प्रथमं मण्डलम् - सूक्तम् 121

15 ऋचः

ऋषिः: कक्षीवान् दैर्घतमस औशिजः देवता: विश्वेदेवाः इंद्रो वा छन्दः: त्रिष्टुप्

सूक्तम् 1.121 - सम्पूर्णम्

1 / 15
ऋक्: 1.121.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
1.121.1
कदि॒त्था नॄ{4}ः पात्रं᳚ देवय॒तां श्रव॒द्गिरो॒ अङ्गि᳚रसां तुर॒ण्यन् ।
प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं᳚सते अध्व॒रे यज᳚त्रः ॥
▶ पदपाठः (Word-by-word)
कत् । इ॒त्था । नॄन् । पात्र᳚म् । दे॒व॒॑य॒ताम् । श्रव᳚त् । गिरः᳚ । अङ्गि᳚रसाम् । तु॒र॒ण्यन् ।
प्र । यत् । आन᳚ट् । विशः᳚ । आ । ह॒र्म्यस᳚ । उ॒रु । क्रं॒स॒ते॒ । अ॒ध्व॒रे । यज᳚त्रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अष्टादशेऽनुवाके षट् सूक्तानि । तत्र कदित्थेति पंचदशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते । कदित्था पंचोना वैश्वदेवं वेति । अनुवर्तमानः कक्षीवानृषिः । अनादेशपरिभाषया त्रिष्टुप् । विश्वे देवा इंद्रो वा देवता ॥ विनियोगो लैंगिकः ॥

नॄः पात्रं नॄन्पाता नृणां स्तुतेर्नेत ॄणां पुरुषाणां रक्षणशील इंद्रस्तुरण्यन् गोरूपधनं प्रेरयन् देवयतां देवं द्योतमानं दानादिगुणयुक्तं वेंद्रमात्मन इच्छतामंगिरसामृषीणामस्माकमित्थेत्थं प्रयुज्यमाना गिरः स्तुतीः कत् कदा कस्मिन्काले श्रवत् । शृणुयात् । यद्यदा स इंद्रो हर्म्यस्य हर्म्योपलक्षितेन गृहेण युक्तस्य यजमानस्य संबंधिनो विश ऋत्विग्लक्षणान्मनुष्याना आभिमुख्येन प्रानट् प्राप्नोति तदानीमध्वरेऽस्मदीये यज्ञे यजत्रो यष्टव्यः सन्नुरु बहुलं क्रंसते । क्रमते । स्वयमेवोत्सहत इत्यर्थः ॥ कत् । कदा । अंत्यलोपश्छांदसः । नॄः पात्रम् । नॄन्पे (पा ८-३-१०) इति संहितायां नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वेत्य ॄकारः सानुनासिकः । पात्रम् । पा रक्षणे । ताच्छीलिकस्तृन् । व्यत्ययेन । सोरमादेशः । संज्ञापूर्वकस्य विधेरनित्यत्वाद्गुणाभावे यण् । देवयताम् । सुप आत्मनः क्यच् । ततो लटः शतृ । शतुरनुम इति विभक्तेरुदात्तत्वम् । श्रवत् । श्रु श्रवणे । लेट्यडागमः । बहुलं छंदसीति विकरणस्य लुक् । तुरण्यन् । तुरण त्वरायाम् । कंड्वादिः । आनट् । अश्नोतेर्लङि व्यत्ययेन परस्मैपदम् । श्नौ प्राप्ते व्यत्ययेन श्नम् विकरणः । व्रश्चादिषत्वे जश्त्वम् । आडागमः । हर्म्यस्य । हर्म्यशब्दादर्शआदित्वादच् । क्रंसते । क्रमु पादविक्षेपे । वृत्तिसर्गतायनेषु क्रमः (पा १-३-३८) इत्यात्मनेपदम् । लेट्यडागमः । सिब्बहुलम् । लेटीति सिप् । यजत्रः अमिनक्षीत्यादिना यजेरत्रन्प्रत्ययः ॥ १ ॥

