प्रथमं मण्डलम् - सूक्तम् 63

9 ऋचः

ऋषिः: नोधा गौतमः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 1.63 - सम्पूर्णम्

1 / 9
ऋक्: 1.63.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
1.63.1
त्वं म॒हा{4} इ᳚न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा᳚ जज्ञा॒नः पृ᳚थि॒वी अमे᳚ धाः ।
यद्ध᳚ ते॒ विश्वा᳚ गि॒रय᳚श्चि॒दभ्वा᳚ भि॒या दृ॒ळ्हासः᳚ कि॒रणा॒ नैज᳚न् ॥
▶ पदपाठः (Word-by-word)
त्वम् । म॒हान् । इ॒न्द्र॒ । यः । ह॒ । शुष्मैः᳚ । द्यावा᳚ । ज॒ज्ञा॒नः । पृ॒थि॒वी इति᳚ । अमे᳚ । धाः॒ ।
यत् । ह॒ । ते॒ । विश्वा᳚ । गि॒रयः᳚ । चि॒त् । अभ्वा᳚ । भि॒या । दृ॒ळ्हासः᳚ । कि॒रणाः᳚ । न । ऐज᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वं महानिति नवर्चं षष्ठं सूक्तम् । नोधस आर्षं त्रैष्टुभमैंद्रं अनुक्रम्यते च । त्वं नवेति ॥ समूळ्हे दशरात्रे द्वितिये छंदोमे मरुत्वतीये शस्त्र एतत्सूक्तम् । विश्वजितोऽग्निं नर इति खंडे सूत्रितम् । तां सु ते कीर्तिं त्वं महा इंद्र यो ह ॥ अ ८-७ । इति ॥

हे इंद्र त्वं महान् गुणैः सर्वाधिको भवसि । यो ह यः खलु त्वममेऽसुरकृते भये सति जज्ञानस्तदानीमेव प्रादुर्भूतः सन् शुष्मैः शत्रूणां शोषकैरात्मीयैर्बलैर्द्यावापृथिवी द्यावापृथिव्यौ धाः । अधारयः । तादृशाद्भयादमूमुच इत्यर्थः । किंच । यद्ध ते यस्य खलु तव संबंधिन्या भिया भीत्या विश्वा विश्वानि व्याप्तानि यानि भूतजातानि गिरयश्चित् ये च शिलोच्चयाः । अभ्वा । महन्नामैतत् । अन्यान्यपि महांति यानि संति । तेऽपि सर्वे दृळ्हासो दृढा अप्यैजन् । अकंपिषत । तत्र दृष्टांतः । किरणा न । यथा सूर्यरश्मय इतस्ततो नभसि कंपंते तद्वत् ॥ जज्ञानः । जनी प्रादुर्भावे । लिटः कानच् । गमहनेत्यादिनोपधालोपः । स्थानिवद्भावाद्द्विर्भावादि । चित इत्यंतोदात्तत्वम् । द्यावापृथिवी इत्यस्य समस्तपदस्य मध्ये जज्ञान इत्यस्य पाठश्छांदसः । यत् । सुपां सुलुगिति षष्ठ्या लुक् । अभ्वा । आ समंताद्भवंति सद्भावं प्राप्नुवंतीत्यभ्वा महांतः । आङ् पूर्वाद्भवतेरौणादिको ड्वन्प्रत्ययः । उपसर्गस्य ह्रस्वत्वं च । यद्वा । नञ् पूर्वाद्भवतेः प्राप्त्यर्थान्नञि भुवो डिदिति क्वन्प्रत्ययः । महांतो हि प्राप्तुं न शक्यंते । शेश्छंदसि बहुलमिति शेर्लोपः । किरणाः । कीर्यंते विक्षिप्यंत इति किरणाः । कृ विक्षेपे । कृ पृवृजिमंदिनिधाञ्भ्यः क्युः (उ २-८१) इति क्युप्रत्ययः । योरनादेशे प्रत्ययाद्युदात्तत्वम् । ऋूत इद्धातोरितीत्वम् । ऐजन् । एजृ कंपने । लङ्याडागमः । स चोदात्तः । वृद्धिश्च ॥ १ ॥

