श्रवणम्

1.169.5
त्वे राय᳚ इन्द्र तो॒शत᳚माः प्रणे॒तार॒ः कस्य᳚ चिदृता॒योः ।
ते षु णो᳚ म॒रुतो᳚ मृळयन्तु॒ ये स्मा᳚ पु॒रा गा᳚तू॒यन्ती᳚व दे॒वाः ॥
▶ पदपाठः (Word-by-word)
त्वे इति᳚ । रायः᳚ । इ॒न्द्र॒ । तो॒श॑त᳚माः । प्र॒॑ने॒तारः᳚ । कस्य᳚ । चि॒त् । ऋ॒त॒॑योः ।
ते । सु । नः॒ । म॒रुतः᳚ । मृ॒ळ॒य॒न्तु॒ । ये । स्म॒ । पु॒रा । गा॒तु॒यन्ति᳚॑इव । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वेतव रायोधनविशेषाः तोशतमाः अतिशयेनप्रीणयितारः तुष्यतेस्तोषः छान्दसं शत्वं यद्वा तेरायोरातयोबन्धवोबन्धुभूताः सखिभूताः मरुतस्तोशतमाः तोशतिर्वधकर्मा नितोशति निब- र्हयतीतितन्नामसुपाठात् तोशतमाः हिंसितृतमाः अवर्षकाणांमेघानां कस्यचिदृतायोः ऋतमिति- यज्ञनाम कस्यापियज्ञेच्छोः यजमानस्यप्रणेतारः प्रकर्षेणनिर्वोढारः तेमरुतोनोस्मान् सुसुष्ठुम्रुळयन्तु सुखयन्तु केते येस्म येखलु देवाः द्योतनशीलामरुतः पुरापूर्वंगातुयन्तीव यज्ञगमनमिच्छन्तीव ते आगत्यमृळयन्तु ॥ ५ ॥