1.121.2
स्तम्भी᳚द्ध॒ द्यां स ध॒रुणं᳚ प्रुषायदृ॒भुर्वाजा᳚य॒ द्रवि᳚णं॒ नरो॒ गोः ।
अनु᳚ स्व॒जां म᳚हि॒षश्च᳚क्षत॒ व्रां मेना॒मश्व᳚स्य॒ परि᳚ मा॒तरं॒ गोः ॥
▶ पदपाठः (Word-by-word)
स्तम्भी᳚त् । ह॒ । द्याम् । सः । ध॒रुण᳚म् । प्रु॒षा॒य॒त् । ऋ॒भुः । वाजा᳚य । द्रवि᳚णम् । नरः᳚ । गोः ।
अनु᳚ । स्व॒॑जाम् । म॒हि॒षः । च॒क्ष॒त॒ । व्राम् । मेना᳚म् । अश्व᳚स्य । परि᳚ । मा॒तर᳚म् । गोः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स इंद्रो द्यां द्युलोकं स्तंभीद्द । स्तभ्नाति खलु । तथा गोः पणिभिरपहृतस्य गोसमूहस्य वज्रस्योदकस्य किरणसमूहस्य वा नरो नेता । स इंद्र ऋभुः सूर्यात्मनोरुविस्तीर्णं भासमानः सन् द्रविणं सर्वैः प्राणिभिरभिद्रवणीयं धरुणम् । उदकनामैतत् । सर्वस्य धारकं वृष्ट्युदकं वाजायान्नार्थं बलार्थं वा प्रुषायत् । प्रुष्णाति । सिंचति । प्रवर्षतीत्यर्थः । अपि च महिषः । महन्नामैतत् । महान्सूर्यरूपींद्रः स्वजां स्वसकाशागुत्पन्नां व्राम् । वृणोति तमसा सर्वमाच्छादयतीति व्रा रात्रिः । यद्वा । प्रकाशेन वृणोतीति व्रा उषाः । तामनु चक्षत । चष्टिः पश्यतिकर्मा । अनुपश्चात्पश्यति प्रकाशते । स्वयं प्रौढप्रकाशोऽपि स्वगत्या निष्पादिताया रात्रेरुषसश्च पश्चादुदेतीत्यर्थः । अपि चेदमपरमाश्चर्यं यदयमश्वस्यं मेनाम् । स्त्रीनामैतत् । स्त्रियं वडवां गोर्मातरं जननीम् । परर्वैपरीत्ये । विपरीतमकरोत् । कदाचिदिंद्रो लीलयाऽश्वायां गामुत्पादयामास । तदत्र प्रतिपाद्यते मंत्रांतरे चेंद्रवाक्यरूप एतद्विस्पष्टमवगम्यते ॥ धरुणम् । धारेर्णीलुक्चेत्युनप्रत्ययः । प्रुषायात् । प्रुष प्लुष स्नेहनसेचनपूरणेषु । क्रैयादिकः । लेट्यडागमः छंदसि शायजपीत्यहावपि श्नाप्रत्ययस्य शायजादेशः । नरः । नॄ नये । बहुलवचनादॄदोरबिति कर्तर्यप् । चक्षत । चक्षिङ् व्यक्तायां वाचि । छांदसो लङ् । बहुलं छंदसीति शपो लुगभावः ॥ २ ॥

1.121.3
नक्ष॒द्धव᳚मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि᳚रसा॒मनु॒ द्यून् ।
तक्ष॒द्वज्रं॒ नियु᳚तं त॒स्तम्भ॒द्द्यां चतु᳚ष्पदे॒ नर्या᳚य द्वि॒पादे᳚ ॥
▶ पदपाठः (Word-by-word)
नक्ष᳚त् । हव᳚म् । अ॒रु॒णीः । पू॒र्व्यम् । राट् । तु॒रः । वि॒शाम् । अङ्गि᳚रसाम् । अनु᳚ । द्यून् ।
तक्ष᳚त् । वज्र᳚म् । नि॑यु᳚तम् । त॒स्तम्भ᳚त् । द्याम् । चतुः᳚॑पदे । नर्या᳚य । द्वि॒॑पादे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अरुणीररुणवर्णा आरोचमाना वोषसो राट् राजयन्प्रकाशयन्सूर्यात्मेंद्रः पूर्व्यं पूर्वैर्ऋषिभिः प्रयुक्तं हवमिदानीमस्माभिः क्रियमाणमाह्वनं नक्षत् । नक्षतु । शृणोतु । कीदृशः । अनु द्यून् अनुदिवसं विशां मनुष्याणामंगिरसामृषीणां स्तोतॄणां तुरो धनस्य प्रेरयिता । अपि च स इंद्रो वज्रं स्वकीयमायुधं नियुतं हंतव्येन सह नितरां युक्तं तक्षत् । अकरोत् । तथा द्यां द्युलोकं तस्तंभत् । अस्तंभयत् । यथाधो न पतति तथाकरोदित्यर्थः किमर्थम् । नर्याय नृभ्यो हीताय चतुष्पदे गवाश्वादये द्विपादे मनुष्याय च । एतदुभयार्थमित्यर्थः ॥ नक्षत् । नक्ष गतौ । लेट्यडागमः । पूर्व्यम् । पूर्वैः कृतमिनयौ च (पा ४-४-१३३) इति यप्रत्ययः । राट् । राजृ दीप्तौ । अस्मादंतर्भावितण्यर्थात् क्विप् । तुरः । तुर त्वरणे । इगुपधलक्षणः कः । तक्षत् । तक्षू त्वक्षू तनूकरणे । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । तस्तंभत् । ष्टभि स्कभि गतिप्रतिबंधे । अस्माण्ण्यंताल्लुङि चङिरूपम् । चङ्यन्यरतस्या मित्युपोत्तमस्योदात्तत्वम् । पूर्वपदस्यासमानवाक्यस्थत्वान्निघाताभावः । चतुष्पदे । चत्वारः पादा अस्य । संख्या सुपूर्वस्येति पादशब्दस्यांत्यलोपः समासांतः । चतुर्थ्येकवचने भसंज्ञायां पादः । पदिति पद्भावः । द्विपादे । पूर्ववत्प्रक्रिया । अयं तु विशेषः । अयस्मयादि त्वेन पदत्वाद्भसंज्ञाया अभावे पद्भावाभावः । द्वित्रिभ्यां पाद्दन्मूर्धसु । बहुव्रीहावित्युत्तरपदांतोदात्तत्वं ॥ ३ ॥

