प्रथमं मण्डलम् - सूक्तम् 54

11 ऋचः

ऋषिः: सव्य आंगिरसः देवता: इंद्रः छन्दः: जगती

सूक्तम् 1.54 - सम्पूर्णम्

1 / 11
ऋक्: 1.54.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
1.54.1
मा नो᳚ अ॒स्मिन्म᳚घवन्पृ॒त्स्वंह᳚सि न॒हि ते॒ अन्त॒ः शव᳚सः परी॒णशे᳚ ।
अक्र᳚न्दयो न॒द्यो॒३॒᳚ रोरु᳚व॒द्वना᳚ क॒था न क्षो॒णीर्भि॒यसा॒ समा᳚रत ॥
▶ पदपाठः (Word-by-word)
मा । नः॒ । अ॒स्मिन् । म॒घ॒॑व॒न् । पृ॒त्॑सु । अंह᳚सि । न॒हि । ते॒ । अन्तः᳚ । शव᳚सः । प॒रि॒॑नशे᳚ ।
अक्र᳚न्दयः । न॒द्यः᳚ । रोरु᳚वत् । वना᳚ । क॒था । न । क्षो॒णीः । भि॒यसा᳚ । सम् । आ॒र॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मा न इति एकादशर्चं चर्तुर्थं सूक्तम् । षष्ठ्यष्टमीनवम्येकादश्यस्त्रिष्टुभः । शिष्वाः सप्त जगत्यः । सव्य ऋषिः । इंद्रो देवता । तथा चानुक्रांतम् । मा नोऽंत्या त्रिष्वुप् षष्ठ्यष्टमी नवमी चेति । अतिरात्रे प्रथमे पर्यायेऽच्छावाकशस्त्र इदं सूक्तम् । तथा च सूत्रितम् । मानो अस्मिन्मघवन्निंद्र पिब तुभ्यं सुतो मदायेति याज्या (आ ६-४) इति ॥

हे मघवन् धनवन्निंद्र अस्मिन् परिदृश्यमानेंऽहसि पापे पृत्सु पृतनासु पापफलभूतेषु संग्रामेषु च नोऽस्मान्मा प्रक्षैप्सीरिति शेषः । यस्मात्ते तव शवसो बलस्यांतोऽवसानं परीणशे परितो व्याप्तुं न हि शक्यते । सर्वोऽपि जनस्त्वदीयं बलमतिक्रमितुं न शक्नोतीत्यर्थः । तस्मात्त्वमंतरक्षे वर्तमानो रोरुवत् अत्यर्थं शब्दं कुर्वन् नद्योः नदीर्वना तत्संबंधीन्युदकानि चाक्रंदयः ॥ शब्दयसि । क्षोणीः क्षोण्यः । क्षोणीति पृथिवीनाम । तदुपलक्षिशास्त्रयो लोका भियसा त्वद्भयेन कथा कथं न समारत । न संगच्छंते । त्वदीयं बलमवलोक्य त्रयोऽपि लोका बिभ्यतीति भावः ॥ पृत्सु । पदादिषु मांस्पृत्स्नूनामुपसंख्यानम् । पा ३-१-६३-१ । इति पृतनाशब्दस्य पृद्भावः । परीणशे । नशतिर्व्याप्तिकर्मा । कृत्यार्थे तवृकेनिति केन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । निपातस्य चेति पूर्वपदस्य दीर्घत्वम् । नद्यः । द्वितीयार्थे प्रथमा । रोरुवत् । रु शब्दे । यङ्लुगंचाल्लटः शतृ । आदादिवच्चेति वचनाच्छपो लुक् । शतुर्ङित्त्वाद्गुणाभाव उवङादेशः । नाभ्यस्ताच्छतुरिति नुम्प्रतिषेधः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । कथा । था हेतौ च च्छंदसीति किं शब्दात्प्रकारवचने थाप्रत्ययः । तस्य विभक्तिसंज्ञायां किमः कः (पा ७-२-१०३) इति कादेशः । आरत । ऋ गतौ । समो गम्यृच्भीत्यात्मनेपदम् । छांदसे वर्तमाने लङ्यदादित्वाच्छपो लुक् । झस्यादादेशः । आडागमो वृद्धिश्च ॥ १ ॥

