वा॒म् । धियः᳚ । व॒वृ॒त्युः॒ । अ॒ध्व॒रान् । उप᳚ । इ॒मम् । इन्दु᳚म् । म॒र्मृ॒ज॒न्त॒ । वा॒जिन᳚म् । आ॒शुम् । अत्य᳚म् । न । वा॒जिन᳚म् ।
तेषा᳚म् । पि॒ब॒त॒म् । अ॒स्म॒यू इत्य᳚स्म॒॑यू । आ । नः॒ । ग॒न्त॒म् । इ॒ह । ऊ॒त्या ।
इन्द्र᳚वायू॒ इति᳚ । सु॒ताना᳚म् । अद्रि᳚॑भिः । यु॒वम् । मदा᳚य । वा॒ज॒॑दा॒ । यु॒वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्रवायू वांयुवांधियः कर्माणिस्तोत्रादिलक्षणानि अध्वरान् उप अस्मदीयान्यज्ञान् लक्षीक्रुत्य ववृत्युः अतिशयेनवर्तयन्ति प्रवर्तयन्ति किंच युष्मदर्थं वाजिनं ग्रहणाय द्रोणकलशाद्ग्रहान् प्रतिगम- नवन्तं आमिक्षावन्तं वाइमंइन्दुं पुरतोवर्तमानंसोमं मर्मृजन्त अध्वर्यंवोदशापवित्रेणसंमार्जयन्ति मार्जनेदृष्टान्तः—आशुंअतिशीघ्रगामिनं अत्यंन सततंगन्तारंवाजिनं वेजनवन्तमश्वमिव यथा स्वेदा- द्यपनयनेनसंमार्जयन्तितद्वत् किंच हेइन्द्रवायू तेषामध्वर्यूणांसंबन्धिनः शोधितान्सोमान् पिबतं पानंकुरुतंतदर्थंनो‍ऽस्माकंयज्ञंप्रतिइहइदानींऊत्यास्मद्रक्षणेन सहआगतं आगच्छतं किंच हेइन्द्रवायू अस्मयू अस्मद्यज्ञमिच्छन्तौ युवंयुवांअद्रिभिर्ग्रावभिः सुतानामभिषुतानां पूर्ववत्कर्मणिषष्ठी तान्पि- बतमितिशेषः किमर्थ मदायतृप्तये मोदायवा यतोयुवंयुवां वाजदावाजस्यान्नस्य दातारौ अतः- पिबतमित्यन्वयः ॥ ५ ॥