1.121.4
अ॒स्य मदे᳚ स्व॒र्यं᳚ दा ऋ॒तायापी᳚वृतमु॒स्रिया᳚णा॒मनी᳚कम् ।
यद्ध᳚ प्र॒सर्गे᳚ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु᳚षस्य॒ दुरो᳚ वः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । मदे᳚ । स्व॒र्य᳚म् । दाः॒ । ऋ॒ताय᳚ । अपि᳚॑वृतम् । उ॒स्रिया᳚णाम् । अनी᳚कम् ।
यत् । ह॒ । प्र॒॑सर्गे᳚ । त्रि॒॑क॒कुप् । नि॒॑वर्त᳚त् । अप᳚ । द्रुहः᳚ । मानु᳚षस्य । दुरः᳚ । व॒रिति᳚ वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र अस्य सोमस्य पानेन मदे हर्षे सत्यृताय । यज्ञार्थं स्वर्यं स्तुत्यमपीवृतं पणिभिर्गुहासु निगूढमुस्रियाणां गवामनीकं संघं दाः । अंगिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । यद्ध यदा खलु प्रसग्रे युद्धे त्रिककुप् त्रिषु लोकेषूच्छ्रित इंद्रो निवर्तत् नितरां वर्तेत तदानीं स इंद्रो द्रूहो द्रोग्धुर्मानुषस्य मनोः संबंधिनोऽसुरस्य पणेः संबंधीनि दुरो द्वाराणि गवामनिर्गगमनाय पिहितान्यप वः । अपवृणोति । उद्घाटयति ॥ सूर्यं स्वृ शब्दोपतापयोः । ऋहलोर्ण्यत् । संज्ञापूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावः । अपीवृतम् । अपिपूर्वाद्वृणोतेः कर्मणि निष्ठा । निपातस्य चेति पूर्वपदस्य दीर्घः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यंते विमुच्यंतेऽस्मिन्निषव इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम् । छांदसस्थाथादिस्वराभावः । निवर्तत् । वृतु वर्तने । लेट्यडागमः । व्यत्ययेन परस्मैपदम् । वः वृञ् वरणे । छांदसे लुङि मंत्रे घसेति च्लेर्लुक् । गुणे हल्ङ्यादिलोपः ॥ ४ ॥

1.121.5 समानपद
तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी᳚तां॒ राधः᳚ सु॒रेत᳚स्तु॒रणे᳚ भुर॒ण्यू ।
शुचि॒ यत्ते॒ रेक्ण॒ आय᳚जन्त सब॒र्दुघा᳚या॒ः पय᳚ उ॒स्रिया᳚याः ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚म् । पयः᳚ । यत् । पि॒तरौ᳚ । अनी᳚ताम् । राधः᳚ । सु॒॑रेतः᳚ । तु॒रणे᳚ । भु॒र॒ण्यू इति᳚ ।
शुचि᳚ । यत् । ते॒ । रेक्णः᳚ । अय᳚जन्त । स॒बः॒॑दुघा᳚याः । पयः᳚ । उ॒स्रिया᳚याः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र तुरणे क्षिप्रकारिणे तुभ्यं भुरण्यू कृत्स्नं जगत्पोषयंत्यौ पितरावुत्पादयंत्यौ द्यावापृथिव्यौ यद्यदा पयः सांनाय्यलक्षणं हविरनीतां गोष्वनयताम् । न्यधिषातामित्यर्थः । कीदृशं पयः । राधो राधकं समृद्धिकरं सुरेतः शोभनरेतस्कम् । कृत्स्नजगदुत्पादनशक्तमित्यर्थः । हविषः सकाशाद्धि जगदुत्पद्यते । अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । मनु ३-७६ । इति । यद्यदा च द्यावापृथिवीभ्यां गोष्वानीतं शुचि शुद्धं सबर्दुघायाः क्षीरस्य दोग्ध्र्या उस्रियाया गोः पयो रेक्णः । धननामैतत् । धनवदतिप्रियम् । यद्वा । अतिरिक्तं प्रवृद्धम् । एवंविधं हविस्तुभ्यमायजंत अभिमुख्येन यजमानाः प्रायच्छन् । तदानीं द्रुहो मानुषस्य द्वाराण्यपवृणोतीति पूर्वया संबंधः । अनीताम् । णीञ् प्रापणे । लङि बहुलं छंदसीति शपो लुक् । सुरेतः । सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । तुरणे । तुरण त्वरायाम् । कंड्वादिः । क्विप्चेति क्विप् । आतोलोपयलोपौ । भुरण्यू । भुरण धारणपोषणयोः अयमपि कंड्वादिः । औणादिक उप्रत्ययः ॥ ५ ॥

