पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
वनेमेति द्वैपदमेकादशर्चमध्ययनतः षडृचं षष्ठं सूक्तम् । ऋष्याद्याः पूर्ववत् । अनुक्रांतं च । वनेमैकादशेति ॥ विनियोगो लैंगिकः ॥
Sayana bhashya empty
11 ऋचः
वनेमेति द्वैपदमेकादशर्चमध्ययनतः षडृचं षष्ठं सूक्तम् । ऋष्याद्याः पूर्ववत् । अनुक्रांतं च । वनेमैकादशेति ॥ विनियोगो लैंगिकः ॥
Sayana bhashya empty
पूर्वी प्रभूता इषोऽन्नानि वनेम । संभजेमहि । अग्निस्तादृशान्यन्नानि ददात्वित्यर्थः । मनीषा मनीषया बुद्ध्यार्यो गंतव्यः प्राप्तव्यः । यद्वा मनीषयार्यः स्वामी । सुशोकः शोभनदीप्तिः । एवंभूतोऽग्निर्विश्वानि सर्वाणि कर्माण्यश्याः । अश्नुते । व्याप्नोति । किं कुर्वन् । दैव्यानि देवेषु भवानि व्रता व्रतानि कर्माणि चकित्वान् आ समंताज्ङानन् । तथा मानुषस्य जनस्य मनुष्य जातस्य जन्मोत्पत्तिरूपं कर्म चिकित्वान् अभिमुख्येन जानन् । द्यावापृथिव्योः संबंधीनि यानि कर्माणि तानि सर्वाण्यवगच्छन् अवगत्य व्याप्नोतीत्यर्थः ॥ वनेम । वन षण संभक्तौ । शपि प्राप्ते व्यत्ययेन शः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे विकरणस्वरः । शिष्यते । पूर्वीः । पुरुशब्धाद्वोतो गुणवचनादिति ङीष् । हलि चेति दीर्घः । मनीषा । ईषाअक्षादित्वात्प्रकृतिभावः । पा ६-१-१२७-७ । सुशोकः । शुच दीप्तौ । भावे घञ् । चचोः कु घिण्यतोरिति कुत्वम् । शोभनः शोको यस्य । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वम् । अश्याः । देवत्वा विश्वान्यश्याः । ऋग्वे १-६९-६ । इतिवत् । चिकित्वान् । कित ज्ञाने । लिटः क्वसुः ॥ १ ॥ २ ॥
Sayana bhashya empty
योऽग्निरपां गर्भो गर्भवदंतर्वर्ती अपांनपात्संज्ञः । यश्च वनानामरण्यानां गर्भो दावाग्निरूपेण तन्मध्ये वर्तते । यश्च स्थातां स्थावराणां काष्ठादीनां गर्भोऽंतरवस्थाता । चरथां चरणवतां जंगमानां गर्भो जाठररूपेण देहमध्येऽवतिष्ठते । एवंभूतायास्मा अग्नये दुरोणे दुस्तर्यगृहेऽद्रौ चित् पर्वतेऽप्यंतर्मध्ये हविः प्रयच्छंतीति शेषः । सोऽयममृतोऽमरणधर्माग्निः स्वाधीः शोभनकर्मयुक्तः शोभनाध्यानो वा । अस्माकं भवत्विति शेषः । तत्र दृष्टांतः । विश्वो निवेशयिता सुखेनावस्थापयिता राजा विशां न । प्रजानां यथा रक्षणरूपशोभनकर्मयुक्तो भवति तद्वत् ॥ स्थाताम् । तिष्ठतेः क्विपि छांदसस्तुक् । यद्वा । औणादिकस्तुप्रत्ययः । आम्यंत्यलोपश्छांदसः । चरथाम् । शीङ् शपिरुगमि (उ ३-११३) इति विधीयमानोऽथप्रत्ययो बहुलवचनाच्चरेरपि द्रष्टव्यः । आगमानुशासनस्यानित्यत्वादामो नुडभावे सवर्णदीर्घः । विश्वः । विश प्रवेशने । अस्मादंतर्भावितण्यर्थादशिप्रुषीत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ ३ ॥ ४ ॥
Sayana bhashya empty
स ह्यग्निः क्षपावान् । क्षपेति रात्रिनाम । रात्रिमान् । आग्नेयी वै रात्रिः । तै । ब्रा । २-१-२-७ । इति श्रुतेः । रात्रेरग्निसंबंधोऽप्यग्निर्ज्योतिर्जोतिरग्निः स्वाहेति हूयमानत्वात् । तै ब्रा २-१-२-१० । यद्वा । राक्षसादीनां क्षपणेन नाशनेन युक्तः । एवंभूतोऽग्निः स्तोत्रे यजमानाय रयीणां धनानि दाशत् । दाशति प्रयच्छति । यो यजमानोऽस्मा अग्नये सूक्तैः सुष्ठूक्तैर्यथाशास्त्रं प्रयुक्तैर्मंत्रैररमलं पर्याप्तं स्तोत्रं करोति तस्मा इत्यर्थः । हे चिकित्वः । चिकित्वांश्चेतनावान् (नि २-११) इति यास्कः । हे चेतनावान् सर्वज्ञाग्ने त्वं देवानामिंदाद्रीनां जन्म जन्मानि मर्तान्मनुष्यांश्च विद्वान् जानन्नेतैतानि भूम भूम्युपलक्षितानि भूतजातानि नि पाहि । नितरां पालय । यतस्त्वं देवमनुष्यादीन्सर्वान् जानासि अत एवमुच्यत इत्यर्थः ॥ रयीणाम् । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्छतुर्थ्यर्थे षष्ठी । दाशत् । दाशृ दाने । लेट्यडागमः । अरम् । वालमूलेत्यादिना लत्वविकल्पः । सूक्तैः । सूपमानात् । क्तः (पा ६-२-१४५) इत्युत्तरपदांतोदात्तत्वम् । चिकित्वः । मतुवसो रुरिति नकारस्य रुत्वम् । भूम । सुपां सुलुगिति भूमिशब्दादुत्तरस्या द्वितीयाया डादेशः । पदकाले ह्रस्वश्छांदसः ॥ ५ ॥ ६ ॥
