तक्ष॒द्वज्रं॒ नियु᳚तं त॒स्तम्भ॒द्द्यां चतु᳚ष्पदे॒ नर्या᳚य द्वि॒पादे᳚ ॥
पदपाठः (Word-by-word)
तक्ष᳚त् । वज्र᳚म् । नि॑यु᳚तम् । त॒स्तम्भ᳚त् । द्याम् । चतुः᳚॑पदे । नर्या᳚य । द्वि॒॑पादे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अरुणीररुणवर्णा आरोचमाना वोषसो राट् राजयन्प्रकाशयन्सूर्यात्मेंद्रः पूर्व्यं पूर्वैर्ऋषिभिः प्रयुक्तं हवमिदानीमस्माभिः क्रियमाणमाह्वनं नक्षत् । नक्षतु । शृणोतु । कीदृशः । अनु द्यून् अनुदिवसं विशां मनुष्याणामंगिरसामृषीणां स्तोतॄणां तुरो धनस्य प्रेरयिता । अपि च स इंद्रो वज्रं स्वकीयमायुधं नियुतं हंतव्येन सह नितरां युक्तं तक्षत् । अकरोत् । तथा द्यां द्युलोकं तस्तंभत् । अस्तंभयत् । यथाधो न पतति तथाकरोदित्यर्थः किमर्थम् । नर्याय नृभ्यो हीताय चतुष्पदे गवाश्वादये द्विपादे मनुष्याय च । एतदुभयार्थमित्यर्थः ॥ नक्षत् । नक्ष गतौ । लेट्यडागमः । पूर्व्यम् । पूर्वैः कृतमिनयौ च (पा ४-४-१३३) इति यप्रत्ययः । राट् । राजृ दीप्तौ । अस्मादंतर्भावितण्यर्थात् क्विप् । तुरः । तुर त्वरणे । इगुपधलक्षणः कः । तक्षत् । तक्षू त्वक्षू तनूकरणे । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । तस्तंभत् । ष्टभि स्कभि गतिप्रतिबंधे । अस्माण्ण्यंताल्लुङि चङिरूपम् । चङ्यन्यरतस्या मित्युपोत्तमस्योदात्तत्वम् । पूर्वपदस्यासमानवाक्यस्थत्वान्निघाताभावः । चतुष्पदे । चत्वारः पादा अस्य । संख्या सुपूर्वस्येति पादशब्दस्यांत्यलोपः समासांतः । चतुर्थ्येकवचने भसंज्ञायां पादः । पदिति पद्भावः । द्विपादे । पूर्ववत्प्रक्रिया । अयं तु विशेषः । अयस्मयादि त्वेन पदत्वाद्भसंज्ञाया अभावे पद्भावाभावः । द्वित्रिभ्यां पाद्दन्मूर्धसु । बहुव्रीहावित्युत्तरपदांतोदात्तत्वं ॥ ३ ॥