1.121.6
अध॒ प्र ज᳚ज्ञे त॒रणि᳚र्ममत्तु॒ प्र रो᳚च्य॒स्या उ॒षसो॒ न सूरः᳚ ।
इन्दु॒र्येभि॒राष्ट॒ स्वेदु᳚हव्यैः स्रु॒वेण᳚ सि॒ञ्चञ्ज॒रणा॒भि धाम᳚ ॥
▶ पदपाठः (Word-by-word)
अध᳚ । प्र । ज॒ज्ञे॒ । त॒रणिः᳚ । म॒म॒त्तु॒ । प्र । रो॒चि॒ । अ॒स्याः । उ॒षसः᳚ । न । सूरः᳚ ।
इन्दुः᳚ । येभिः᳚ । आष्ट᳚ । स्व॑इदु᳚हव्यैः । स्रु॒वेण᳚ । सि॒ञ्चन् । ज॒रणा᳚ । अ॒भि । धाम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधेदानीमयमिंद्रः स्तुतिभिः प्रीयमाणः सन् प्र जज्ञे । प्रकर्षेण प्रादुर्बभूव । स तरणिः शत्रूणां तारकोऽस्मान्ममत्तु । मादयतु । स च प्र रोचि प्रकृष्टं रोचते । तत्र दृष्टांतः । अस्या अस्माभिर्दृश्यमानाया उषसः समीपे वर्तमानः सूरो न सूर्य इव । जरणा जरणीयः स्तोतव्य इंदुः सोमो धामाहवनीयलक्षणं स्थानमभिलक्ष्य स्रुवेण सिंचन् सिच्यमानः सन् स्वेदुहव्यैः स्वभूतसमृद्धहविष्कैर्येभिर्यैरस्माभिराष्ट आशित आसीत् । तानस्मान्मादयत्वित्यर्थः । जज्ञे । जनी प्रादुर्भापे । लिट गमहनेत्युपधालोपः । ममत्तु । मदी हर्षे । बहुलं छंदसीति विकरणस्य श्लुः । रोचि । रुच दीप्तौ । छांदसो वर्तमानो लुङ् । व्यत्ययेन च्लेश्चिणादेशः । अष्ट । अश भोजने । कर्मणि लङि बहुलं छंदसीति विकरणस्य लुक् । व्रश्चादिषत्वे ष्टुत्वम् । आडागमः । यद्वृत्तान्नित्यमिति निघातप्रतिषेधः । स्वेदुहव्यैः । इदि परमैश्वर्ये । औणादिक उप्रत्ययः । अनित्यमागमशासनमिति नुमभावः । इदूनि प्रभूतानि च तानि हव्यानि स्वभूतानि च हव्यानि येषाम् । यद्वा । ञिइंधी दीप्तौ । स्वायत्तानींदूनीद्धानि हव्यानि येषाम् । अथवा । स्वभूतमिदं पुरोवर्ति हव्यं हविर्येषां ते तथोक्ताः । पृषोदरादित्वादभिमतरूपसिद्धिः । सिंचन् । षिचिर् क्षरणे । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । शे मुचादीनामिति नुम् । जरणा । जरतिः स्तुतिकर्मा । अस्मात्कर्मणि ल्युट् । सुपां सुलुगिति विभक्तेराकारः । व्यत्ययेन लित्स्वराभावः ॥ ६ ॥

1.121.7 समानपद
स्वि॒ध्मा यद्व॒नधि᳚तिरप॒स्यात्सूरो᳚ अध्व॒रे परि॒ रोध᳚ना॒ गोः ।
यद्ध᳚ प्र॒भासि॒ कृत्व्या{4}॒ अनु॒ द्यूनन᳚र्विशे प॒श्विषे᳚ तु॒राय᳚ ॥
▶ पदपाठः (Word-by-word)
सु॒॑इ॒ध्मा । यत् । व॒न॑धि᳚तिः । अ॒प॒स्यात् । सूरः᳚ । अ॒ध्व॒रे । परि᳚ । रोध᳚ना । गोः ।
यत् । ह॒ । प्र॒॑भासि᳚ । कृत्व्या᳚न् । अनु᳚ । द्यून् । अन᳚र्विशे । प॒शु॒॑इषे᳚ । तु॒राय᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदि स्विध्मा सुदीप्तास्या वनधितिर्वने छेत्तव्ये वृक्षसमूहे निधातव्या शस्त्र्युपस्यात् । अपो विशसनात्मकं स्वकीयं कर्म कर्तुमिच्छेत् तदानीं सूरः प्रेरकोऽध्वर्युरध्वरे यज्ञे गोः पशो रोधना रोधनाय यूपे नियोजनाय परि भवति । समर्थो भवति । यद्वा । स्विध्मा सूर्यकिरणैः सुदीप्ता वनधितिः । वनमुदकमस्यां धीयत इति वनधितिर्मेघमाला । सा यद्यदापस्यात् अपः प्रवर्षणलक्षणं कर्म करोति तदानीं सूरः प्रेरक इंद्रोऽध्वरे यज्ञस्य निमित्तभूतेऽध्वर्तव्येऽहिंसितव्येऽतरिक्षे वर्तमानः सन् गोर्वृष्ट्युदकस्य रोधना रोधनान्यावरणानि परि परितो निवारयतीति शेषः । उत्तरार्धः प्रत्यक्षकृतः । हे इंद्र सूर्यात्मना वर्तमानस्त्वं कृत्व्यान् । कृत्वीति कर्मनाम । कर्मसु साधून् द्यून् दिवसाननुलक्ष्य यद्ध यदा खलु प्रभासि प्रकर्षेण दीप्यसे तदानीमनर्विशेऽनसा शकटेनेंधनाद्याहरणायारण्यं प्रविशते । यद्वा । गंतव्यं स्थलं प्रति गंतुमशक्ताय । पुरुषाय पश्विषे पशून्प्रेरयते तुराय त्वरमाणाय गोपालाय च सिध्येदभिमतमिति वाक्यशेषः ॥ स्विध्मा । शोभनमिध्मं दीप्तमास्यं दीप्तिर्वा यस्याः सा तथोक्ता । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अपस्यात् । अपःशब्दात्सुप आत्मनः क्यच् । लेट्याडागमः । रोधना । रुधिर् आवरणे । ल्युट्चेति भावे ल्युट् । शेश्छंदसि बहुलमिति शेर्लोपः । अनर्विशे । अनसा विशति प्राप्नोतीन्यनर्विट् । विशतेः क्विप् । अहरादीनां पत्यादिषूपसंख्यानम् । म ८-२-७०-१ । इति सकारस्य रेफादेशः । यद्वा । अर्तेः कर्मणि विच् । अरं गंतव्यं प्रति विशति प्राप्नोतीत्यर्विट् । न अर्विट् अनर्विट् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अत एव व्युत्पत्त्यनवधारणादनवग्रहः । पश्विषे । इष गतौ । अस्मादंठर्भावितण्यर्थात् क्विप्चेति क्विप् ॥ ७ ॥