1.54.2 समानपद
अर्चा᳚ श॒क्राय᳚ शा॒किने॒ शची᳚वते शृ॒ण्वन्त॒मिन्द्रं᳚ म॒हय᳚न्न॒भि ष्टु᳚हि ।
यो धृ॒ष्णुना॒ शव᳚सा॒ रोद᳚सी उ॒भे वृषा᳚ वृष॒त्वा वृ᳚ष॒भो न्यृ॒ञ्जते᳚ ॥
▶ पदपाठः (Word-by-word)
अर्च᳚ । श॒क्राय᳚ । शा॒किने᳚ । शची᳚॑वते । शृ॒ण्वन्त᳚म् । इन्द्र᳚म् । म॒हय᳚न् । अ॒भि । स्तु॒हि॒ ।
यः । धृ॒ष्णुना᳚ । शव᳚सा । रोद᳚सी॒ इति᳚ । उ॒भे इति᳚ । वृषा᳚ । वृ॒ष॒॑त्वा । वृ॒ष॒भः । नि॒॑ऋ॒ञ्जते᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अध्वर्यो शाकिने शक्तियुक्ताय शचीवते प्रज्ञावते शक्रायेंद्रायार्च । एवंविधमिंद्र पूजय । किंच स्तुतीः शृण्वंतं समीचीनेयं स्तुतिरिति जानंतं तमिंद्रं महयन् पूजयन्नभिष्टुहि । अभिमुख्येन तस्य स्तोत्रं कुरु य इंद्रो धृष्णुना शत्रूणां धर्षकेण शवसा बलेनोभे रोदसी द्यावापृथिव्यौ न्यृंजते नितरां प्रसाधयति । ऋंजतिः प्रसाधनकर्मा (नि ६-२१) इति यास्कः । स इंद्रो वृषा सेचनसमर्थो वृषत्वा वृषत्वेनानेनैव सेचनसामर्थ्येन वृषभो वर्षिता कामानां यद्वा वृष्ट्युदकानां ॥ अर्च । शपः पित्त्वा दनुदात्तत्वे धातुस्वरः । द्व्यचोऽतस्तिङ इति दीर्घत्वम् । शाकिने । शक्तिः शाकः । शक्लृशक्तौ । भावे घञ् । मत्वर्थीय इनिः । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थी । अभिष्वुहि । स्तौतेरदादित्वाच्छपो लुक् । उपसर्गात्सुनोतीति षत्वम् । ष्वुना ष्वुरिति ष्टुत्वम् । वृषत्वा । सुपां सुलुगिति विभक्तेराकारः । न्यृंजते । ऋजि भृजी भर्जनॆ । इदित्त्वान्नुम् । शपि प्राप्ते व्यत्ययेन शः ॥ २ ॥

1.54.3 समानपद
अर्चा᳚ दि॒वे बृ᳚ह॒ते शू॒ष्यं१॒᳚ वच॒ः स्वक्ष᳚त्रं॒ यस्य᳚ धृष॒तो धृ॒षन्मनः᳚ ।
बृ॒हच्छ्र᳚वा॒ असु᳚रो ब॒र्हणा᳚ कृ॒तः पु॒रो हरि᳚भ्यां वृष॒भो रथो॒ हि षः ॥
▶ पदपाठः (Word-by-word)
अर्च᳚ । दि॒वे । बृ॒ह॒ते । शू॒ष्य᳚म् । वचः᳚ । स्व॑क्ष᳚त्रम् । यस्य᳚ । धृ॒ष॒तः । धृ॒षत् । मनः᳚ ।
बृ॒हत्॑श्र᳚वाः । असु᳚रः । ब॒र्हणा᳚ । कृ॒तः । पु॒रः । हरि᳚॑भ्याम् । वृ॒ष॒भः । रथः᳚ । हि । सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्तोतः दिवे दीप्ताय बृहते महते इंद्राय शूष्यम् । शूषमिति सुखनाम । तत्र साधु शूष्यम् । तादृशं स्तुति लक्षणं वचोऽर्च । उच्चारय । यस्येंद्रस्य धृषतः शत्रून्धर्षयतः । स्वक्षत्रं स्वभूतबलवन्मनो धृषत् धृष्वं भवति । हि षः स हि स खल्विंद्रो बृहच्छ्रवाः प्रभूतयशा असुरः शत्रूणां निरसिता । यद्वा । असुः प्राणो बलं वा । तद्वान् । रो मत्वर्थीयः । अथवा । असवः प्राणाः । तेन चापो लक्ष्यंते । प्राणा वा अपः । तै ब्रा ३-२-५-२ । इति श्रुतेः । तान्राति ददातीत्यसुरः । बर्हणा शत्रूणां निबर्हयिता हरिभ्यामश्विभ्यां पुरस्कृतः पूजितः वृषभः कामानां वर्षिता रथो रंहणशीलः ॥ शूष्यम् । तत्र साधुरिति यत् । सर्वे विधयश्छंदसि विकल्प्यंत इति यतोऽनाव इत्याद्युदात्तत्वाभावे तित्स्वरितं इति स्वरितत्वम् । धृषतः । ञिधृषा प्रागल्भ्ये । व्यत्ययेन शः । शतुरनुम इति विभक्तेरुदात्तत्वम् । बृहच्छ्रवाः । बृहच्छ्रवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असुरः । असु क्षेपणे । असेरुरन् (उ १-४३) इत्युरन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । बर्हणा । सुपां सुलुगिति विभक्तेराकाराः । पुरः । पूर्वाधरेत्यादिनासिप्रत्ययांतोदात्तः ॥ ३ ॥

