श्रवणम्

1.135.6
इ॒मे वां॒ सोमा᳚ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर᳚माणा अयंसत॒ वायो᳚ शु॒क्रा अ᳚यंसत ।
ए॒ते वा᳚म॒भ्य᳚सृक्षत ति॒रः प॒वित्र᳚मा॒शवः᳚ ।
यु॒वा॒यवो॑ति॒ रोमा᳚ण्य॒व्यया॒ सोमा᳚सो॒ अत्य॒व्यया᳚ ॥
▶ पदपाठः (Word-by-word)
इ॒मे । वा॒म् । सोमाः᳚ । अ॒प्॑सु । आ । सु॒ताः । इ॒ह । अ॒ध्व॒र्यु॑भिः᳚ । भर᳚माणाः । अ॒यं॒स॒त॒ । वायो॒ इति᳚ । शु॒क्राः । अ॒यं॒स॒त॒ ।
ए॒ते । वा॒म् । अ॒भि । अ॒सृ॒क्ष॒त॒ । ति॒रः । प॒वित्र᳚म् । आ॒शवः᳚ ।
यु॒वा॒॑यवः᳚ । अति᳚ । रोमा᳚णि । अ॒व्यया᳚ । सोमा᳚सः । अति᳚ । अ॒व्यया᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवायो वांयुवयोः तवचेन्द्रस्यचस्वभूताः इमेसोमाः अप्सुअस्मदीयेषुकर्मसु ऊडिदमित्यादिना- विभक्तेरुदात्तत्वं इहअस्मिन्नभिषवस्थाने सुताःअभिषुताः अध्वर्युभिः भरमाणास्तैभ्रियमाणागृहीता- होतुंवाह्रियमाणाः कर्मणिकर्तृप्रत्ययः सन्तः आयंसतआगच्छन्त युवयोर्नियताभवन्ति किंच तएवसो- माः शुक्राः दीप्ताःअयंसत नियताभवन्ति किंच एतेआशवः व्यापकाः सोमाः वांयुवांप्रीणयितुमितिशे- षः तिरःपवित्रंतिर्यग्भूतंसोमान्तर्धायकंवा ऊर्णामयंपवित्रंअभ्यसृक्षत अभिलक्ष्यासृज्यन्त सृष्टाभव- न्ति सृजेःक्र्मणिलुङि लिङ् सिचावात्मनेपदेष्वितिसिचःकित्त्वाद्गुणाभावः अमागमाभावश्च किंच युवायवः युवांकामयमानाः सोमासः सोमाः अव्ययाअव्ययान्यच्छिन्ननिरोमाणि पवित्रसंबंधीन्यवि- रोमाणि यद्वा अव्यया अविमयानि मकारोलुप्यते तादृशानिरोमाणि अतिअतिक्रम्यपात्राद्गच्छन्ती- तिशेषः पुनस्तएव विशेष्यन्ते अतिअतिशयेन अव्यया व्ययरहिताः सोमासः सोमाअसृक्षतेतिशेषः ॥ ६ ॥