1.121.8
अ॒ष्टा म॒हो दि॒व आदो॒ हरी᳚ इ॒ह द्यु᳚म्ना॒साह᳚म॒भि यो᳚धा॒न उत्स᳚म् ।
हरिं॒ यत्ते᳚ म॒न्दिनं᳚ दु॒क्षन्वृ॒धे गोर᳚भस॒मद्रि᳚भिर्वा॒ताप्य᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ष्टा । म॒हः । दि॒वः । आदः᳚ । हरी॒ इति᳚ । इ॒ह । द्यु॒म्न॒॑सह᳚म् । अ॒भि । यो॒धा॒नः । उत्स᳚म् ।
हरि᳚म् । यत् । ते॒ । म॒न्दिन᳚म् । धु॒क्षन् । वृ॒धे । गो॑र᳚भसम् । अद्रि᳚॑भिः । वा॒ताप्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र महो महतो दिवो मदकरस्य सोमस्याष्टा भोक्तारौ पातारौ हरी स्वकीयावश्चाविहास्मिन्कर्मण्यादः । पीतशेषं सोमं पायय । तथा द्युम्नासाहं द्युम्न स्यास्मदीयस्य धनस्याभिभवितारमुत्समुत्स्रा वयितारं शत्रुं योधानो योधनशीलस्त्वमभि भव । यद्यदा ते तव वृधे वर्धनाय हरिं मनोहरं मंदिनं मदकर गोरभसम् । अत्र गोशब्दः पयसि वर्तते पयो बलम् । तद्वद्वेगवंतम् । वीर्यवंतमित्यर्थः । वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिका त्वया पातव्यमित्यर्थः । एवंविधं सोममद्रिभिर्ग्रावभिर्धुक्षन् दुहंति ऋत्विजोऽभिषुण्वंति । तदानीमष्टेति पूर्वत्र संबंधः ॥ अष्टा । अश भोजने तृच् । आगमानुशासनस्यानित्यत्वादिडभावः । धुक्षन् । पदकालीनो भष्भावश्छांदसः ॥ ८ ॥

1.121.9
त्वमा᳚य॒सं प्रति᳚ वर्तयो॒ गोर्दि॒वो अश्मा᳚न॒मुप᳚नीत॒मृभ्वा᳚ ।
कुत्सा᳚य॒ यत्र᳚ पुरुहूत व॒न्वञ्छुष्ण᳚मन॒न्तैः प᳚रि॒यासि᳚ व॒धैः ॥
▶ पदपाठः (Word-by-word)
त्वम् । आ॒य॒सम् । प्रति᳚ । व॒र्त॒यः॒ । गोः । दि॒वः । अश्मा᳚नम् । उप᳚॑नीतम् । ऋभ्वा᳚ ।
कुत्सा᳚य । यत्र᳚ । पु॒रु॒॑हू॒त॒ । व॒न्वन् । शुष्ण᳚म् । अ॒न॒न्तैः । प॒रि॒॑यासि᳚ । व॒धैः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं गोर्गंतुः शुष्णस्यासुरस्य वधार्थमायसमयोमयं वज्रं प्रति वर्तयः । अभिमुख्येन व्यसृजः । कीदृशं वज्रम् । दिवो द्युलोकादृभ्वा दीप्तेन त्वष्ट्रोपनीतमानीतं अश्मानं शीघ्रं शत्रोर्व्यापकम् । यत्र यदा हे पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेंद्र कुत्सयैतत्संज्ञायर्षये शुष्णं शोषकमसुरमनंतैर्निरवधिकैर्वधैर्हननसाधनैरायुधैर्वन्वन् हिंसन् परियासि परितो गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तय इत्यर्थः ॥ अश्मानं अशू व्याप्तौ अन्येभ्योऽपि दृश्यंत इति मनिन् । ऋभ्वा । जसादिषु छंदसि वावचनमिति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । वनु याचने । अत्र हिंसार्थः । तथा च यास्कः । वनुष्यतिर्हंतिकर्मानवगतसंस्कारो भवति (नि ५-२) इति । वधैः । हनश्च वध इति हंतेः करणेऽप् । तत्संनियोगेन वधादेशश्च । सचादंतोऽंतोदात्तः । तस्यातो लोपे सत्युदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वं ॥ ९ ॥

