प्रथमं मण्डलम् - सूक्तम् 156

5 ऋचः

ऋषिः: दीर्घतमा औचथ्यः देवता: विष्णुः छन्दः: जगती

सूक्तम् 1.156 - सम्पूर्णम्

1 / 5
ऋक्: 1.156.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
1.156.1
भवा᳚ मि॒त्रो न शेव्यो᳚ घृ॒तासु᳚ति॒र्विभू᳚तद्युम्न एव॒या उ᳚ स॒प्रथा᳚ः ।
अधा᳚ ते विष्णो वि॒दुषा᳚ चि॒दर्ध्य॒ः स्तोमो᳚ य॒ज्ञश्च॒ राध्यो᳚ ह॒विष्म᳚ता ॥
▶ पदपाठः (Word-by-word)
भव᳚ । मि॒त्रः । न । शेव्यः᳚ । घृ॒त॑आ᳚सुतिः । विभू᳚त॑द्युम्नः । ए॒व॒॑याः । ऊं॒ इति᳚ । स॒॑प्रथाः᳚ ।
अध᳚ । ते॒ । वि॒ष्णो॒ इति᳚ । वि॒दुषा᳚ । चि॒त् । अर्ध्यः᳚ । स्तोमः᳚ । य॒ज्ञः । च॒ । राध्यः᳚ । ह॒विष्म᳚ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविष्णो मित्रोन मितेर्दुःखात् त्राता सखा आदित्योवा मित्रः प्रमीतेस्त्रायतेइतिनिरुक्तम् । शेव्यः साधुः सुखकर्ताघृतासुतिः घृतमुदकमासूयतेयेनसतादृशः यद्वा घृतमाज्यमाभिमुख्येन नीयतेयस्मैस- तादृशः विभूतद्युम्नः प्रभूतयशाः प्रभूतान्नोवा एवयाः रक्षणस्यमिश्रयिताप्रापयिता सप्रथाः सर्वतः पृथुः प्रतिविशेषणंनोभवेतिसंबन्धः द्भ्यचोतस्तिङइतिदीर्घः उइतिपादपूरणः हेविष्णो त्वंयस्मादीदृ- शोभवसि अधास्मात् ते तव स्तोमः स्तोत्रविशेषः विदुषात्वन्माहात्म्यवेदित्रा यजमानेन अर्ध्यः पुनः पुनःप्रवर्धनार्हः चित् एव एकवारकरणेनसंपूर्यतइत्यर्थः तथातेयज्ञश्च हविष्मता तेनयजमानेनराध्यः समाराधनीयः यद्वा विदुषाहोत्रासोमोराध्यः हविष्मतायज्ञश्चराध्यः ॥ १ ॥

1.156.2
यः पू॒र्व्याय᳚ वे॒धसे॒ नवी᳚यसे सु॒मज्जा᳚नये॒ विष्ण᳚वे॒ ददा᳚शति ।
यो जा॒तम᳚स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो᳚भि॒र्युज्यं᳚ चिद॒भ्य᳚सत् ॥
▶ पदपाठः (Word-by-word)
यः । पू॒र्व्याय᳚ । वे॒धसे᳚ । नवी᳚यसे । सु॒मत्॑जा᳚नये । विष्ण᳚वे । ददा᳚शति ।
यः । जा॒तम् । अ॒स्य॒ । म॒ह॒तः । महि᳚ । ब्रव᳚त् । सः । इत् । ऊं॒ इति᳚ । श्रवः᳚॑भिः । युज्य᳚म् । चि॒त् । अ॒भि । अ॒स॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः योमर्त्यः पूर्व्यायपूर्वकालीनायनित्यायेत्यर्थः वेधसेविविधजगत्कर्त्रे नवीयसेनित्यनूतनाय अत्यन्तरमणीयायेत्यर्थः स्तुत्यायवा सुमज्जानये स्वयमेवोत्पन्नाय जनेरौणादिकइण् सुमत्स्वयमित्य- र्थइतियास्कः । यद्वा सुतरांमादयतीतिसुमत् तादृशीजायायस्यसतथोक्तः तस्मै सर्वजगन्मादनशील- श्रीपतयइत्यर्थः बहुव्रीहौजायायानिङितिनिङादेशःसमासान्तः वलिलोपः उक्तगुणकायविष्णवे व्या- पकायददाशति हविरादिकंददाति किंच अस्य विष्णोर्महतोमहानुभावस्य महि महत् पूज्यंजातंजन्म उत्पत्तिं हिरण्यगर्भादिरूपंजन्म ब्रवत् ब्रूयात् ब्रवीतेर्लेट्यडागमः संकीर्तयेत् सेदु उशब्दोपिशब्दार्थः सोऽपिदाता स्तोताच श्रवोभिरन्नैः कीर्तिभिर्वायुक्तः सन् युज्यंचित् सर्वैर्गन्तव्यमेव तत्पदं अभिआ- भिमुख्येनअसत् गच्छति प्राप्नोति ॥ २ ॥

