श्रवणम्

1.54.10
अ॒पाम᳚तिष्ठद्ध॒रुण᳚ह्वरं॒ तमो॒॑न्तर्वृ॒त्रस्य᳚ ज॒ठरे᳚षु॒ पर्व᳚तः ।
अ॒भीमिन्द्रो᳚ न॒द्यो᳚ व॒व्रिणा᳚ हि॒ता विश्वा᳚ अनु॒ष्ठाः प्र᳚व॒णेषु᳚ जिघ्नते ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । अ॒ति॒ष्ठ॒त् । ध॒रुण᳚॑ह्वरम् । तमः᳚ । अ॒न्तः । वृ॒त्रस्य᳚ । ज॒ठरे᳚षु । पर्व᳚तः ।
अ॒भि । ई॒म् । इन्द्रः᳚ । न॒द्यः᳚ । व॒व्रिणा᳚ । हि॒ताः । विश्वाः᳚ । अ॒नु॒॑स्थाः । प्र॒व॒णेषु᳚ । जि॒घ्न॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपां वृष्ण्युदकानां धरुणह्वरम् । धरुणशब्दो धारावाचनः । धारानिरोधकं तमोऽंधकारमतिष्ठत् । अयमेवार्थः स्पष्वीक्रियते । वृत्रस्य लोकत्रयावरितुरसुरस्य जठरेषूदरप्रदेशेष्वंतर्मध्ये पर्वतः पर्ववान्मेघोऽभूत् । अतस्तमोरूपेण वृत्रेण मेघस्यावृतत्वाद्वृष्ण्युदकमप्यावृतमित्युच्यते । ईमिमाः पूर्वोक्ता नद्यो नदीरपः । सदनान्नद्य इति व्युत्पत्त्या नदीशब्देनाप उच्यंते । वव्रिणावरकेण वृत्रेण हिताः पिहिता विश्वा व्यापानीरनुष्ठा अनुक्रमेण तिष्ठंतीः । एवं विधा अप इंद्रः प्रवणेषु निम्नेषु भूप्रदेशेष्वभिजिघ्नते अभिगमयति ॥ वव्रिणा । व्रञ् वरण इत्यस्मादादृगमहनजन इति किप्रत्ययः । लिड्वद्भााद्द्विर्भावादि । यणादेशः । प्रत्ययस्वरः । अनुष्ठाः । आतश्चोपसर्ग इति तिष्ठतेः कप्रत्ययः । उपसर्गात्सुनोतीति षत्वम् । जिघ्नते । हंतेर्गत्यर्थाद्व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति शपः श्लुः । अर्तिपिपर्त्योश्च बहुलं छंदसीत्यभ्यासस्येत्वं ॥ १० ॥