1.54.4
त्वं दि॒वो बृ᳚ह॒तः सानु᳚ कोप॒यो॑व॒ त्मना᳚ धृष॒ता शम्ब᳚रं भिनत् ।
यन्मा॒यिनो᳚ व्र॒न्दिनो᳚ म॒न्दिना᳚ धृ॒षच्छि॒तां गभ᳚स्तिम॒शनिं᳚ पृत॒न्यसि᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । दि॒वः । बृ॒ह॒तः । सानु᳚ । को॒प॒यः॒ । अव᳚ । त्मना᳚ । धृ॒ष॒ता । शम्ब᳚रम् । भि॒न॒त् ।
यत् । मा॒यिनः᳚ । व्र॒न्दिनः᳚ । म॒न्दिना᳚ । धृ॒षत् । शि॒ताम् । गभ᳚स्तिम् । अ॒शनि᳚म् । पृ॒त॒न्यसि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं बृहतो मरुतो दिवो द्युलोकस्य सानु समुच्छ्रितमुपरिप्रदेशं कोपयः । अकंपयः । धृषता शत्रूणां धर्षयित्रात्मनात्मना स्वयमेव शंबरमेतत्संज्ञमसुरमवाभिनत् । अवधीः । यद्यदा व्रंदिनः शत्रून् जेतुं मृदुभावं प्राप्तन् । यद्वा । वृंदं समूहः । असुरसमूहवतः । मायिनो मायाविनोऽसुरान्मंदिना हृष्टेन धृषत् धृषता प्रागल्भ्यं प्राप्नुवता मनसा युक्तस्त्वं शितां तीक्ष्लीकृतां गभस्तिं हस्तेन गृहीताम् । यद्वा । गभस्तिरिति रश्मिनाम । तद्वतीमशनिं वज्रं पृतन्यसि । तानसुरान् जेतुं पृतनारूपेणेच्छसि । तान्प्रति प्रेरयसीत्यर्थः । तदानीं बृहतो दिवः सानु कोपय इति पूर्वेणान्वयः ॥ कोपयः । कुप कोपे । ण्यंताल्लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । त्मना । मंत्रेष्वाङ्यादेरात्मन इत्याकारलोपः । धृषत् । सुपां सुलुगिति तृतीयाया लुक् । शिसाम् । शो तनूकरणे । निष्ठायां शाच्छोरन्यतरस्याम् (पा ७-४-४१) इतीकारादेशः । पृतन्यसि । पृतनाशब्दात्सुप आत्मनः क्यच् । कव्यध्वरपृतस्येंत्यलोपः । प्रत्यय स्वरः ॥ ४ ॥

