प्रथमं मण्डलम् - सूक्तम् 159

5 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: द्यावापृथिव्यौ छन्दः: जगती

सूक्तम् 1.159 - सम्पूर्णम्

1 / 5
ऋक्: 1.159.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.159.1
प्र द्यावा᳚ य॒ज्ञैः पृ᳚थि॒वी ऋ᳚ता॒वृधा᳚ म॒ही स्तु᳚षे वि॒दथे᳚षु॒ प्रचे᳚तसा ।
दे॒वेभि॒र्ये दे॒वपु᳚त्रे सु॒दंस᳚से॒त्था धि॒या वार्या᳚णि प्र॒भूष᳚तः ॥
▶ पदपाठः (Word-by-word)
प्र । द्यावा᳚ । य॒ज्ञैः । पृ॒थि॒वी इति᳚ । ऋ॒त॒॑वृधा᳚ । म॒ही इति᳚ । स्तु॒षे॒ । वि॒दथे᳚षु । प्र॑चे᳚तसा ।
दे॒वेभिः᳚ । ये इति᳚ । दे॒वपु᳚त्रे॒ इति᳚ दे॒व॑पु᳚त्रे । सु॒॑दंस᳚सा । इ॒त्था । धि॒या । वार्या᳚णि । प्र॒॑भूष᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्यावापृथिवीद्यावापृथिव्यौ दिवोद्यावेतेद्यावादेशआद्युदात्तः पृथिवीशब्दोङीषन्तोंतोदात्तः देव- ताद्वंद्वेचेत्युभयपदप्रकृतिस्वरत्वं समासमध्येपदान्तरपाठश्छान्दसः अहंयजमानः यज्ञैर्यागैः तत्प्रदानै- र्निमित्तभूतैः हविः प्रदानार्थंप्रस्तुषे प्रकर्षेणस्तौमि पुरुषव्यत्ययः कीदृश्यौते ऋतावृधा यज्ञस्यवर्धयि- त्र्यौमहीमहत्यौ विदथेषुयागेषुप्रचेतसाप्रकर्षेणास्मान् चेतयित्र्यौ अस्माभिश्चेतयितव्ये वा ईदृश्यौ- स्तुषे अनयोः कोऽतिशयइतिउच्यते—येद्यावापृथिव्यौ देवेभिः यजमानैः देवपुत्रे देवायजमानाः पुत्रस्थानीयाः शुश्रूषकाययोस्तेतादृश्यौ यद्वा देवेभिर्विशिष्टे सुदंससादंसइतिकर्मनाम शोभनकर्मो- पेते इत्था सत्यं इत्थेतिसत्यनाम सत्राइत्थेतितन्नामसुपाठात् सत्यधियाअस्मदनुग्रहबुद्भ्या वार्याणि- वरणीयानिधनानिअस्मभ्यंप्रभूषतः अलंकुरुतः दत्तइत्यर्थः यद्वा वार्याणि हवींषिधियाकर्मणानिमि- त्तेन कर्मसमाप्त्यर्थंभूषतः प्रकर्षेणस्वीकुरुतः ॥ १ ॥

1.159.2
उ॒त म᳚न्ये पि॒तुर॒द्रुहो॒ मनो᳚ मा॒तुर्महि॒ स्वत᳚व॒स्तद्धवी᳚मभिः ।
सु॒रेत᳚सा पि॒तरा॒ भूम᳚ चक्रतुरु॒रु प्र॒जाया᳚ अ॒मृतं॒ वरी᳚मभिः ॥
▶ पदपाठः (Word-by-word)
उ॒त । म॒न्ये॒ । पि॒तुः । अ॒द्रुहः᳚ । मनः᳚ । मा॒तुः । महि᳚ । स्व॑त᳚वः । तत् । हवी᳚म॑भिः ।
सु॒॑रेत᳚सा । पि॒तरा᳚ । भूम᳚ । च॒क्र॒तुः॒ । उ॒रु । प्र॒॑जायाः᳚ । अ॒मृत᳚म् । वरी᳚म॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच पितुः पितृस्थानीयायाः धात्र्याअद्रुहः अद्रोग्धुः नहिकदचित्पिता स्वपुत्रादये द्रुह्यति तादृश्याः पृथिव्याः स्वतवः स्वायत्तंबलं स्वयमेवास्मदनुग्रहायत्वरमाणं अतएवमहि महत् तत्तादृशं अनुग्रहयुक्तमनश्चित्तं हवीमभिः हवमानैराह्वानैर्मन्ये जानामि प्रसादयामीत्यर्थः यद्वा तत्तादृशमुक्त- लक्षणंमनः हवीमभिः हवनैः महिमन्ये अतिमहत् प्रवृद्धं मन्ये तथा मातुः सर्वस्योत्पादयितुरन्तरिक्ष- स्यद्युलोकस्य मातान्तरिक्षंनिर्मीयन्तेऽस्मिन्भूतानीतिनिरुक्तम् । यद्वा पितुर्द्युलोकस्य मातुर्भूम्याः द्यौर्वः पितापृथिवीमातेतिश्रुतेः । तत्तादृशमुक्तलक्षणंमनोमन्ये द्यावापृथिव्योर्मनोऽस्मदाह्वानैःप्रीण- यामीत्यर्थः किंच पितरा माताचपिताचपितरौ द्यावापृथिव्यौ सुरेतसा शोभनसामर्थ्येनप्रजायाः यजमानादिरूपायाः वरीमभिः वरिष्ठैः रक्षणविशेषैः भूमबहुतरं उरुविस्तीर्णं अमृतं अमरणभूतं अंभिलषितंचक्रतुः कुरुतः ॥ २ ॥

