श्रवणम्

1.121.4
अ॒स्य मदे᳚ स्व॒र्यं᳚ दा ऋ॒तायापी᳚वृतमु॒स्रिया᳚णा॒मनी᳚कम् ।
यद्ध᳚ प्र॒सर्गे᳚ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु᳚षस्य॒ दुरो᳚ वः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । मदे᳚ । स्व॒र्य᳚म् । दाः॒ । ऋ॒ताय᳚ । अपि᳚॑वृतम् । उ॒स्रिया᳚णाम् । अनी᳚कम् ।
यत् । ह॒ । प्र॒॑सर्गे᳚ । त्रि॒॑क॒कुप् । नि॒॑वर्त᳚त् । अप᳚ । द्रुहः᳚ । मानु᳚षस्य । दुरः᳚ । व॒रिति᳚ वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र अस्य सोमस्य पानेन मदे हर्षे सत्यृताय । यज्ञार्थं स्वर्यं स्तुत्यमपीवृतं पणिभिर्गुहासु निगूढमुस्रियाणां गवामनीकं संघं दाः । अंगिरोभ्यो दत्तवानसि । उत्तरार्धः परोक्षकृतः । यद्ध यदा खलु प्रसग्रे युद्धे त्रिककुप् त्रिषु लोकेषूच्छ्रित इंद्रो निवर्तत् नितरां वर्तेत तदानीं स इंद्रो द्रूहो द्रोग्धुर्मानुषस्य मनोः संबंधिनोऽसुरस्य पणेः संबंधीनि दुरो द्वाराणि गवामनिर्गगमनाय पिहितान्यप वः । अपवृणोति । उद्घाटयति ॥ सूर्यं स्वृ शब्दोपतापयोः । ऋहलोर्ण्यत् । संज्ञापूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावः । अपीवृतम् । अपिपूर्वाद्वृणोतेः कर्मणि निष्ठा । निपातस्य चेति पूर्वपदस्य दीर्घः । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । प्रसर्गे । प्रकर्षेण सृज्यंते विमुच्यंतेऽस्मिन्निषव इति प्रसर्गः । अधिकरणे घञ् । कृदुत्तरपदप्रकृतिस्वरत्वम् । छांदसस्थाथादिस्वराभावः । निवर्तत् । वृतु वर्तने । लेट्यडागमः । व्यत्ययेन परस्मैपदम् । वः वृञ् वरणे । छांदसे लुङि मंत्रे घसेति च्लेर्लुक् । गुणे हल्ङ्यादिलोपः ॥ ४ ॥