1.54.5 समानपद
नि यद्वृ॒णक्षि᳚ श्वस॒नस्य᳚ मू॒र्धनि॒ शुष्ण᳚स्य चिद्व्र॒न्दिनो॒ रोरु᳚व॒द्वना᳚ ।
प्रा॒चीने᳚न॒ मन᳚सा ब॒र्हणा᳚वता॒ यद॒द्या चि᳚त्कृ॒णव॒ः कस्त्वा॒ परि᳚ ॥
▶ पदपाठः (Word-by-word)
नि । यत् । वृ॒णक्षि᳚ । श्व॒स॒नस्य᳚ । मू॒र्धनि᳚ । शुष्ण᳚स्य । चि॒त् । व्र॒न्दिनः᳚ । रोरु᳚वत् । वना᳚ ।
प्रा॒चीने᳚न । मन᳚सा । ब॒र्हणा᳚॑वता । यत् । अ॒द्य । चि॒त् । कृ॒णवः᳚ । कः । त्वा॒ । परि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं रोरुवत् मेघैरत्यर्थं शब्दयन् श्वसनस्य । अंतरिक्षे श्वसितीति श्वसनो वायुः । तस्य व्रंदिनः स्वकिरणैराम्रफलादीन्मृदुभावं प्रापयतः शुष्णस्य चित् रसानां शोषयतुरादित्यस्यापि मूर्धन्युपरिप्रदेशे वना वानान्युदकानि यद्यस्मान्निवृणक्षि आवर्जयसि । प्रापयसीत्यर्थः । वायुना सूर्यकिरणैश्च वृष्वा आपः सूर्यस्योपरि पुनरवस्थाप्यंते । तदेवावस्थापनमिंद्रः करोतीत्युपचर्यते । प्राचीनेन प्रकर्षेण गंत्रा । अपराङ्मुखेनेत्यर्थः । बर्हणावता । निबर्हयतीति वधकर्मसु । पाठाद्बर्हणा शत्रूणां हिंसा । तद्वता । एवंभूतेन मनसा युक्तस्त्वं यद्यस्मादद्याचिदद्यापि कृणवः । घर्मकाले सूर्यस्योपरि भौमान् रसान वस्थापयसि वर्षासु च वर्षयसीति । यस्मादेतत्कुरुषे तस्मात्काराणात्त्वा त्वां पर्युपरि को वर्तते न कोऽपीत्यर्थः । अतस्त्वमेव सर्वाधिक इति भावः ॥ वृणक्षि । वृजी वर्जने । रौधाधिकः । सिपः पित्वादनुदात्तत्वे विकरणस्वरः । यद्वृत्तयोगादनिघातः । प्राचीनेन । प्रपूर्वादंचतेर्ऋत्विगित्यादिना र्क्वि । अनिदितामिति नलोपः । विभाषांचेरदिक्स्त्रयामिति स्वार्थे खः । खस्येनादेशः । अच इत्यकारलोपे चाविति दीर्घत्वम् । खप्रत्ययस्य सति शिष्टत्वात्तदादेशस्योपदेशिवद्भावे नेकार उदात्तः । आद्या चित् । निपातस्य चेति दीर्घत्वम् । कृणवः । कृवि हिंसाकरणयोश्च । इदित्वान्नुम् । लेट सिप्यडागमः । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । वकारस्याकारादेशश्च । तस्यातो लोपे सति स्थानिवद्भावाल्लघूपधगुणाभावः । गुणावादेशौ । आगमानुदात्तत्वे विकरणस्वरः । अत्र निरुक्तम् । व्रंदी व्रंदतेर्मृदूभावकर्मणः । निवृणक्षि यच्छ्वसनस्य मूर्धनि शब्द कारिणः शुष्ण स्यादित्यस्य च शोषयितू रोरूय माणो वनानीति वा धनानीति वा । निरु ५-१६ । इति । धनानीति पक्षे मेघस्य धनानीति व्याख्येयं ॥ ५ ॥

