अ॒ग्निश्चि॒द्धि ष्मा᳚त॒से शु᳚शु॒क्वानापो॒ न द्वी॒पं दध᳚ति॒ प्रयां᳚सि ॥
पदपाठः (Word-by-word)
अ॒ग्निः । चि॒त् । हि । स्म॒ । अ॒त॒से । शु॒शु॒क्वान् । आपः᳚ । न । द्वी॒पम् । दध᳚ति । प्रयां᳚सि ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र तेतव साप्रसिद्धाऋष्टिः वज्राख्यायुधविशेषोस्मेस्मद्वृष्ट्यर्थं अम्यक् प्राप्नोति मेघसमीपे एवञ्च सति मरुतोपि सनेमि अह्नायेति षट् पुराणनामानीत्युक्तत्वात् सनेमीतिपुराणनाम पुराणं- चिरकालं संगृहीतं अभ्वं उदकं जुनन्ति क्षिपन्ति वर्षन्तीत्यर्थः वृष्ट्यासस्यादिसमृद्धौ सत्यामग्नि श्चिद्धिस्महि स्मेतिपूरणे अग्निर्पि अतसे सन्ततेकर्मणि निमित्तभूतेसति शुशुक्वान् दीप्यमानो वर्तते पश्चात्प्रयांसि चरुपुरोडाशादिहवींषिदधति धारयन्ति ददतिवायजमानाः किमिव आपोनद्वीपं द्विपार्श्वस्थोदकवान् पर्वतादिः द्वीपःतं यथा आपोधारयन्तितद्वत् यद्वा आयुधमेवोच्यते वज्राख्या- युधविशेषः अतसे काष्ठसमूहे शुशुक्वान् दीपयन्नग्निश्चित् चिच्छब्दउपमार्थे दधिचिदित्युपमार्थे- इतियास्केनोपमार्थस्योक्तत्वात् काष्ठेज्वलन्नग्निरिव तद्वद्दीप्तोवर्तते एतदेवदीप्तत्वमपेक्ष्यसेइत्युक्तं एवंचसत्यापोद्वीपमिव व्रुष्त्युदकानिप्रयांसि सस्याद्यन्नानिदधतिधारयन्ति एतत्सर्वं महानुभाव- स्येन्द्रस्यऋष्टेः सामर्थ्यमितीन्द्रस्यस्तुतिः ॥ ३ ॥