1.159.3
ते सू॒नव॒ः स्वप᳚सः सु॒दंस᳚सो म॒ही ज᳚ज्ञुर्मा॒तरा᳚ पू॒र्वचि᳚त्तये ।
स्था॒तुश्च᳚ स॒त्यं जग᳚तश्च॒ धर्म᳚णि पु॒त्रस्य᳚ पाथः प॒दमद्व᳚याविनः ॥
▶ पदपाठः (Word-by-word)
ते । सू॒नवः᳚ । सु॒॑अप᳚सः । सु॒॑दंस᳚सः । म॒ही इति᳚ । ज॒ज्ञुः॒ । मा॒तरा᳚ । पू॒र्व॑चि᳚त्तये ।
स्था॒तुः । च॒ । स॒त्यम् । जग᳚तः । च॒ । धर्म᳚णि । पु॒त्रस्य᳚ । पा॒थः॒ । प॒दम् । अद्व᳚याविनः ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेप्रसिद्धाः सूनवः युवाभ्यामुत्पन्नाः पुत्रस्थानीयाःप्रजाः स्वपसः शोभनकर्माणः सुदंससः शॊभन- दर्शनाः युवांमहीमहत्यौ मातरा मातृवद्धितकारिण्यौजज्ञुः जानन्ति महानुभावतामवगच्छन्ति किम- र्थं पूर्वचित्तये प्रथमबुद्धये अनुग्रहरूपायै किंच तेद्यावापृथिव्यौ स्थातुः स्थावरस्य जगतोजंगमस्य पुत्रस्य पुत्रस्थानीयस्योभयविधस्यजगतः अद्वयाविनः नविद्यतेद्वयंयस्य तादृशस्यस्वजीवनाय युष्म- द्भ्यतिरिक्तअजानतइत्यर्थः ईदृशस्यधर्मणि धारणे रक्षणेनिमित्तभूते सति पदंस्थानंसत्यं अबाध्यं पाथः रक्षथः दत्थइत्यर्थः यद्वा तेप्रसिद्धाः सूनवः उत्पाद्यमानाः स्वपसः शोभनप्रकाशादिकर्माणः सु- दंससः शोभनदर्शनाः सुष्ठूपक्षयन्तोवा आत्मानं स्वव्यापाराय ईदृशारश्मयः महीमहत्यौद्यावापृथि- व्यौ पूर्वचित्तये प्राणिनां पूर्वज्ञानायजज्ञुः ज्ञातवन्तः द्यावापृथिव्योरन्तरालेव्याप्ताइत्यर्थः किंच स्था- तुर्जगतश्च धर्मणिधारणे तदर्थं अद्वयाविनः मार्गद्वयरहितस्य बहुलंछन्दसीतिद्वयशब्दान्मत्वर्थीयोचि- निः अन्येषामपिदृश्यतइतिदीर्घः पुत्रस्ययुष्मत्पुत्रस्थानीयस्यादित्यस्यपदंमार्गंसत्यंपाथः अवश्यंरक्ष- णः ॥ ३ ॥

