पिब᳚तं॒ मध्वो॒ अन्ध᳚सः पूर्व॒पेयं॒ हि वां᳚ हि॒तम् ।
वाय॒वा च॒न्द्रेण॒ राध॒सा ग᳚त॒मिन्द्र᳚श्च॒ राध॒सा ग᳚तम् ॥
पदपाठः (Word-by-word)
पिब᳚तम् । मध्वः᳚ । अन्ध᳚सः । पू॒र्व॒॑पेय᳚म् । हि । वा॒म् । हि॒तम् ।
वायो॒ इति᳚ । आ । च॒न्द्रेण᳚ । राध᳚सा । आ । ग॒त॒म् । इन्द्रः᳚ । च॒ । राध᳚सा । आ । ग॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
केवलंवायुंस्तुत्वा व्यासक्ततयेन्द्रवायूस्तौति हेवायोत्वांइन्द्रंच वांयुवांअभि अभिलक्ष्य रथः युव- योःसंबन्धीरथः नियुत्वान् नियुद्भिरश्वैस्तद्वान्सन् आवक्षत् देवयजनं प्रतियुष्मानावहतु वहेर्लेट्यडा- गमः सिब्बहुलमितिसिप् यद्यपिनियुतोवायोरेवरथस्योचिताः तथापि व्यासक्तदेवतात्वात् सहैवाग- मनादिन्द्रार्थमपिवहन्ति किमर्थं अवसे गमनाय रक्षणायवा पुनश्च किमर्थं अवसे गमनाय रक्षणायवा पुनश्च किमर्थं प्रयांसि अन्नानि सोमलक्षणानि सुधितानिसुष्ठुगृहीतानि वीतये तेषांभक्षणाय तथाह- व्यानिवीतये इतरेषांसवनीयपुरोडाशादीनां खादनाय वेतेःक्तिन् मन्त्रेवृषेत्यादिनातस्योदात्तत्वं किंच मध्वःमधुरर्सस्यअन्धसः अन्नस्यसोमरूपस्य कर्मणिषष्ठी मधुरंसोमंपिबतं हि यतः पूर्वपेयं इत- रदेवेभ्य्ःपूर्वपानं वांयुवयोर्हितं पातेरचोयत् इतिय्त् ईद्यतीतीकारः अभिमतं अतःप्रथमंपिबतमित्य- र्थः यद्यपीन्द्रादपिवायोःपूर्वपानं त्वंहिपूर्वपाअसि देवदधिषेपूर्वपेयमित्यादिषुसर्वत्रप्रसिद्धं तथा- पीन्द्रस्येतरदेवेभ्यः पूर्वंवायुनासहपाणंचइन्द्रतुरीयार्थवादनब्राह्मणे—देवावैसोमस्यराज्ञोग्रपेयेनस- मपादयन्नित्यत्रप्रतिपादितम् । किंचागमनसमये हेवायो त्वमिन्द्रश्च चन्द्रेणअस्मदाह्लादकेन हि- रण्येनराधसागवादिरूपेणधनेनच सहागतमागच्छतं राधसा रत्नेनधनेनसहागतम् गमेर्लोटि छान्दसः शपोलुक् अनुदात्तोपदेशेत्यनुनासिकलोपः लुङिच मन्त्रेघसेतिच्लेर्लुक् ॥ ४ ॥