1.54.6
त्वमा᳚विथ॒ नर्यं᳚ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं᳚ व॒य्यं᳚ शतक्रतो ।
त्वं रथ॒मेत᳚शं॒ कृत्व्ये॒ धने॒ त्वं पुरो᳚ नव॒तिं द᳚म्भयो॒ नव᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । आ॒वि॒थ॒ । नर्य᳚म् । तु॒र्वश᳚म् । यदु᳚म् । त्वम् । तु॒र्वीति᳚म् । व॒य्य᳚म् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
त्वम् । रथ᳚म् । एत᳚शम् । कृत्व्ये᳚ । धने᳚ । त्वम् । पुरः᳚ । न॒व॒तिम् । द॒म्भ॒यः॒ । नव᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं नर्यादींस्त्रीन्राज्ञ आविथ ररक्षिथ । तथा हे शतक्रतो बहुविधकर्मन् बहुविधप्रज्ञ वा त्वं वय्यं वय्यकुलजं तुर्वीतिनामानं राजानमाविथेत्येव । अपि च त्वं रथं रंहणस्वभावमेतत्संज्ञमृषिमेतशमेतत्संज्ञकं धने धननिमितिते संग्रामे कृत्व्ये कर्तव्ये सत्याविथेति शेषः । यद्वा । पूर्वोक्तानां राज्ञां रथम् । एतशः इत्यश्वनाम । एतशमश्चं च ररक्षिथेति योज्यम् । तथा त्वं शंबरस्य नवतिं नव नवोत्तरनवतिसंख्याकाः पुरः पुराणि दंभयः व्यनीनशः ॥ एतशं एति गच्छतीत्येतशः । इण् गतौ । इणस्तशंतशसुनौ । उ सू ३-१४९ इति ततन्प्रत्ययः । गुणः । कृत्व्ये । कर्तव्य इत्यस्य शब्दस्य वर्णविकारः । पृषोदरादित्वात् ॥ ६ ॥

1.54.7
स घा॒ राजा॒ सत्प᳚तिः शूशुव॒ज्जनो᳚ रा॒तह᳚व्य॒ः प्रति॒ यः शास॒मिन्व᳚ति ।
उ॒क्था वा॒ यो अ᳚भिगृ॒णाति॒ राध᳚सा॒ दानु᳚रस्मा॒ उप᳚रा पिन्वते दि॒वः ॥
▶ पदपाठः (Word-by-word)
सः । घ॒ । राजा᳚ । सत्॑प᳚तिः । शू॒शु॒व॒त् । जनः᳚ । रा॒त॑ह᳚व्यः । प्रति᳚ । यः । शास᳚म् । इन्व᳚ति ।
उ॒क्था । वा॒ । यः । अ॒भि॒॑गृ॒णाति᳚ । राध᳚सा । दानुः᳚ । अ॒स्मै॒ । उप᳚रा । पि॒न्व॒ते॒ । दि॒वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स घ स खलु जनो जातो राजा राजमानः सत्पतिः सतां पालयिता यजमानः शूशुवत् । आत्मानं वर्धयति । य इंद्रं प्रति रातहव्यो दत्तहविष्कः सन् शासमिंद्र कर्तृकमनुशासनं यद्वा तस्य स्तुतिमिन्वति व्याप्नोति । उक्था वोक्थानि शस्त्राणि वा यः स्तोता राधसा हविर्लक्षणेनान्नेन सहाभिगृणाति तस्याभिमुखीकरणाय शंसति । अस्मै स्तोत्रे दानुरभिमतफलप्रदातेंद्र उपरोपरान्मेघान् । उपर इति मेघनाम । स च यास्केनैवं निरुक्तः । उपर उपलो मेघो भवत्युपरमंतेऽस्मिन्नभ्राण्युपरता आप इति वा । निरु २-२१ । इति । तान् मेघान् दिवः सकाशात्पिन्वते । सेचयति । दोग्धीति यावत् ॥ घ ऋचि तुनुघेत्यादिना दीर्घः । सत्पतिः । सतां पतिः सत्पतिः । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । शूशुवत् । टुओश्वि गतिवृद्ध्योः । ण्यंताद्वर्तमाने लुङि च्लेश्छङादेशे संप्रसारणं संप्रसारणाश्रयं च बलीयः । म ६-१-१७-२ । इत्यंतरंगमपि वृद्ध्यादिकं बाधित्वाणौ च संश्चङोः (पा ६-१-३१) इति संप्रसारणम् । संज्ञापूर्वकस्य विधेरनित्यत्वाद्वृद्ध्यभावे द्विर्वचनादि । उवङादेशः । रातहव्यः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । शासम् । शासु अनुशिष्टावित्यस्माद्भावे घञि कर्षात्वत इत्यंतोदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । वृषादिर्वा द्रष्टव्यः । सह्याकृतिगण इत्युक्तम् । यद्वा । शन्सु स्तुतावित्यस्माद्घञिव्यत्ययेन नलोपः । इन्वति । इवि व्याप्तौ । शपः पित्त्वादनुदात्तत्वे । धातुस्वरः । यद्वृत्तयोगादनिघातः । अभिगृणाति । गृ शब्दे । क्रैयादिकः । प्वादीनां ह्रस्वम् । इति ह्रस्वत्वम् । तिपः पित्त्वादनुदात्तत्वे विकरणस्वरः । पूर्ववन्निघाताभावः । उपरा । सुपां सुलुगिति शसः पूर्वसवर्णदीर्घत्वम् । पिन्वते । पिवि मिवि णिवि सेचने । व्यत्ययेनात्मनेपदं ॥ ७ ॥

