अयु᳚ज्रन्त इन्द्र वि॒श्वकृ᳚ष्टीर्विदा॒नासो᳚ नि॒ष्षिधो᳚ मर्त्य॒त्रा ।
म॒रुतां᳚ पृत्सु॒तिर्हास᳚माना॒ स्व᳚र्मीळ्हस्य प्र॒धन᳚स्य सा॒तौ ॥
म॒रुतां᳚ पृत्सु॒तिर्हास᳚माना॒ स्व᳚र्मीळ्हस्य प्र॒धन᳚स्य सा॒तौ ॥
पदपाठः (Word-by-word)
अयु᳚ज्रन् । ते । इ॒न्द्र॒ । वि॒श्व॑कृ᳚ष्टीः । वि॒दा॒नासः᳚ । निः॒॑सिधः᳚ । म॒र्त्य॒॑त्रा ।
म॒रुता᳚म् । पृ॒त्सु॒तिः । हास᳚माना । स्वः᳚॑मीळ्हस्य । प्र॒॑धन᳚स्य । सा॒तौ ॥
म॒रुता᳚म् । पृ॒त्सु॒तिः । हास᳚माना । स्वः᳚॑मीळ्हस्य । प्र॒॑धन᳚स्य । सा॒तौ ॥
सायणभाष्यम् (Sayana Commentary)
पूर्वमन्त्रेमरुतामिन्द्रसाहाय्यमुक्तंअत्रेन्द्रस्यमरुत्साहाय्यमुच्यते हेइन्द्र तेमरुतोयुज्रन् युज्यन्ते त्व- यायुक्ताभवन्तीत्यर्थः कीदृशास्ते विशकृष्टीः विश्वकृष्टयः राजत्वेन सर्वजनवन्तः किञ्च मर्त्यत्रा मर्त्येषु मर्त्यार्थंनिः षिधोनिःशेशेणोदकस्यसेक्तॄन् मेघान् विदानासः जनानाः किञ्च येषांमरुतां पृत्सुतिः सेनास्वर्मीह्ळस्यप्रधनस्यसुखसेक्तुः प्रकृष्टधनवतोवृत्रादिसंग्रामस्यसातौ लाभेजये निमित्त- भूतेसति सेना हासमानाहासंकुर्वन्ती हर्षयुक्ताभवति यद्वा सुखेनमिह्यते जलंयस्मिन् तादृशस्य प्रधनस्य प्रकृष्टोदकाख्य धनसाधनस्यसंग्रामस्यसातौमेघभेदनायेतियावत् येषामीदृशीसेनास्ति ते मरुतोयुज्रन्नितिसंबन्धः ॥ २ ॥