1.63.2
आ यद्धरी᳚ इन्द्र॒ विव्र᳚ता॒ वेरा ते॒ वज्रं᳚ जरि॒ता बा॒ह्वोर्धा᳚त् ।
येना᳚विहर्यतक्रतो अ॒मित्रा॒न्पुर᳚ इ॒ष्णासि᳚ पुरुहूत पू॒र्वीः ॥
▶ पदपाठः (Word-by-word)
आ । यत् । हरी॒ इति᳚ । इ॒न्द्र॒ । वि॑व्र᳚ता । वेः । आ । ते॒ । वज्र᳚म् । ज॒रि॒ता । बा॒ह्वोः । धा॒त् ।
येन᳚ । अ॒वि॒ह॒र्य॒त॒क्र॒तो॒ इत्य᳚विहर्यत॑क्रतो । अ॒मित्रा᳚न् । पुरः᳚ । इ॒ष्णासि᳚ । पु॒रु॒॑हू॒त॒ । पू॒र्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं यद्यदा विव्रता विविधकर्माणौ हरी त्वदीयावश्वावा वेः रथ आगमयसि । रथे योजयसीत्यर्थः । तदानीं ते तव बाह्वोर्हस्तयोर्जरिता स्तोता वज्रमा धात् । स्तोत्रेण स्थापयति । स्तोत्रा स्तुते प्रयत्नमंतरेण वज्रं त्वद्धस्ते दृश्यत इत्यर्थः । हे अविहर्यतक्रतो प्रेप्सितकर्मवन्निंद्र अमित्रान् शत्रून्येन वज्रेणेष्णासि अभिगच्छसि । हे पुरुहूत पुरुभिर्बहुभिर्यजमानैराहूत त्वं पूर्वीर्बह्वीः पुरोऽसुरपुराणि भेत्तुमभिगच्छसीत्यर्थः ॥ विव्रता । व्रतमिति कर्मनाम । विविधं व्रतं ययोस्तौ । सुपां सुलुगिति पूर्वसवर्णदीर्घत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वेः । वी गतिप्रजनकांत्यशनखादनेषु । अंतर्भावितण्यर्थाच्छांदसे लुङि सिप्यदादित्वाच्छपो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । धात् । दधातेश्छांदसे लुङि गातिस्थेति सिचो लुक् । पूर्ववदडभावः । अविहर्यतक्रतो । हर्यतिः प्रेप्साकर्मेति यास्कः (नि ७-१७) हर्य गतिकांत्योः । कांतिरभिलाषः । विहर्यतोऽनभिलषितः । अविहर्यतोऽभिलषित इत्यर्थः । तादृशः क्रतुः कर्म यस्य स तथोक्तः । अमित्रान् । न संति मित्राण्येष्विति बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । इष्णासि । इष आभीक्ष्ण्ये । अत्र गत्यर्थः । क्र्यादिभ्यः श्ना । सिपः पित्त्वादनुदात्तत्वे तस्मैव स्वरः शिष्यते । यद्वृत्तयोगादनिघातः ॥ २ ॥

1.63.3 समानपद
त्वं स॒त्य इ᳚न्द्र धृ॒ष्णुरे॒तान्त्वमृ᳚भु॒क्षा नर्य॒स्त्वं षाट् ।
त्वं शुष्णं᳚ वृ॒जने᳚ पृ॒क्ष आ॒णौ यूने॒ कुत्सा᳚य द्यु॒मते॒ सचा᳚हन् ॥
▶ पदपाठः (Word-by-word)
त्वम् । स॒त्यः । इ॒न्द्र॒ । धृ॒ष्णुः । ए॒तान् । त्वम् । ऋ॒भु॒क्षाः । नर्यः᳚ । त्वम् । षाट् ।
