कुत्सा᳚य॒ यत्र᳚ पुरुहूत व॒न्वञ्छुष्ण᳚मन॒न्तैः प᳚रि॒यासि᳚ व॒धैः ॥
पदपाठः (Word-by-word)
कुत्सा᳚य । यत्र᳚ । पु॒रु॒॑हू॒त॒ । व॒न्वन् । शुष्ण᳚म् । अ॒न॒न्तैः । प॒रि॒॑यासि᳚ । व॒धैः ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र त्वं गोर्गंतुः शुष्णस्यासुरस्य वधार्थमायसमयोमयं वज्रं प्रति वर्तयः । अभिमुख्येन व्यसृजः । कीदृशं वज्रम् । दिवो द्युलोकादृभ्वा दीप्तेन त्वष्ट्रोपनीतमानीतं अश्मानं शीघ्रं शत्रोर्व्यापकम् । यत्र यदा हे पुरुहूत पुरुभिर्बहुभिः स्तोतृभिराहूतेंद्र कुत्सयैतत्संज्ञायर्षये शुष्णं शोषकमसुरमनंतैर्निरवधिकैर्वधैर्हननसाधनैरायुधैर्वन्वन् हिंसन् परियासि परितो गच्छसि । तदानीं तद्वधार्थं वज्रं प्रत्यवर्तय इत्यर्थः ॥ अश्मानं अशू व्याप्तौ अन्येभ्योऽपि दृश्यंत इति मनिन् । ऋभ्वा । जसादिषु छंदसि वावचनमिति नाभावस्य विकल्पितत्वादभावे यणादेशः । वन्वन् । वनु याचने । अत्र हिंसार्थः । तथा च यास्कः । वनुष्यतिर्हंतिकर्मानवगतसंस्कारो भवति (नि ५-२) इति । वधैः । हनश्च वध इति हंतेः करणेऽप् । तत्संनियोगेन वधादेशश्च । सचादंतोऽंतोदात्तः । तस्यातो लोपे सत्युदात्तनिवृत्तिस्वरेण प्रत्ययस्योदात्तत्वं ॥ ९ ॥