श्रवणम्

1.54.4
त्वं दि॒वो बृ᳚ह॒तः सानु᳚ कोप॒यो॑व॒ त्मना᳚ धृष॒ता शम्ब᳚रं भिनत् ।
यन्मा॒यिनो᳚ व्र॒न्दिनो᳚ म॒न्दिना᳚ धृ॒षच्छि॒तां गभ᳚स्तिम॒शनिं᳚ पृत॒न्यसि᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । दि॒वः । बृ॒ह॒तः । सानु᳚ । को॒प॒यः॒ । अव᳚ । त्मना᳚ । धृ॒ष॒ता । शम्ब᳚रम् । भि॒न॒त् ।
यत् । मा॒यिनः᳚ । व्र॒न्दिनः᳚ । म॒न्दिना᳚ । धृ॒षत् । शि॒ताम् । गभ᳚स्तिम् । अ॒शनि᳚म् । पृ॒त॒न्यसि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं बृहतो मरुतो दिवो द्युलोकस्य सानु समुच्छ्रितमुपरिप्रदेशं कोपयः । अकंपयः । धृषता शत्रूणां धर्षयित्रात्मनात्मना स्वयमेव शंबरमेतत्संज्ञमसुरमवाभिनत् । अवधीः । यद्यदा व्रंदिनः शत्रून् जेतुं मृदुभावं प्राप्तन् । यद्वा । वृंदं समूहः । असुरसमूहवतः । मायिनो मायाविनोऽसुरान्मंदिना हृष्टेन धृषत् धृषता प्रागल्भ्यं प्राप्नुवता मनसा युक्तस्त्वं शितां तीक्ष्लीकृतां गभस्तिं हस्तेन गृहीताम् । यद्वा । गभस्तिरिति रश्मिनाम । तद्वतीमशनिं वज्रं पृतन्यसि । तानसुरान् जेतुं पृतनारूपेणेच्छसि । तान्प्रति प्रेरयसीत्यर्थः । तदानीं बृहतो दिवः सानु कोपय इति पूर्वेणान्वयः ॥ कोपयः । कुप कोपे । ण्यंताल्लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । त्मना । मंत्रेष्वाङ्यादेरात्मन इत्याकारलोपः । धृषत् । सुपां सुलुगिति तृतीयाया लुक् । शिसाम् । शो तनूकरणे । निष्ठायां शाच्छोरन्यतरस्याम् (पा ७-४-४१) इतीकारादेशः । पृतन्यसि । पृतनाशब्दात्सुप आत्मनः क्यच् । कव्यध्वरपृतस्येंत्यलोपः । प्रत्यय स्वरः ॥ ४ ॥