Sayana bhashya empty
पूर्वीर्बह्व्य उषसः क्षपो निशाश्च विरूपाः शुक्ल कृष्णतया विविधरूपाः सत्यो यमग्निं वर्धान् वर्धयंति । तथा स्थातुः स्थावरं वृक्षादिकं रथं रममाणं जंगमं मनुष्यादिकं च ऋतप्रवीतमृतेनोदकेन सत्येन यज्ञेन वा प्रकर्षेण वेष्टितं यमग्निं वर्धयंति । सोऽग्निः स्वः सुष्ट्वरणीये देवयजने निषत्तो निषण्ण उपविष्टः सन् होता देवानामाह्वाताराधि । संसिद्धोऽभूत् । यद्वा । ऋत्विग्भिरराधि । आराधित इत्यर्थः । किं कुर्वन् । विश्वानि सर्वाणि सत्या सत्सु यजमानेषु भवानि यद्वा सत्यफलान्यपांसि कर्माणि कृण्वन् कुर्वन् ॥ वर्धान् । वृधेर्ण्यंताल्लेट्याडागमः । छंदस्युभयथेति शप आर्धधातुकत्वात् णिलोपः । इतश्च लोप इतीकारलोपे संयोगांतलोपः । ऋतप्रवीतम् । व्येञ् संवरणे । अस्मात्कर्मणि निष्ठा । वचिस्वपीत्यादिना संप्रसारणम् । कृद्ग्रहणे गतिकारपूर्वस्य ग्रहणात्तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । आराधि । राध साध संसिद्धौ । कर्तरि लुङि व्यत्ययेन च्लेश्चिण् ॥ ७ ॥ ८ ॥
Sayana bhashya empty
हे अग्ने त्वं वनेषु वननीयेषु संभजनीयेषु गोष्वस्मदीयेषु पशुषु प्रशस्तिं पशंसां धिषे । दधिषे । स्थापयसि । अस्माकं प्रशस्ता गवादिपशवो भवंत्वित्यर्थः । विश्वे सर्वे जना नोऽस्मभ्यं स्वः सुष्ठ्वरणीयं बलिमुपायनरूपं धनं भरंत । आहरंतु । हे अग्ने त्वा त्वां नरो मनुष्याः पुरुत्रा बहुषु देवयजनदेशेषु वि सपर्यन् । विविधं पूजयंति । पूजयित्वा च वेदो धनं वि भरंत । त्वत्तो विशेषेण हरंति । गृण्हंतीत्यर्थः । तत्र दृष्टांतः । जिव्रेर्जीर्णाद्वृद्धात्पितुर्न पितुरिव । यथा पुत्रा वृद्धात्पितुः सकाशाद्धनं हरंति तद्वत् ॥ धिषे । छांदसो वर्तमाने लिट् । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । का ६-१-८-१ । इति द्विर्वचनाभावः । भरंत । हृञ् हरणे । केवलोऽपि सोपसर्गार्थो द्रष्टव्यः । छांदसोलङ् । हृग्रहोर्भ इति भत्वम् । पुरुत्रा । देवमनुष्यपुरुषपुरुमर्त्येत्यादिना सप्तम्यर्थे त्राप्रत्ययः । जिव्रेः । जृष् वयोहानौ । जृशृस्तृजागृभ्यः क्विन् (उ ४-५४) ऋूत इद्धातोरितीत्वम् । उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति जिव्रिः किर्योर्गिर्योरित्येवमादिषु दीर्घो न भवति । का ८-२-७८ । इत्युक्तत्वात् हलि चेति दीर्घस्याभावः । रेफवकारयोर्विपर्ययः । उक्तं च । वर्णागमो वर्णविपर्ययश्च । का ६-३-१०९ । इति । नित्त्वादाद्युदात्तत्वम् । वेद इति धननाम । विद्यते लभ्यत इति वेदः । विद्लृलाभे । कर्मण्यसुन् ॥ ९ ॥ १० ॥
द्विपदास्वयुक्संख्यासु यांत्यातिरिच्यते सा तथैव पठितव्येत्युक्तम् । उत्तरातादृशी द्विपदा ॥
अयमग्निः साधुर्न साधक इव गृध्नुर्गृहीता । यथा साधकः साध्यफलमातु गृण्हाति तद्वदग्निरपि सर्वं स्वीकरोतीत्यर्थः । तथायमग्निरस्तेव शूरः । यथेषूणां क्षेण्ता धानुष्कः । शत्रून्प्रेरयति तद्वदग्निरपि दहन् सर्वं प्राणिजातं प्रेरयति । तथा यातेव भीमः । याता यातयिता हिंसको भीमः सर्वेषां भयंकरो भवति । तद्वदग्निरपि दृष्टमात्रेण सर्वेषां भयमुत्पादयति । अत एवंविधोऽग्निः समत्सु संग्रामेषु त्वेषो दीप्तः सन् अस्माकं सहायो भवत्वित्यर्थः ॥ गृध्नुः । गृधु अभिकांक्षायाम् । त्रसिगृधिधृषिक्षिपेः क्नुः । शूरः । शु गतौ । अंतर्भावितण्यर्थादस्मात् शुषिचिमीनां दीर्घश्च (उ २-२५) इति क्रन् ॥ ११ ॥