1.121.10
पु॒रा यत्सूर॒स्तम᳚सो॒ अपी᳚ते॒स्तम᳚द्रिवः फलि॒गं हे॒तिम᳚स्य ।
शुष्ण᳚स्य चि॒त्परि᳚हितं॒ यदोजो᳚ दि॒वस्परि॒ सुग्र᳚थितं॒ तदादः᳚ ॥
▶ पदपाठः (Word-by-word)
पु॒रा । यत् । सूरः᳚ । तम᳚सः । अपि᳚॑इतेः । तम् । अ॒द्रि॒॑वः॒ । फ॒लि॒॑गम् । हे॒तिम् । अ॒स्य॒ ।
शुष्ण᳚स्य । चि॒त् । परि᳚॑हितम् । यत् । ओजः᳚ । दि॒वः । परि᳚ । सु॑ग्र᳚थितम् । तत् । आ । अ॒द॒रित्य᳚दः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरा यद्यदा सूरः सूर्यस्तमसस्तमोरूपस्य शुष्णस्यासुरस्यापीतेः संग्रामान्मुक्तोऽभवदिति शेषः । तदानीं हे अद्रिवः । आदृणात्यनेनेत्यद्रिर्वज्रः । तद्वन्निंद्र तं फलिगम् । मेघनामैतत् । मेघरूपेणावृण्वंतं हेतिं हंतारं शुष्णमसुरमस्य । निरसितवानसि । यद्वा । अस्य शुष्णस्यासुरस्य हेतिं हननसाधनमायुधं फलिगं मेघलक्षणं प्राभांक्षीरिति शेषः । तथा शुष्णस्य चित् शोषयितुरसुरस्य च यदोज आच्छादकं बलं दिवस्परि द्योतमानस्य सूर्यस्योपरि परिहितमाच्छादितं सुग्रथितं सुष्ठु सूर्ये सक्तं तदोजस्तस्मात्सूर्यादादः । आदृणाः । विश्लिष्टं कृतवानसीत्यर्थः ॥ अद्रिवः । छंदसीर इति मतुपो वत्वम् । मतुवसोरुरिति नकारस्य रुत्वम् । हेतिम् । कृत्यल्युटो बहुलमिति बहुलवचनाद्धंतेः कर्तरि क्तिन् । ऊतियूतीत्यादौ निपातनाद्रूपसिद्धिरंतोदात्तत्वं च । अस्य । असु क्षेपणे । लटः सिप् । तस्य व्यत्ययेन ह्यादेशः । अतो हेरिति हेर्लुक् । दिवस्परि । पंचम्या परावध्यर्थ इति विसर्जनीयस्य सत्वम् । अदः । दॄ विदारणे । लङि सिपि बहुलं छंदसीति विकरणस्य लुक् । गुणे हल्ङ्याभ्य इति सिलोपः ॥ १० ॥

1.121.11
अनु᳚ त्वा म॒ही पाज᳚सी अच॒क्रे द्यावा॒क्षामा᳚ मदतामिन्द्र॒ कर्म᳚न् ।
त्वं वृ॒त्रमा॒शया᳚नं सि॒रासु᳚ म॒हो वज्रे᳚ण सिष्वपो व॒राहु᳚म् ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । त्वा॒ । म॒ही इति᳚ । पाज᳚सी॒ इति᳚ । अ॒च॒क्रे इति᳚ । द्यावा॒क्षामा᳚ । म॒द॒ता॒म् । इ॒न्द्र॒ । कर्म᳚न् ।
त्वम् । वृ॒त्रम् । आ॒॑शया᳚नम् । सि॒रासु᳚ । म॒हः । वज्रे᳚ण । सि॒स्व॒पः॒ । व॒राहु᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र मही मह्यौ महत्यौ पाजसी बलवत्यावच्रे अचंक्रमाणे सर्वत्रव्याप्य वर्तमाने द्यावाक्षामा द्यावापृथिव्यौ कर्मन् वृत्रवधादिलक्षणे कर्मणि प्रवृत्तं त्वामनुमदताम् । हृष्टमकुरुताम् । अन्वमन्येतां वा । तथा च तैत्तिरीयकम् । स इभ्यामेव प्रसूत इंद्रो वृत्रमहन्निति । तदनंतरं त्वमाशयानमा समंताद्व्याप्य वर्तमानं वराहुं वराहारं वृत्रमसुरं सिरासु सरणशीलास्वप्सु महो महता वज्रेण सिष्वपः । अस्वापयः । वज्रेण हत्वा पातितवानित्यर्थः ॥ मही सुपां सुलुगिति विभक्तेः पूर्वसवर्णदीर्घः । पाजसी । पाजःशब्दो बलवाचको लक्षणयात्र तद्वति वर्तते । इयाडियाजीकाराणामुपसंख्यानमिति विभक्तेरीकारा देशः । द्यावाक्षामा । द्यौश्च क्षामा च । दिवो द्यावेति द्यावादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति विभक्तेर्लुक् । मदताम् । मदी हर्षे । व्यत्ययेन शप् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । महः महतः । करणे शेषत्वेन विवक्षिते षष्ठी । अच्छब्दलोपश्छांदसः । सिष्वपः । ञॆष्वप् शये । अस्माण्ण्यंताल्लुङि चङि संज्ञापूर्वकस्य विधेरनित्यत्वात् स्वापेश्चङु (पा ६-१-१८) इति संप्रसारणं न क्रियते ॥ ११ ॥