त्वम् । शुष्ण᳚म् । वृ॒जने᳚ । पृ॒क्षे । आ॒णौ । यूने᳚ । कुत्सा᳚य । द्यु॒॑मते᳚ । सचा᳚ । अ॒ह॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं सत्यः सत्सु भवः । सर्वोत्कृष्ट इत्यर्थः । एतान् शत्रूनभिगतः सन् दृष्णुस्तेषां धर्षयिता तिरस्कर्ता । किंच त्वमृभुक्षा ऋभूणामधिपतिः । तेषु कृतनिवासो वा । यद्वा । महन्नामैतत् । महान्प्रवद्धोऽसि । नर्यो नृभ्यो हितः । तथा त्वं षाट् शत्रूणामभिभविता । हंतेत्यर्थः । किंच । वृजन इत्यादीनि त्रीणि संग्रामनामानि । अत्र पूर्वे विशेषणे । वृजने वर्जनयुक्ते । संग्रामे हि वीराः पुरुषा वर्ज्यंते हिंस्यंते । पृक्षे संपर्चनीये वीर्यैर्योद्धुं प्राप्तव्ये । एवंविध आणौ संग्रामे द्युमते दीप्तिमते यूने तरुणाय कुत्साय सचा त्वं सहायो भूत्वा शुष्णं शोषयितारमेतत्संज्ञमसुरमहन् । अवधीः ॥ ऋभुक्षाः । ऋभुरिति मेधाविनाम । उरु विस्तीर्णं भाति । यद्वा । ऋतेन यज्ञेन भाति भवतीति वा ऋभुः । उरुशब्दे ऋतशब्दे वोपपदे भातेर्भवतेर्वा मृगय्वादयश्च (उ १-३८) इति कुप्रत्ययः । पूर्वपदस्य ऋभावश्च निपात्यते । क्षयतिरैश्वर्यकर्मा । तेषामीष्ट इत्यृभुक्षाः । यद्वा । क्षि निवासगत्योः । तेषु निवसतीति पतेस्थ (उ ४-१२) इति विधीयमान इनिप्रत्ययो बहुलवचनादस्मादपि भवति । टलोपश्च । सौ पथिमथ्यृभुक्षामात् (पा ७-१-८५) इत्यात्वम् । प्रत्ययस्वरः । षाट् । सह अभिभवे । छंदसि सह इति केवलादपि ण्विः । षत्वं छांदसम् । द्युमते । द्यौर्दीप्तिरस्मिन्नस्तीति द्युमान् । स्वादिष्वसर्वनामस्थान इति पदसंज्ञायां दिव उदित्युत्वम् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वं ॥ ३ ॥

1.63.4
त्वं ह॒ त्यदि᳚न्द्र चोदी॒ः सखा᳚ वृ॒त्रं यद्व᳚ज्रिन्वृषकर्मन्नु॒भ्नाः ।
यद्ध᳚ शूर वृषमणः परा॒चैर्वि दस्यू{4}॒र्योना॒वकृ᳚तो वृथा॒षाट् ॥
▶ पदपाठः (Word-by-word)
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । चो॒दीः॒ । सखा᳚ । वृ॒त्रम् । यत् । व॒ज्रि॒न् । वृ॒ष॒॑क॒र्म॒न् । उ॒भ्नाः ।
यत् । ह॒ । शू॒र॒ । वृ॒ष॒॑म॒नः॒ । प॒रा॒चैः । वि । दस्यू᳚न् । योनौ᳚ । अकृ᳚तः । वृ॒था॒षाट् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं ह त्वं खलु सखा कुत्सस्य सहायः सन् त्यत्तत्प्रसिद्धं धनं जयलक्षणं यशो वा चोदीः । प्रेरितवान् । अकार्षीरित्यर्थः । हे वृषकर्मन् वृष्व्युदकसेचनरूपकर्मोपेत वज्रिन् वज्रवन्निंद्र वृत्रं सर्वस्य धनस्यावरीतारं कुत्सस्य शत्रुं यद्यदोभ्नाः अतुभ्नाः अहिंसीः । अपि च हे शूर शत्रूणां प्रेरक वृषमणः कामाभिवर्षकमनस्केंद्र वृथाषाट् । अनायासेन शत्रूणामभिभविता त्वं यद्ध यदा खलु योनौ वीरैर्मिश्रणीये संग्रामे दस्यून्कुत्सस्योपक्षयितृनन्यान् शत्रून्पराचैः परागमनैर्व्यकृतः पराङ्मुखा यथा भवंति तथा व्यच्छिनः । तदानीं कुत्सः सर्वं यशः प्राप्नोदित्यर्थः ॥ चोदीः । चुद प्रेरणे । लुङि नेटेति सिचि वृद्धिप्रतिषेधः । उभ्नाः । णभ तुभ हिंसायाम् । क्रैयादिकः । लङि सिपि तलोपश्छांदसः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । पराचैरित्येतदव्ययम् । नीचैरुच्चैरितिवदिति भट्टभास्करमिश्रः । पराचैः परांचनैरिति निरुक्तम् । नि ११-२५ । दस्यून् । दीर्घादटसमानपाद इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वेत्यूकारस्य सानुनासिकता । अकृतः । कृती छेदने । लङि सिपि तुदादित्वाच्छप्रत्ययः । आगमानुशासनस्यानित्यत्वात् शे मुचादीनामिति नुमागमस्याभावः । शस्य ङित्त्वाद्गुणाभावः ॥ ४ ॥

1.63.5
त्वं ह॒ त्यदि॒न्द्रारि᳚षण्यन्दृ॒ळ्हस्य᳚ चि॒न्मर्ता᳚ना॒मजु᳚ष्टौ ।
व्य१॒᳚स्मदा काष्ठा॒ अर्व᳚ते वर्घ॒नेव᳚ वज्रिञ्छ्नथिह्य॒मित्रा᳚न् ॥
▶ पदपाठः (Word-by-word)
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । अरि᳚षण्यन् । दृ॒ळ्हस्य᳚ । चि॒त् । मर्ता᳚नाम् । अजु᳚ष्टौ ।
वि । अ॒स्मत् । आ । काष्ठाः᳚ । अर्व᳚ते । वः॒ । घ॒ना॑इ᳚व । व॒ज्रि॒न् । श्न॒थि॒हि॒ । अ॒मित्रा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र त्वं ह त्वं खलु त्यत् तस्य दृळ्हस्य चित् दृढस्य कस्यचिदप्यरिषण्यन् रेषणमनिच्छन् एवंस्वभावो भवसि । देवतात्वेनानुग्रहीतृत्वान् । तथापि मर्तानां स्तोतृणामस्माकं शत्रुभिरजुष्टावप्रीतौ सत्यामस्मदर्वतेऽस्मदीयाश्वाय गंतुं काष्ठा दिश आ समंतात् वि वः । विवृताः कुरु । यथा सर्वासु दिक्ष्वस्मदीया अश्वाः प्रतिरोधमंतरेण गच्छंति तथा कुर्वित्यर्थः । किंच तत्रत्यानमित्रान् हे वज्रिन्वज्रवन्निंद्र घनेव घनेन कठिनेन पर्वतेनेव वज्रेण श्नथिहि । श्नथय । जहीत्यर्थः । यद्वा । मर्तानां मनुष्याणां मध्ये यस्मिन्कस्मिंश्चित्तवाप्रीतौ सत्यां तस्य शत्रोर्दृढस्याप्यरिषण्यन् रेषणं हिंसनमनिच्छन्वर्तसे । यस्मिंस्तु कुत्सादौ प्रीतिरस्ति तस्य शत्रुवधं चकृषे । अतस्तव प्रियाणामस्माकमर्वत इत्यादि पूर्ववत् ॥ त्यत् । सुपां सुलुगिति षष्ठ्या लुक् । अरिषण्यन् । रिष्टशब्दात् क्यचि दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति (पा ७-४-३६) इति रिषण्भावो निपात्यते । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मत् । पूर्ववत् षष्ठ्यालुक् । अर्वते अर्वणस्त्रसावनञ इति नकारस्य तकारादेशः । वनिप्सुपौ पित्त्वादनुदात्तौ । परिशेषाद्धातुस्वरः । घनेव । मूर्तौ घनः (पा ३-३-७७) इति काठिन्ये गम्य माने हंतेरप्प्रत्ययांतो निपात्यते । श्नथिहि । श्नथ्य हिंसार्थः । ण्यंताल्लोट बहुलं छंदसीति शपो लुक् ॥ ४ ॥ ५ ॥

