स नो᳚ वेधो म॒रुतां᳚ चिकि॒त्वान्त्सु॒म्ना व᳚नुष्व॒ तव॒ हि प्रेष्ठा᳚ ॥
पदपाठः (Word-by-word)
सः । नः॒ । वे॒धः॒ । म॒रुता᳚म् । चि॒कि॒त्वान् । सु॒म्ना । व॒नु॒ष्व॒ । तव᳚ । हि । प्रेष्ठा᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र त्वं यतःकारणात् एतान्मरुतोमहश्चित् महतोपिसामर्थ्यातिशयवत्त्वात् त्वन्निरपेक्षोपिस्ने- हान्नत्यजसीतिशेषः अतःकारणात् महश्चिदसि चिदितिपादपूरणः यद्वा महतोपित्यजसः त्यागात् यद्वैतत् क्रोधनाम क्रोधाद्वा वरूतावरितारक्षितासिभवसि यद्वा मरुतोपित्यागात् वृष्ट्यादिविष- यात् वारयितासि यस्मादेवंतस्मात् हेमरुतांवेधः विधातः सतादृशस्त्वंचि कित्वान् चेतनावान् अस्मदनुग्रहविषयज्ञानोपेतःसन् नोस्मभ्यं सुम्ना सुखानि मरुदायत्तानिवृष्ट्यादिरूपाणिवनुष्व देहि तानिसुम्नानितवहिप्रेष्ठा तवखलुप्रियतमानि हिशब्दोयमिन्द्रोमरुत्सखेत्यादिश्रुतिषुप्रसिद्भ्यर्थः ॥ १ ॥