1.54.8
अस᳚मं क्ष॒त्रमस᳚मा मनी॒षा प्र सो᳚म॒पा अप᳚सा सन्तु॒ नेमे᳚ ।
ये त᳚ इन्द्र द॒दुषो᳚ व॒र्धय᳚न्ति॒ महि᳚ क्ष॒त्रं स्थवि᳚रं॒ वृष्ण्यं᳚ च ॥
▶ पदपाठः (Word-by-word)
अस᳚मम् । क्ष॒त्रम् । अस᳚मा । म॒नी॒षा । प्र । सो॒म॒॑पाः । अप᳚सा । स॒न्तु॒ । नेमे᳚ ।
ये । ते॒ । इ॒न्द्र॒ । द॒दुषः᳚ । व॒र्धय᳚न्ति । महि᳚ । क्ष॒त्रम् । स्थवि᳚रम् । वृष्ण्य᳚म् । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इंद्रस्य क्षत्रं बलमसमम् । न केनचित्समम् । सर्वाधिकमित्यर्थः । तथा मनीषा बुद्धिश्चासमा । न कस्यापि बुद्ध्या समाना । सर्वं वस्तु विषयीकरोतीत्यर्थः । नेम इति सर्वनामशब्द एतच्छब्दसमानार्थः नेम एते सोमपाः सोमस्य पातारो यजमाना अपसा कर्मणा प्रसंतु । प्रवृद्धाः भवंतु । हे इंद्र ते तव ददुषो हविर्दत्तवंतो ये त्वदीयं महि महत् क्षत्रं बलं स्थविरं स्थूलं प्रवृद्धं वृष्ण्यं वृषत्वं पुंस्त्वं च वर्धयंति प्रवृद्धं कुर्वंति । यद्वा । ददुषो यजमानेभ्यो यागफलं दत्तवतस्तवेति योजनीयं ॥ नेमे । सर्वनामत्वाज्वसः शीभावे गुणः । पा सू ७-१-१७ । त्वसमसिमनेमेत्यनुच्चानि । फि सु ४-१० । इति सर्वानुदात्तत्वे प्राप्ते व्यत्ययेनाद्युदात्तत्वम् । ददुषः । ददातेर्लिटः क्वसुः । जसो व्यत्ययेन शसादेशः । संप्रसारणं संप्रसारणाश्रयं च बलीय इतीडागमात्पूर्वमेव संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । प्रत्ययस्वरः । महि । महेरौणादिक इन्प्रत्ययः स्थविरम् । अजिरशिशिरेत्यादिना । उ सू १-५४ । तिष्ठतेः करिच्प्रत्ययांतो निपातितः ॥ ८ ॥