1.159.4
ते मा॒यिनो᳚ ममिरे सु॒प्रचे᳚तसो जा॒मी सयो᳚नी मिथु॒ना समो᳚कसा ।
नव्यं᳚नव्यं॒ तन्तु॒मा त᳚न्वते दि॒वि स᳚मु॒द्रे अ॒न्तः क॒वयः᳚ सुदी॒तयः᳚ ॥
▶ पदपाठः (Word-by-word)
ते । मा॒यिनः᳚ । म॒मि॒रे॒ । सु॒॑प्रचे᳚तसः । जा॒मी इति᳚ । सयो᳚नी॒ इति॒ स॑यो᳚नी । मि॒थु॒ना । सम्॑ओ᳚कसा ।
नव्य᳚म्॑नव्यम् । तन्तु᳚म् । आ । त॒न्व॒ते॒ । दि॒वि । स॒मु॒द्रे । अ॒न्तरिति᳚ । क॒वयः᳚ । सु॒॑दी॒तयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तेअत्रप्रसिद्धेद्यावापृथिव्यौ मायिनः मायाः प्रज्ञाः स्वविषयप्रज्ञावन्तः प्रज्ञोपलक्षितकर्मवन्तोवा सुप्रचेतसः सुष्ठुप्रकर्षेणचेतितुंशक्ताः रश्मयः ममिरे मिमते प्रमाणेनपरिच्छिन्दन्ति कीदृश्यौते जामी परस्परंभगिनीएतत्कुतइतिचेत् उच्यते—सयोनी समानोत्पत्तिस्थाने मिथुनाप्राण्युत्पत्तयेमि थुनभू- तेपरस्परमवियुक्तेइत्यर्थः समोकसा समानस्थाने द्युपृथिव्योरेकस्मिन्नेवावकाशरूपेअवस्थानात् स- मीचीनस्थानेवा किंच कवयः मेधाविनः स्वव्यापारविषयज्ञानवन्तः सुदीतयः सुष्ठुद्योतनारश्मयो- दिविद्योतमानेसमुद्रेन्तरिक्षेतर्मध्ये समुद्रशब्दोंतरिक्षनामसुपाठात् तद्वचनः सचैवंयास्केननिरुक्तः— समुद्रः कस्मात्समुद्द्रवंत्यस्मादापः समभिद्रवंत्येनमापः संमोदन्तेस्मिन्भूतानिसमुदकोभवतिसमुनत्ती- तिवेति । नव्यंनव्यं तंतुंतननीयंविस्तारणीयंजात्येकवचनं रश्मीन् आतन्वते समन्ताद्विस्तारयन्ति ॥ ४ ॥

1.159.5
तद्राधो᳚ अ॒द्य स᳚वि॒तुर्वरे᳚ण्यं व॒यं दे॒वस्य᳚ प्रस॒वे म᳚नामहे ।
अ॒स्मभ्यं᳚ द्यावापृथिवी सुचे॒तुना᳚ र॒यिं ध᳚त्तं॒ वसु᳚मन्तं शत॒ग्विन᳚म् ॥
▶ पदपाठः (Word-by-word)
तत् । राधः᳚ । अ॒द्य । स॒वि॒तुः । वरे᳚ण्यम् । व॒यम् । दे॒वस्य᳚ । प्र॒॑स॒वे । म॒ना॒म॒हे॒ ।
अ॒स्मभ्य᳚म् । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । सु॒॑चे॒तुना᳚ । र॒यिम् । ध॒त्त॒म् । वसु᳚॑मन्तम् । श॒त॒॑ग्विन᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयंयजमानाः सवितुः सर्वस्यप्रसवितुः देवस्यादित्यस्यांतर्यामिरूपिणः प्रसवेअनुज्ञायांसत्यां त- त्तादृशंवरेण्यंवरणीयंराधः पुरुषार्थसाधनसमर्थं गवादिधनंमनामहे याचामहे मन्यतिर्याच्ञाकर्मा छान्दसःशप् यद्वा पुनःपुनरभ्यस्यामः लप्सीमहीतियावत् म्नाअभ्यासे व्यत्ययेनात्मनेपदं शपि पा- घ्रादिनामनादेशः किंच अस्मभ्यंद्यावापृथिवी द्यावापृथिव्यौसुचेतुना शोभनचेतनेनअस्मदनुग्रहबु- द्भ्या रयिंधनं धत्तंदत्तं कीदृशंवसुमंतंनिवासयोग्यगृहादिविशिष्टं शतग्विनं शतसंख्याकगवादिवि- शिष्टम् ॥ ५ ॥

तेहीतिपंचर्चंचतुर्थंसूक्तं दैर्घतमसंजागतंद्यावापृथिव्यं तेहीत्यनुक्रांतं चतुर्विंशेहनिवैश्वदेवशस्त्रेद्या- वापृथिव्यनिविद्धानमेतत्सूक्तं तेहिद्यावापृथिवीयज्ञस्यवोरथ्यमितिवैश्वदेवमितिसूत्रितत्वात् तथा पृष्ठ्याभिप्लवषडहयोर्द्वितीयेहनिवैश्वदेवेद्यावापृथिव्यंनिविद्धानीयं चातुर्विंशकंतृतीयसवनमित्या- भिप्लविकेद्वितीयेहन्यतिदिष्टत्वात् आभिप्लविकात् द्वितीयादह्नः पृष्ठ्यस्यद्वितीयेहनिएतत्सूक्तम- तिदेशतः प्राप्तं पृष्ठ्यस्याभिप्लवेनोक्तेअहनीआद्येआद्याभ्यामितिसूत्रितत्वात् प्रथमाआश्विनशस्त्रेवि- नियुक्ता संस्थितेष्वाश्विनायेतिसूत्रितम्—तेहिद्यावापृथिवीविश्वशंभुवाविश्वस्यदेवीमृचयस्येति ।