सु॒रेत᳚सा पि॒तरा॒ भूम᳚ चक्रतुरु॒रु प्र॒जाया᳚ अ॒मृतं॒ वरी᳚मभिः ॥
पदपाठः (Word-by-word)
सु॒॑रेत᳚सा । पि॒तरा᳚ । भूम᳚ । च॒क्र॒तुः॒ । उ॒रु । प्र॒॑जायाः᳚ । अ॒मृत᳚म् । वरी᳚म॑भिः ॥
सायणभाष्यम् (Sayana Commentary)
उतअपिच पितुः पितृस्थानीयायाः धात्र्याअद्रुहः अद्रोग्धुः नहिकदचित्पिता स्वपुत्रादये द्रुह्यति तादृश्याः पृथिव्याः स्वतवः स्वायत्तंबलं स्वयमेवास्मदनुग्रहायत्वरमाणं अतएवमहि महत् तत्तादृशं अनुग्रहयुक्तमनश्चित्तं हवीमभिः हवमानैराह्वानैर्मन्ये जानामि प्रसादयामीत्यर्थः यद्वा तत्तादृशमुक्त- लक्षणंमनः हवीमभिः हवनैः महिमन्ये अतिमहत् प्रवृद्धं मन्ये तथा मातुः सर्वस्योत्पादयितुरन्तरिक्ष- स्यद्युलोकस्य मातान्तरिक्षंनिर्मीयन्तेऽस्मिन्भूतानीतिनिरुक्तम् । यद्वा पितुर्द्युलोकस्य मातुर्भूम्याः द्यौर्वः पितापृथिवीमातेतिश्रुतेः । तत्तादृशमुक्तलक्षणंमनोमन्ये द्यावापृथिव्योर्मनोऽस्मदाह्वानैःप्रीण- यामीत्यर्थः किंच पितरा माताचपिताचपितरौ द्यावापृथिव्यौ सुरेतसा शोभनसामर्थ्येनप्रजायाः यजमानादिरूपायाः वरीमभिः वरिष्ठैः रक्षणविशेषैः भूमबहुतरं उरुविस्तीर्णं अमृतं अमरणभूतं अंभिलषितंचक्रतुः कुरुतः ॥ २ ॥