प्रति᳚ घो॒राणा॒मेता᳚नाम॒यासां᳚ म॒रुतां᳚ शृण्व आय॒तामु᳚प॒ब्दिः ।
ये मर्त्यं᳚ पृतना॒यन्त॒मूमै᳚रृणा॒वानं॒ न प॒तय᳚न्त॒ सर्गै᳚ः ॥
ये मर्त्यं᳚ पृतना॒यन्त॒मूमै᳚रृणा॒वानं॒ न प॒तय᳚न्त॒ सर्गै᳚ः ॥
पदपाठः (Word-by-word)
प्रति᳚ । घो॒राणा᳚म् । एता᳚नाम् । अ॒यासा᳚म् । म॒रुता᳚म् । शृ॒ण्वे॒ । आ॒॑य॒ताम् । उ॒प॒ब्दिः ।
ये । मर्त्य᳚म् । पृ॒त॒ना॒॑यन्त᳚म् । ऊमैः᳚ । ऋ॒ण॒॑वान᳚म् । न । प॒तय᳚न्त । सर्गैः᳚ ॥
ये । मर्त्य᳚म् । पृ॒त॒ना॒॑यन्त᳚म् । ऊमैः᳚ । ऋ॒ण॒॑वान᳚म् । न । प॒तय᳚न्त । सर्गैः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्र तेसंबन्धिनांघोराणांभयानकानांशब्दायमानानांवा एतानांएतवर्णानां अयासांअयमाना- नांगमनशीलानांमरुतांआयतां आगन्तॄणांमरुतांउपब्दिः उपगुर्वादिसमीपेगम्यतेज्ञायते उपपद्यतइति- वाउपब्दिः वाक् प्रतिशृण्वेश्रूयते कर्मणीकर्तृप्रत्ययः तएवविशेष्यन्ते—येमरुतोमर्त्यंमरणधर्माणंऊमैः स्वरक्षणैः उदकनिर्गमनसाधनैर्वापृतनायन्तंपृतनाआत्मनइच्छन्तंवैरिणंमेघंवा सर्गैः सृष्टैः स्वकीयप्र- हारविशेषैः पतयन्ति तेषामेवध्वनिःश्रूयतइत्यर्थः पातनेदृष्टान्तः—सर्गैः ऋणावानंन छन्दसीवनिपा- वितिवनिप् ऋणवन्तंअधमर्णमिव तंयथापीडयित्वातदीयंधनमपहरन्तितद्वत् एवंमहानुभावामरुत- स्तवानुगाइतीन्द्रस्यस्तुतिः ॥ ७ ॥