1.54.9
तुभ्येदे॒ते ब᳚हु॒ला अद्रि᳚दुग्धाश्चमू॒षद᳚श्चम॒सा इ᳚न्द्र॒पाना᳚ः ।
व्य᳚श्नुहि त॒र्पया॒ काम᳚मेषा॒मथा॒ मनो᳚ वसु॒देया᳚य कृष्व ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚ । इत् । ए॒ते । ब॒हु॒लाः । अद्रि᳚॑दुग्धाः । च॒मू॒॑सदः᳚ । च॒म॒साः । इ॒न्द्र॒॑पानाः᳚ ।
वि । अ॒श्नु॒हि॒ । त॒र्पय᳚ । काम᳚म् । ए॒षा॒म् । अथ᳚ । मनः᳚ । व॒सु॒॑देया᳚य । कृ॒ष्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र तुभ्येत् तुभ्यमेव चमसाः । चम्यंते भक्ष्यंत इति चमसाः सोमाः । एते सोमास्त्वदर्थं संपादिताः । कीदृश इत्याह । बहुलाः प्रभूता अद्रिदुग्धा अद्रिभिर्ग्रावभिरभिषुताश्चमूषदश्चमूषु चमसेष्ववस्थिता इंद्रपाना इंद्रस्य पानेन सुखकारः । अतस्त्वं तान्व्यश्नुहि । व्याप्नु हि । व्याप्य चैषां त्वदीयानामिंद्रियाणां काममभिलाषं तैस्तर्पय पूरयेति यावत् । अथानंतरं वसुदेयायास्मभ्यमभिमतधनप्रदानाय त्वदीयं मनः कृष्व कुरुष्व ॥ तुभ्य । छांदसो मलोपः । अद्रिदुग्धाः । दुहेः कर्मणि निष्ठा । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । चमूषदः । चमु अदने । चमंत्यनेनेति चमूः । कृषिचमितानीत्यादिना । उ सू १-८१ । औणादिकः । ऊप्रत्ययः । चमूषु सीदंतीति चमूषदः । सत्सूद्विषेत्यादिना क्विप् । पूर्वपदात् । पा सू ८-३-१०६ । इति षत्वम् । कृदुत्तरपदप्रकृतिस्वरत्वम् । इंद्रपानाः । कर्मणि च येन संस्पर्शात् । पा सू ३-३-११६ । इति पिबतेः कर्मणि ल्युट् । अश्नुहि । व्यत्ययेन परस्मैपदम् । वसुदेयाय । डुदाञ् दाने । अस्मादचो यदिति भावे यत् । ईद्यति (पा ६-४-६५) इतीकारादेशः । गुणः । यतोऽनाव इत्याद्युदात्तत्वम् । कुृदुत्तरपदप्रकृतिस्वरत्वम् । कृष्व । डुकृङ् करणे । बहुलं छंदसीति विकरणस्य लुक् ॥ ९ ॥

1.54.10
अ॒पाम᳚तिष्ठद्ध॒रुण᳚ह्वरं॒ तमो॒॑न्तर्वृ॒त्रस्य᳚ ज॒ठरे᳚षु॒ पर्व᳚तः ।
अ॒भीमिन्द्रो᳚ न॒द्यो᳚ व॒व्रिणा᳚ हि॒ता विश्वा᳚ अनु॒ष्ठाः प्र᳚व॒णेषु᳚ जिघ्नते ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । अ॒ति॒ष्ठ॒त् । ध॒रुण᳚॑ह्वरम् । तमः᳚ । अ॒न्तः । वृ॒त्रस्य᳚ । ज॒ठरे᳚षु । पर्व᳚तः ।
अ॒भि । ई॒म् । इन्द्रः᳚ । न॒द्यः᳚ । व॒व्रिणा᳚ । हि॒ताः । विश्वाः᳚ । अ॒नु॒॑स्थाः । प्र॒व॒णेषु᳚ । जि॒घ्न॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपां वृष्ण्युदकानां धरुणह्वरम् । धरुणशब्दो धारावाचनः । धारानिरोधकं तमोऽंधकारमतिष्ठत् । अयमेवार्थः स्पष्वीक्रियते । वृत्रस्य लोकत्रयावरितुरसुरस्य जठरेषूदरप्रदेशेष्वंतर्मध्ये पर्वतः पर्ववान्मेघोऽभूत् । अतस्तमोरूपेण वृत्रेण मेघस्यावृतत्वाद्वृष्ण्युदकमप्यावृतमित्युच्यते । ईमिमाः पूर्वोक्ता नद्यो नदीरपः । सदनान्नद्य इति व्युत्पत्त्या नदीशब्देनाप उच्यंते । वव्रिणावरकेण वृत्रेण हिताः पिहिता विश्वा व्यापानीरनुष्ठा अनुक्रमेण तिष्ठंतीः । एवं विधा अप इंद्रः प्रवणेषु निम्नेषु भूप्रदेशेष्वभिजिघ्नते अभिगमयति ॥ वव्रिणा । व्रञ् वरण इत्यस्मादादृगमहनजन इति किप्रत्ययः । लिड्वद्भााद्द्विर्भावादि । यणादेशः । प्रत्ययस्वरः । अनुष्ठाः । आतश्चोपसर्ग इति तिष्ठतेः कप्रत्ययः । उपसर्गात्सुनोतीति षत्वम् । जिघ्नते । हंतेर्गत्यर्थाद्व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति शपः श्लुः । अर्तिपिपर्त्योश्च बहुलं छंदसीत्यभ्यासस्येत्वं ॥ १० ॥

