श्रवणम्

1.121.12 समानपद
त्वमि᳚न्द्र॒ नर्यो॒ या{4} अवो॒ नॄन्तिष्ठा॒ वात᳚स्य सु॒युजो॒ वहि᳚ष्ठान् ।
यं ते᳚ का॒व्य उ॒शना᳚ म॒न्दिनं॒ दाद्वृ᳚त्र॒हणं॒ पार्यं᳚ ततक्ष॒ वज्र᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वम् । इ॒न्द्र॒ । नर्यः᳚ । यान् । अवः᳚ । नॄन् । तिष्ठ᳚ । वात᳚स्य । सु॒॑युतः᳚ । वहि᳚ष्ठान् ।
यम् । ते॒ । का॒व्यः । उ॒शना᳚ । म॒न्दिन᳚म् । दात् । वृ॒त्र॒॑हन᳚म् । पार्य᳚म् । त॒त॒क्ष॒ । वज्र᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र नर्यो नृभ्यो हितस्त्वं यान्न ॄन्नेतॄनश्वानवः अवसि रक्षिसि तान्वातस्य तुल्यान् तद्वच्छीघ्रं गच्छतः सुयुजः शोभनं रथेन युज्यमानान्वहिष्ठा नतिशयेन वोढॄनश्वान्तिष्ठ । अतिष्ठ । आरोहेत्यर्थः । काव्यः कवेः पुत्र उशना मंदिनं मदकरं यं वज्रं ते तुभ्यं दात् दत्तवान् तं वज्रं वृत्रहणं वृत्रस्यासुरस्य घातकं पार्यं शत्रूणां पारणेऽतिक्रमणे समर्थं च ततक्ष । कृतवानसि ॥ अवः । अवतेर्लेट्यडागमः । इतश्च लोप इतीकारलोप । वहिष्ठान् । वोढॄशब्दात्तुश्छंदसीतीष्ठन् । तुरिष्ठेमेयःस्विति तृलोपः । पार्यम् । पार तीर कर्मसमाप्तौ अस्माण्ण्यंतादचो यदिति यत् । ततक्ष । तक्षू त्वक्षू तनूकरणे । पुरुषव्यत्ययः ॥ १२ ॥