1.63.6
त्वां ह॒ त्यदि॒न्द्रार्ण᳚सातौ॒ स्व᳚र्मीळ्हे॒ नर᳚ आ॒जा ह᳚वन्ते ।
तव᳚ स्वधाव इ॒यमा स᳚म॒र्य ऊ॒तिर्वाजे᳚ष्वत॒साय्या᳚ भूत् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । ह॒ । त्यत् । इ॒न्द्र॒ । अर्ण᳚॑सातौ । स्वः᳚॑मीळ्हे । नरः᳚ । आ॒जा । ह॒व॒न्ते॒ ।
तव᳚ । स्व॒धा॒॑वः । इ॒यम् । आ । स॒॑म॒र्ये । ऊ॒तिः । वाजे᳚षु । अ॒त॒साय्या᳚ । भू॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र अर्णसातावर्णानां गंतृणां युद्धे प्रवृत्तानां पुरुषाणां सातिर्लाभो यस्मिन् स्वर्मीळ्हे । मीळ्हमिति धननाम । सुष्ठ्वरणीयं धनं यस्मिन् । एवंभूत आजा आजौ संग्रामे त्यत्तं प्रसिद्धं त्वामेव नरो योद्धुकामाः पुरुषाः सहायार्थं हवंते । आह्वयंति । यद्वा । अर्णस उदकस्य सातिर्लाभो यस्पिन्वृत्रादियुद्धे तस्मिन्नित्यर्थः । वृष्टिनिरोधकेन वृत्रेण सहवर्षणार्थं तव यद्युद्धं तत्र स्तोतारस्त्वां प्रोत्साहयंतीति भावः । यस्मादेवं तस्मात् हे स्वधावो हे अन्नवन् बलवन्वेंद्र समर्ये संग्रामे तव संबंधिनीयमूतिस्त्वदीयमिदं रक्षणं आ अस्मदाभिमुख्येन भूत् । भवतु । वाजेषु संग्रामेषु यैषोतिरतसाय्या योद्धृभिः प्राप्तव्या भवति ॥ त्यत् । सुपां सुलुगिति द्वितीयाया लुक् । अर्णसातौ । ऋ गतौ । बहुलवचनादौणादिको नप्रत्ययः । षणु दान इत्यस्माद्भावे क्तिनि जनसनखनामित्यनुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । उदके नुट्च (उ ४-१९६) इत्यर्तेरसुन्प्रत्ययो नुडागमश्च । पीवोपवसनादीनां छंदसि लोपो वक्तव्यः म ६-३-१०९-६ । इति सलोपः । नित्त्वादाद्युदात्तत्वम् । पूर्ववद्बहुव्रीहिस्वरः । स्वर्मीळ्हे । स्वर् शब्दो न्यङ् स्वरौ स्वरिताविति स्वरितः । बहुव्रीहिस्वरेण स एव शिष्यते । आजा । सुपां सुलुगिति सप्तम्या डादेशः । स्वधावः । मतुवसोरुरिति मतुपो रुत्वम् । अतसाय्या । अत सातत्यगमने । औणादिकः साय्यप्रत्ययः । तस्याडागमश्च । आगमानुदात्तत्वे प्रत्ययाद्युदात्तत्वम् । भूत् । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लुङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ६ ॥

1.63.7
त्वं ह॒ त्यदि᳚न्द्र स॒प्त युध्य॒न्पुरो᳚ वज्रिन्पुरु॒कुत्सा᳚य दर्दः ।
ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा᳚ज॒न्वरि᳚वः पू॒रवे᳚ कः ॥
▶ पदपाठः (Word-by-word)
त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । स॒प्त । युध्य᳚न् । पुरः᳚ । व॒ज्रि॒न् । पु॒रु॒॑कुत्सा᳚य । द॒र्द॒रिति᳚ दर्दः ।
ब॒र्हिः । न । यत् । सु॒॑दासे᳚ । वृथा᳚ । वर्क् । अं॒होः । रा॒ज॒न् । वरि᳚वः । पू॒रवे᳚ । कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वज्रिन् वज्रवन्निंद्र पुरुकुत्सायैतत्संज्ञाया ऋषये युध्यन् तदीयशत्रुभिः सह युद्धं कुर्वाणस्त्वमेव त्यत् ताः सप्त पुरः तदीयानि सप्तसंख्यानि नगराणि दर्दः । व्यदारयः । अभैत्सीरित्यर्थः । अपि च सुदास एतत्संज्ञाय राज्ञेऽंहोरेतत्संज्ञ स्यासुरस्य संबंधि यद्धनमस्ति तद्वृथानायासेन बर्हिर्न बर्हिरिव वर्क् । अवृणक् । अच्छिन इत्यर्थः । तदनंतरं पूरवे त्वां हविषा पूरयते तस्मै सुदासे हे राजन् स्वामिन्निंद्र वरिवो धनं कः । अकार्षीः ॥ त्यत् । सुपां सुलुगिति विभक्तेर्लुक् । दर्दः । दृ विदारणे । अस्माद्यङ् लुगंताल्लङि सिप्यदादिवच्चेति वचनाच्छपो लुक् । हल्ङ्याब्भ्य इति सलोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः सुदासे । शोभनं ददातीति सुदाः । असुन् । सुदाः कल्याणदानः (नि २-२४) इति यास्कः । वर्क् । वृजी वर्जने । लङि सिपि बहुलं छंदसीति विकरणस्य लुक् । लघूपधगुणे पूर्ववत्सलोपः । अडभावश्च । चोः कुरिति कुत्वम् । कः । डुकृञ् करणे । लुङिसिपि मंत्रे घसेति चेर्लुक् । पूर्ववत्सलोपाडभावौ ॥ ७ ॥

1.63.8
त्वं त्यां न᳚ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी᳚पय॒ः परि᳚ज्मन् ।
यया᳚ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर᳚ध्यै ॥
▶ पदपाठः (Word-by-word)
त्वम् । त्याम् । नः॒ । इ॒न्द्र॒ । दे॒व॒ । चि॒त्राम् । इष᳚म् । आपः᳚ । न । पी॒प॒यः॒ । परि᳚॑ज्मन् ।
यया᳚ । शू॒र॒ । प्रति᳚ । अ॒स्मभ्य᳚म् । यंसि᳚ । त्मन᳚म् । ऊर्ज᳚म् । न । वि॒श्वध᳚ । क्षर᳚ध्यै ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे देव द्योतमानेंद्र त्वं नोऽस्माकं चित्रां चायनीयां त्यां तामिषमन्नं परिज्मन् परितो व्याप्तायां भूमौ पीपयः । प्रावर्धयः । यथा सर्वा भूमिरन्नेन परिपूर्णा भवति तथा कुर्वित्यर्थः । तत्र दृष्टांतः । आपो न । यथापो वृष्ट्युदकानि भूम्यां वर्षणेन प्रवर्धयसि । तद्वत् । यद्वा । भूमौ वर्तमानानस्मान्यथापः पाययसि तद्वच्चित्रामिषमपि पाययेति भावः । हे शूरेंद्र ययेषात्मनमात्मानं जीवनमस्मभ्यं प्रति यंसि । प्रयच्छसि । तत्र दृष्टांतः । विश्वध विश्वतः सर्वतः क्षरध्यै क्षरितुमूर्जं न उदकमिव । यथास्मभ्यं बहुलमुदकं प्रयच्छसि तद्वत्प्राणधारणरूपं जीवनमपि प्रयच्छसीति भावः ॥ आपः । शसि प्राप्ते व्यत्ययेन जस् । अप्तृन्नित्यादिना दीर्घः । पीपयः । स्फायी ओप्यायी वृद्धौ । ण्यंताच्छांदसे लुङि प्यायः पी (पा ६-१-२८) इति व्यत्ययेन पीभावः । णिश्रिद्रुस्रुभ्य इति च्लेश्चङादेशः । णिलोपादीनि । यद्वा । पीङ् पान इत्यस्माल्लुङिचङि पूर्ववत् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । परिज्मन् । जमतिर्गतिकर्मा । अज गतिक्षेपणयोः । आभ्यां परिपूर्वाभ्यां श्वन्नुक्षन्नित्यादौ कनिन्प्रत्ययांतो निपातितः । सुपां सुलुगिति सप्तम्या लुक् । यंसि । यम उपरमे । बहुलं छंदसीति शपो लुक् । त्मनम् । आङोऽन्यत्रापि च्छंदसि दृश्यते । का ६-४-१४१-१ । इत्यात्मन आकारलोपः । संज्ञा पूर्वकस्य विधेरनित्यत्वादुपधादीर्घाभावः । विश्वध । विश्वशब्दात्तसिलः सकारलोपो धत्वं च पृषोदरादित्वात् । क्षरध्यै । क्षर संचलने । तुमर्थे सेसेनित्यध्यैन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ ८ ॥

1.63.9
अका᳚रि त इन्द्र॒ गोत᳚मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम᳚सा॒ हरि᳚भ्याम् ।
सु॒पेश᳚सं॒ वाज॒मा भ᳚रा नः प्रा॒तर्म॒क्षू धि॒याव᳚सुर्जगम्यात् ॥
▶ पदपाठः (Word-by-word)
अका᳚रि । ते॒ । इ॒न्द्र॒ । गोत᳚मेभिः । ब्रह्मा᳚णि । आ॑उ᳚क्ता । नम᳚सा । हरि᳚॑भ्याम् ।
सु॒॑पेश᳚सम् । वाज᳚म् । आ । भ॒र॒ । नः॒ । प्रा॒तः । म॒क्षु । धि॒या॑व᳚सुः । ज॒ग॒म्या॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र ते तव गोतमेभिर्गंतृतमैरेतत्संज्ञैर्ऋषिभिरकारि । स्तोत्रं कृतमित्यर्थः । एतदेव स्पष्वीकरोति । ब्रह्माणि मंत्रजातानि नमसा हविर्लक्षणेनान्नेन सह हरिभ्यामश्वाभ्यां युक्ताय तुभ्यमोक्ता । आभिमुख्येनोक्तानि । यद्वा । मर्यादायामाकारः । यथाशास्त्रं प्रयुक्तानि । स त्वं सुपेशसम् । पेश इति रूपनाम । बहुविधरूपयुक्तं वाजमन्नं नोऽस्मभ्यमा भर । आहर । देहीति यावत् । धिया बुद्ध्या कर्मणा वा प्राप्तधन इंद्रः प्रातःकालेऽस्मिद्रक्षणार्थं जगम्यात् । आगच्छतु ॥ ओक्ता । शेश्छंदसि बहुलमिति शेर्लोपः । सुपेशसम् । पिश अवयवे । असुन् । बहुव्रीहावाद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । भर । हृग्रहोर्भ इति भत्वम् । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः ॥ ५ ॥ ॥ ९ ॥