1.156.3
तमु᳚ स्तोतारः पू॒र्व्यं यथा᳚ वि॒द ऋ॒तस्य॒ गर्भं᳚ ज॒नुषा᳚ पिपर्तन ।
आस्य᳚ जा॒नन्तो॒ नाम᳚ चिद्विवक्तन म॒हस्ते᳚ विष्णो सुम॒तिं भ᳚जामहे ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । स्तो॒ता॒रः॒ । पू॒र्व्यम् । यथा᳚ । वि॒द । ऋ॒तस्य᳚ । गर्भ᳚म् । ज॒नुषा᳚ । पि॒प॒र्त॒न॒ ।
आ । अ॒स्य॒ । जा॒नन्तः᳚ । नाम᳚ । चि॒त् । वि॒व॒क्त॒न॒ । म॒हः । ते॒ । वि॒ष्णो॒ इति᳚ । सु॒॑म॒तिम् । भ॒जा॒म॒हे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्तोतारः तमुतमेव विष्णुं पूर्व्यं पूर्वार्हं अनादिसंसिद्धं ऋतस्यगर्भं यज्ञस्यगर्भभूतं यज्ञात्मना उत्पन्नमित्यर्थः यज्ञोवैविष्णुरितिश्रुतेः । यद्वा ऋतस्योदकस्य गर्भंगर्भकारणंउदकोत्पादकमित्यर्थः अपएवससर्जादावितिस्मृतेः । एवंभूतंविष्णुं यथा विद जानीथ तथाजनुषाजन्मनास्वतएवकेनचि- द्वरलाभादिना पिपर्तन स्तोत्रादिनाप्रीणयत यावदस्यमाहात्म्यंजानीथतावदित्यर्थः विदेर्लटि मध्य- मबहुवचनं विदऋतस्येत्यत्र संहितायामृत्यकइतिप्रकृतिभावः किंच अस्यमहानुभावस्यविष्णोर्ना- मचित् सर्वैर्नमनीयमभिधानं सार्वात्म्यप्रतिपादकंविष्णुरित्येतन्नामजानन्तः पुरुषार्थप्रदमित्यधिग- च्छन्तआसमन्तात् विवक्तन वदत संकीर्तयत यद्वा नाम यज्ञनामनमन विष्णोरेव सर्वेषां स्वर्गापव- र्गसाधनाय इष्ट्याद्यात्मना द्रव्यदेवतात्मनावा परिणाममाजानन्तोयूयंविवक्तन ब्रूत स्तुत वचेर्लो- टिछान्दसःशपःश्लुः बहुलंछन्दसीत्यभ्यासत्येत्वम् पूर्ववत्तनादेशः इदानीं साक्षात्कृत्याह—हेविष्णो सर्वात्मकदेव महोमहतस्तेतवसुमतिंसुष्ठुमतिं शोभात्मिकांबुद्धिं वा आभजामहे सेवामहेवयंयजमा- नाः ॥ ३ ॥ अग्नीषोमप्रणयनेतमस्यराजेत्येषाप्रयोक्तव्या अग्नीषोमौप्रणेष्यत्स्वितिखण्डेसूत्रितम्—तमस्य- राजावरुणस्तमश्विनेत्यर्धर्चआरमेदिति ।

1.156.4
तम᳚स्य॒ राजा॒ वरु᳚ण॒स्तम॒श्विना॒ क्रतुं᳚ सचन्त॒ मारु᳚तस्य वे॒धसः᳚ ।
दा॒धार॒ दक्ष᳚मुत्त॒मम᳚ह॒र्विदं᳚ व्र॒जं च॒ विष्णु॒ः सखि᳚वा{4} अपोर्णु॒ते ॥
▶ पदपाठः (Word-by-word)
तम् । अ॒स्य॒ । राजा᳚ । वरु᳚णः । तम् । अ॒श्विना᳚ । क्रतु᳚म् । स॒च॒न्त॒ । मारु᳚तस्य । वे॒धसः᳚ ।
दा॒धार᳚ । दक्ष᳚म् । उ॒त्॑त॒मम् । अ॒हः॒॑विद᳚म् । व्र॒जम् । च॒ । विष्णुः᳚ । सखि᳚॑वान् । अ॒प॒॑ऊ॒र्णु॒ते ॥
▶ सायणभाष्यम् (Sayana Commentary)