1.121.12 समानपद
त्वमि᳚न्द्र॒ नर्यो॒ या{4} अवो॒ नॄन्तिष्ठा॒ वात᳚स्य सु॒युजो॒ वहि᳚ष्ठान् ।
यं ते᳚ का॒व्य उ॒शना᳚ म॒न्दिनं॒ दाद्वृ᳚त्र॒हणं॒ पार्यं᳚ ततक्ष॒ वज्र᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । नर्यः᳚ । यान् । अवः᳚ । नॄन् । तिष्ठ᳚ । वात᳚स्य । सु॒॑युतः᳚ । वहि᳚ष्ठान् ।
यम् । ते॒ । का॒व्यः । उ॒शना᳚ । म॒न्दिन᳚म् । दात् । वृ॒त्र॒॑हन᳚म् । पार्य᳚म् । त॒त॒क्ष॒ । वज्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र नर्यो नृभ्यो हितस्त्वं यान्न ॄन्नेतॄनश्वानवः अवसि रक्षिसि तान्वातस्य तुल्यान् तद्वच्छीघ्रं गच्छतः सुयुजः शोभनं रथेन युज्यमानान्वहिष्ठा नतिशयेन वोढॄनश्वान्तिष्ठ । अतिष्ठ । आरोहेत्यर्थः । काव्यः कवेः पुत्र उशना मंदिनं मदकरं यं वज्रं ते तुभ्यं दात् दत्तवान् तं वज्रं वृत्रहणं वृत्रस्यासुरस्य घातकं पार्यं शत्रूणां पारणेऽतिक्रमणे समर्थं च ततक्ष । कृतवानसि ॥ अवः । अवतेर्लेट्यडागमः । इतश्च लोप इतीकारलोप । वहिष्ठान् । वोढॄशब्दात्तुश्छंदसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृलोपः । पार्यम् । पार तीर कर्मसमाप्तौ अस्माण्ण्यंतादचो यदिति यत् । ततक्ष । तक्षू त्वक्षू तनूकरणे । पुरुषव्यत्ययः ॥ १२ ॥

1.121.13
त्वं सूरो᳚ ह॒रितो᳚ रामयो॒ नॄन्भर᳚च्च॒क्रमेत᳚शो॒ नायमि᳚न्द्र ।
प्रास्य᳚ पा॒रं न᳚व॒तिं ना॒व्या᳚ना॒मपि᳚ क॒र्तम᳚वर्त॒यो॑य᳚ज्यून् ॥
▶ पदपाठः (Word-by-word)
त्वम् । सूरः᳚ । ह॒रितः᳚ । र॒म॒यः॒ । नॄन् । भर᳚त् । च॒क्रम् । एत᳚शः । न । अ॒यम् । इ॒न्द्र॒ ।
प्र॒॑अस्य᳚ । पा॒रम् । न॒व॒तिम् । ना॒व्या᳚नाम् । अपि᳚ । क॒र्तम् । अ॒व॒र्त॒यः॒ । अय᳚ज्यून् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र सूरः सूर्यात्मना वर्तमानस्त्वं हरितो हरिद्वर्णान्नॄन्नेतॄनश्वान् यद्वा रसहरणशीलान् रश्मीन् रमयः । उपारमयः । एतशो न । एतश इति सूर्याश्वस्याख्या । तथा च श्रूयते । एतशेनत्वा सूर्यो देवतां गमयत्विति । नशब्दश्चार्थे । एतशश्च रथस्य चक्रं भरत् । प्रावहत् । अपि च त्वं नाव्यानां नावा तार्याणां नदीनां नवतिं नवतिसंख्यामतीत्य वर्तमानं पारं तीरदेशम् । सप्तम्यर्थे द्वितीया । तीरदेशेऽयज्यूनयजमानान् यज्ञविहीनानसुरादीन् प्रास्य प्रक्षिप्य तत्र कर्तमवर्तयः । कर्तव्यमपि कृत्वा तानयजमानानवर्तयः । प्रापयः ॥ रमयः । लङि बहुळं छंदस्यमाङ्योगेऽपीत्यडभावः । अन्येषामपि दृश्यत इति सांहितिको दीर्घः । प्रास्य । असु क्षेपणे । अस्माल्ल्यपि रूपम् । नाव्यानाम् । नौवयोधर्मेत्यादिना यत् । तित्स्वरित इति स्वरितत्वं ॥ १३ ॥