1.54.11
स शेवृ᳚ध॒मधि᳚ धा द्यु॒म्नम॒स्मे महि᳚ क्ष॒त्रं ज᳚ना॒षाळि᳚न्द्र॒ तव्य᳚म् ।
रक्षा᳚ च नो म॒घोनः᳚ पा॒हि सू॒रीन्रा॒ये च᳚ नः स्वप॒त्या इ॒षे धा᳚ः ॥
▶ पदपाठः (Word-by-word)
सः । शे॑वृ᳚धम् । अधि᳚ । धाः॒ । द्यु॒म्नम् । अ॒स्मे इति᳚ । महि᳚ । क्ष॒त्रम् । ज॒ना॒षाट् । इ॒न्द्र॒ । तव्य᳚म् ।
रक्ष᳚ । च॒ । नः॒ । म॒घोनः᳚ । पा॒हि । सू॒रीन् । रा॒ये । च॒ । नः॒ । सु॒॑अ॒प॒त्यै । इ॒षे । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र स त्वमस्मे अस्मासु द्युम्नं यशोऽधि धाः । अधिनिधेहि । कीदृशमित्याह । शेवृधम् । शं शमनम् । रोगाणां शमने सति यद्वर्धते तादृशम् । तथा महि महत् जनाषाट् शत्रुजनानामभिभवितृ तव्यं प्रवृद्धं क्षत्रं बलं चाधि दा इति शेषः । किंच हे इंद्र नोऽस्मान्मघोनो धनवतः कृत्वा रक्ष । पालय । सूरीन् विदुषोऽन्यासपि पाहि । पालय । तथा राये धनाय च स्वपत्यै शोभनपुत्रयुक्तायेषेऽन्नाय च नोऽस्मान्धाः । धेहि । स्थापय ॥ धाः । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लुङि गातिस्थेति सिचो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । अस्मे । सुपां सुलुगित्यस्मच्छब्दात्सप्तम्याः शेआदेशः । जनाषाट् । जनान् सहस इति जनाषाट् । छंदसि सहः (पा ३-२-६३) इति ण्विः । अत उपधाया इति वृद्धिः । सहेः साडः सः (पा ८-३-५६) इति षत्वम् । अन्येषामपि दृश्यत इति पूर्वपददीर्घः । तव्यम् । तवतिर्वृद्ध्यर्थः । सौत्रो धातु । अचो यदिति यत् । गुणे धातोस्तन्निमित्तस्यैव (पा ६-१-८०) इत्यवादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । रक्ष रक्ष पालने । शपः पित्त्वादनुदात्तत्वं धातुस्वरः । द्व्यचोऽतस्तिङ इति दीर्घत्वम् । मघोनः । श्वयुवमघोनामतद्धित इति शसि संप्रसारणं पाहि । अदादित्वाच्छपो लुक् । हेरपित्त्वात्तस्यैव स्वरः शिष्यते । मघोन इत्यस्य वाक्यांतरगतत्वान्निघाताभावः । स्वपत्यै । शोभनान्यपत्यानि यस्याः सा तथोक्ता । नञ् सुभ्यामित्युत्तरपदांतोदात्तत्वम् । जसादिषु च्छंदसि वावचनमिति याडापः (पा ७-३-११३) इति याडागमाभावे वृद्धिरेचि (पा ६-१-८८) इति वृद्धिः ॥ ११ ॥