श्रवणम्

1.121.8
अ॒ष्टा म॒हो दि॒व आदो॒ हरी᳚ इ॒ह द्यु᳚म्ना॒साह᳚म॒भि यो᳚धा॒न उत्स᳚म् ।
हरिं॒ यत्ते᳚ म॒न्दिनं᳚ दु॒क्षन्वृ॒धे गोर᳚भस॒मद्रि᳚भिर्वा॒ताप्य᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒ष्टा । म॒हः । दि॒वः । आदः᳚ । हरी॒ इति᳚ । इ॒ह । द्यु॒म्न॒॑सह᳚म् । अ॒भि । यो॒धा॒नः । उत्स᳚म् ।
हरि᳚म् । यत् । ते॒ । म॒न्दिन᳚म् । धु॒क्षन् । वृ॒धे । गो॑र᳚भसम् । अद्रि᳚॑भिः । वा॒ताप्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र महो महतो दिवो मदकरस्य सोमस्याष्टा भोक्तारौ पातारौ हरी स्वकीयावश्चाविहास्मिन्कर्मण्यादः । पीतशेषं सोमं पायय । तथा द्युम्नासाहं द्युम्न स्यास्मदीयस्य धनस्याभिभवितारमुत्समुत्स्रा वयितारं शत्रुं योधानो योधनशीलस्त्वमभि भव । यद्यदा ते तव वृधे वर्धनाय हरिं मनोहरं मंदिनं मदकर गोरभसम् । अत्र गोशब्दः पयसि वर्तते पयो बलम् । तद्वद्वेगवंतम् । वीर्यवंतमित्यर्थः । वाताप्यं वातेन प्राप्तव्यम् । वाततुल्येन शीघ्रकारिका त्वया पातव्यमित्यर्थः । एवंविधं सोममद्रिभिर्ग्रावभिर्धुक्षन् दुहंति ऋत्विजोऽभिषुण्वंति । तदानीमष्टेति पूर्वत्र संबंधः ॥ अष्टा । अश भोजने तृच् । आगमानुशासनस्यानित्यत्वादिडभावः । धुक्षन् । पदकालीनो भष्भावश्छांदसः ॥ ८ ॥