मरुतस्य मरुतांऋत्विजांसंघातोमारुतं तद्वतः मत्वर्थोलुप्यते मरुतांदेवानांसंबन्धिनोवावेधसः मेधाविनोऽस्ययजमानस्य तंप्रसिद्धं क्रतुंयागंयज्ञात्मकंविष्णुं यज्ञोवैविष्णुरितिश्रुतेः । राजाराजमा- नोवरुणः सचन्तसेवते तमेवक्रतुंयागंअश्विनाअश्विनौसचेते अन्येपिदेवाः सचन्तेसेवन्ते किंच विष्णुः सवनत्रयात्मनाव्याप्तोविष्णुः सखिवान् यजमानादिसखिभिर्युक्तः सन् उत्तमंउत्कृष्टतमंअहर्विदंअह- र्वेत्तारं स्वर्गोत्पादकमित्यर्थः दक्षंबलंफलप्रदानसामर्थ्यरूपंदाधारधृतवान् किंच व्रजंचमेघंच व्रज- इतिमेघनाम व्रजःचरुरितितन्नामसुपाठात् तंवृष्ट्युदकायअपोर्णुते अपगतावरणंकरोति आहुतिद्वा- रायज्ञस्यैववृष्ट्युत्पादकत्वात् यद्वा मारुतस्य मरुत्संघातस्य देवगणस्य वेधसःविधातुः स्रष्टुर्विष्णोः क्रतुंकर्मपालनादिरूपं वरुणादयःसचन्ते तदधीनत्वात् पालनस्य सच सखिवान् इन्द्रमरुदादिसहायो- पेतःसन् उक्तलक्षणं दक्षंवृष्ट्युत्पादमादिसामर्थ्यरूपंबलंदाधार तथाव्रजंचापोर्णुते ॥ ४ ॥

1.156.5 समानपद
आ यो वि॒वाय᳚ स॒चथा᳚य॒ दैव्य॒ इन्द्रा᳚य॒ विष्णु᳚ः सु॒कृते᳚ सु॒कृत्त᳚रः ।
वे॒धा अ᳚जिन्वत्त्रिषध॒स्थ आर्य᳚मृ॒तस्य᳚ भा॒गे यज᳚मान॒माभ᳚जत् ॥
▶ पदपाठः (Word-by-word)
आ । यः । वि॒वाय᳚ । स॒चथा᳚य । दैव्यः᳚ । इन्द्रा᳚य । विष्णुः᳚ । सु॒॑कृते᳚ । सु॒कृत्॑त᳚रः ।
वे॒धाः । अ॒जि॒न्व॒त् । त्रि॒॑स॒ध॒स्थः । आर्य᳚म् । ऋ॒तस्य᳚ । भा॒गे । यज᳚मानम् । आ । अ॒भ॒ज॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योविष्णुः दैव्यःदिविभवः सकृत्तरः शोभनफलप्रदानांमध्येश्रेष्ठः आविवायआगच्छति वेतेर्लिटि- रूपं किमर्थं सचथाय सचनाय यागसहायकरणाय कस्मैइन्द्रायइरांहविर्लक्षणान्नं द्रावयतीतीन्द्रोयज- मानः इन्द्रइरांदृणातीतिइदंकरणादित्याग्रायणइति यास्केनोक्तनिर्वचनस्यात्रापिसद्भावात् तस्माउ- क्तरूपाययजमानाय सुकृते शोभनस्तुतिकर्त्रे आगत्यचवेधाअभिमतफलविधातात्रिषधस्थः त्रिसंख्यो- पेतसहस्थानवान् सवनत्रयस्थानः क्षित्यादिस्थानत्रयोवाविष्णुः आर्थंआगन्तव्यं यजमानं अजिन्वत् प्रीणयति जिविप्रीणनार्थः इदित्त्वान्नुम् तदर्थंऋतस्ययज्ञस्यभागेहुतशेषरूपे तंयजमानंआभजत् भज- ति समीपयतीत्यर्थः यद्वा ऋतस्ययज्ञस्य भागेफलेयजमानं आभजत् स्वामित्वेनस्थापयति ॥ ५ ॥

द्वाविंशेनुवाकेष्टौसूक्तानि तत्राबोध्यग्निर्ज्मइतिप्रथमंसूक्तंषळृचंदैर्घतमसं आश्विनं पूर्वत्र जागतं- त्वितितुशब्दादिदमपिजागतं अन्त्येद्वेत्रिष्टुभौ अबोधिषडाश्विनंत्वंत्येत्रिष्टुभौ इत्यनुक्रमणिका प्रात- रनुवाकाश्विनशस्त्रयोर्जागतेछन्दस्युक्तोविनियोगः अथाश्विनइतिखण्डेसूत्रितम्—अबोध्यग्निर्ज्मएष- स्यभानुरिति ।