1.121.14 समानपद
त्वं नो᳚ अ॒स्या इ᳚न्द्र दु॒र्हणा᳚याः पा॒हि व᳚ज्रिवो दुरि॒ताद॒भीके᳚ ।
प्र नो॒ वाजा᳚न्र॒थ्यो॒३॒᳚ अश्व᳚बुध्यानि॒षे य᳚न्धि॒ श्रव᳚से सू॒नृता᳚यै ॥
▶ पदपाठः (Word-by-word)
त्वम् । नः॒ । अ॒स्याः । इ॒न्द्र॒ । दुः॒॑हना᳚याः । पा॒हि । व॒ज्रि॒॑वः॒ । दुः॒॑इ॒तात् । अ॒भीके᳚ ।
प्र । नः॒ । वाजा᳚न् । र॒थ्यः᳚ । अश्व᳚॑बुध्यान् । इ॒षे । य॒न्धि॒ । श्रव᳚से । सू॒नृता᳚यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वज्रिवो वज्रवन्निंद्र त्वं दुर्हणाया दुःखेन हंतव्याया अस्या अवृत्तेर्दारिद्र्यान्नोऽस्मान्पाहि । रक्ष । तथा दुरितात्पापादभीकेऽभिप्राप्ते समीपवर्तिनि संग्रामेऽस्मान्रक्ष । अपि च नोऽस्मभ्यं रथ्यो रथयुक्तान् अश्वबुध्यानश्वानां बोधकान् । अश्वा यावद्भिर्लभ्यंते तावदित्यर्थः । यद्वा । अश्वबुध्नान् । छांदसो वर्णविकारः । अश्वमूलान् । अश्वप्रमुखानित्यर्थः । सर्वं हि धनमश्वमूलं दासापवर्गम् । यथोक्तम् । दासप्रवर्गं रयिमश्वबुध्यम् । ऋग्वे १-९२-८ । इति । एवंविधान्वाजान् धनानि प्र यंधि । प्रयच्छ । किमर्थम् । इष अन्नार्थं श्रवसे कीत्यर्थं सूनृतायै । सूनृता प्रियसत्यात्मिका वाक् । तदर्थं च ॥ दुर्हणायाः ईषद्दुःसुष्विति हंतेः कर्मणि खल् । पाहि । पादादित्वान्निघाताभावः । वज्रिवः । वज्रोऽस्यास्तीति वज्री हस्तः । तद्वान् वज्रिवान् । छंदसीर इति मतुपो वत्वम् । संबुद्धौ मतुवसो रुरिति नकारस्य रुत्वम् । रथ्यः । छंदसीवनिपाविति रथशब्दान्मत्वर्थीय ईकारः । यंधि । यम उपरमे । बहुलं छंदसीति विकरणस्य लुक् । वा छंदसीति हेः पित्त्वेन ङित्त्वाभावादङितश्च (पा ६-४-१०३) इति हेर्धिः ॥ १४ ॥

1.121.15
मा सा ते᳚ अ॒स्मत्सु᳚म॒तिर्वि द᳚स॒द्वाज᳚प्रमह॒ः समिषो᳚ वरन्त ।
आ नो᳚ भज मघव॒न्गोष्व॒र्यो मंहि᳚ष्ठास्ते सध॒मादः᳚ स्याम ॥
▶ पदपाठः (Word-by-word)
मा । सा । ते॒ । अ॒स्मत् । सु॒॑म॒तिः । वि । द॒स॒त् । वाज᳚॑प्रमहः । सम् । इषः᳚ । व॒र॒न्त॒ ।
आ । नः॒ । भ॒ज॒ । म॒घ॒॑व॒न् । गोषु᳚ । अ॒र्यः । मंहि᳚ष्ठाः । ते॒ । स॒ध॒॑मादः᳚ । स्या॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वाजप्रमहो वाजैर्धनैः प्रमहनीयेंद्र ते त्वदीया सा सुमतिः शोभनानुग्रहरूपा बुद्धिरस्मदस्मासु मा वि दसत् । मा विशुष्यतु । तथेषोऽन्नान्यस्मान् सं वरंतम् । संवृतान्कुर्वंतु । हे मघवन् धनवन्निंद्र अर्यो धनपतिस्त्वं नोऽस्मान् गोष्वा भज । प्रापय । ते तव मंहिष्ठा अतिशयेन स्तुतिभिः प्रवर्धयितारो वयं सधमादः स्याम । पुत्रपौत्रादिभिः सह माद्यंतो भवेम ॥ अस्मत् । सुपां सुलुगिति सप्तम्या लुक् । दसत् । दसु उपक्षये । माङि लुङि पुषादित्वादङ् । वाजप्रमहः । वाजैर्धनैः प्रकृष्टं महस्तेजो यस्य स तथोक्तः । पादादित्वादाष्टमिकनिघाताभावः । षाष्ठिकमामंत्रिद्युदात्तत्वम् । वरंत । वृञ् वरणे । व्यत्ययेन शप् । गोषु सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्णेति प्रतिषेधः । अर्यः । अर्यः स्वामिवैश्वयोरिति निपात्यते । अर्यः स्वाम्याख्या चेत् (फि १-१८) इत्यंतोदात्तत्वम् । मंहिष्ठाः । महि वृद्धौ । इदित्वान्नुम् । अर्सादंतर्भावितण्यर्थात्तृच् । शुश्छंदसीतीष्ठन् । तुरिष्ठेमेयः स्विति तृलोपः । सधमादः । मद तृप्तियोगे । चौरादिकः । सह मादयंते तृप्ता भवंतीति सधमादः । क्विप्चेति क्विप् । जस् । सधमादस्थयोश्छंदसीति सहस्य सधादेशः ॥ १५ ॥