प्रथमं मण्डलम् - सूक्तम् 47

10 ऋचः

ऋषिः: प्रस्कण्वः काण्वः देवता: अश्विनौ छन्दः: बृहती

सूक्तम् 1.47 - सम्पूर्णम्

1 / 10
ऋक्: 1.47.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
1.47.1
अ॒यं वां॒ मधु᳚मत्तमः सु॒तः सोम᳚ ऋतावृधा ।
तम᳚श्विना पिबतं ति॒रोअ᳚ह्न्यं ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒यम् । वा॒म् । मधु᳚मत्॑तमः । सु॒तः । सोमः᳚ । ऋ॒त॒॑वृ॒धा॒ ।
तम् । अ॒श्वि॒ना॒ । पि॒ब॒त॒म् । ति॒रः॑अ᳚ह्न्यम् । ध॒त्तम् । रत्ना᳚नि । दा॒शुषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्रथमाष्टके चतुर्थोऽध्यायः

हे ऋतावृधा ऋतस्य सत्यस्य यज्ञस्य वा वर्धयितारावश्विना अश्विनौ वा युवयोरयं पुरोवर्ती सोमः सुतोऽभिषुतः । कीदृशः । मधुमत्तमोऽतिशयने माधुर्यवान् । तिरोअह्न्यं तिरोभूते पूर्वस्मिन्दिनेऽभिषुतं तं सोमं पिबतम् । दाशुषे हविर्दत्तवते यजमानाय रत्नानि रमणीयानि धनानि धत्तम् । प्रयच्छतं ॥ वाम् । युष्मदस्मदोः षष्ठी चतुर्थीद्वितीयास्थ योर्वांनावौ (पा ८-१-२०) इति षष्ठीद्विवचनस्य वामादेशः । स चानुदात्तः । मधुमत्तमः । मन ज्ञाने । मन्यत इति मधु । फलिपाटनमीत्यादिनोप्रत्ययः । निदित्यनुवृत्तेराद्युदात्तत्वम् । धकारश्चांतादेशः । अतिशयेन मधुमान् मधुमत्तमः । मतुप्तमपोः पित्त्वादनुदात्तत्वे पदस्वर एव शिष्यते । ऋतावृधा । वृधेरंतर्भावितण्यर्थात् क्विप्चेति क्विप् । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । तिरो अह्न्यम् । अह्नि भवोऽह्न्यः । भवे छंदसीति यत् । अह्नष्वखोरेव (पा ६-४-१४५) इति नियमान्नस्तद्धित इति टलोपाभावः । सर्वे विधयश्चंदसि विकल्प्यंत इति वचनाद्ये चाभावकर्मणोः (पा ६-४-१६८) इति प्रकृतिभावाभावेऽल्लोपोऽन इत्यकारलोपः । तिरोहितोऽह्न्यस्तिरो अह्न्यः । तिरोऽंतर्धौ (पा १-४-७१) इति गतित्वेन निपातत्वादव्ययत्वे प्रादिसमासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । दाशुषे । दाश्वान्साह्वानित्यादिना क्वसुप्रत्ययांतो निपातितः । चतुर्थ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वं ॥ १ ॥

1.47.2
त्रि॒व॒न्धु॒रेण᳚ त्रि॒वृता᳚ सु॒पेश᳚सा॒ रथे॒ना या᳚तमश्विना ।
कण्वा᳚सो वां॒ ब्रह्म᳚ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ᳚णुतं॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
त्रि॒॑व॒न्धु॒रेण᳚ । त्रि॒॑वृता᳚ । सु॒॑पेश᳚सा । रथे᳚न । आ । या॒त॒म् । अ॒श्वि॒ना॒ ।
कण्वा᳚सः । वा॒म् । ब्रह्म᳚ । कृ॒ण्व॒न्ति॒ । अ॒ध्व॒रे । तेषा᳚म् । सु । शृ॒णु॒त॒म् । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना त्रिवंधुरेणोन्न तानतरूपत्रिविधबंधनकाष्ठयुक्तेन । त्रिवृताप्रतिहतगतितया लोकत्रये वर्तमानेन सुपेशसा शोभनसुवर्णयुक्तेन रथेना यातम् । इहागच्छतम् । कण्वासः कण्वपुत्रा मेधाविन ऋत्विजो वा वां युवरोरध्वरे यागे ब्रह्म स्तोत्ररूपं मंत्रं हविर्लक्षणमन्नं वा कृण्वंति । कुर्वंति । तेषां कण्वानां हवमाह्वानं सु शृणुतम् । सुष्ठ्वादरेण शृणुतं ॥ त्रिवंधुरेण । बध्नंतीति बंधुराः । बंधेरौणादिक उरन्प्रत्ययः । त्रयो बंधुरा यस्यसौ त्रिबंधुरः । त्रिचक्रादिषु पाठात् त्रिचक्रादीनां छंदस्युपसंख्यानम् । पा ६-२-१९९-१ । इत्युत्तर पदांतोदात्तत्वम् । त्रिवृता । त्रिषु लोकेषु वर्तत इति त्रिवृत् । क्विप्चेति क्विप् । सुपेशसा । पेश इति हिरण्यनाम । शोभनं पेशो यस्यासौ सुपेशाः । आद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्त त्वम् । शृणुतम् । श्रु श्रवणे । श्रुवः शृ चेति श्नुः । तत्संनियोगे धातो शृभावश्च । हवम् । हूयतेर्भावेऽनुपसर्गस्य (पा ३-३-७५) इत्यप् । संप्रसारणं च गुणावादेशौ । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः ॥ २ ॥

1.47.3
अश्वि᳚ना॒ मधु᳚मत्तमं पा॒तं सोम᳚मृतावृधा ।
अथा॒द्य द᳚स्रा॒ वसु॒ बिभ्र᳚ता॒ रथे᳚ दा॒श्वांस॒मुप᳚ गच्छतम् ॥
▶ पदपाठः (Word-by-word)
अश्वि᳚ना । मधु᳚मत्॑तमम् । पा॒तम् । सोम᳚म् । ऋ॒त॒॑वृ॒धा॒ ।
अथ᳚ । अ॒द्य । द॒स्रा॒ । वसु᳚ । बिभ्र᳚ता । रथे᳚ । दा॒श्वांस᳚म् । उप᳚ । ग॒च्छ॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे ऋतावृधा यज्ञस्य वर्धकावश्विनौ मधुमत्तमं सोमं पातम् । पिबतं हे दस्राश्विनौ सोमपानार्थमथास्मदाह्वानानंतरमद्यास्मिन्दिने रथे स्वकीये वसु बिभ्रता अस्मदुपयुक्तं धनं धारयंतौ दाश्वांसं हविष्प्रदं यजमानमुप गच्छतं समीपे प्राप्नुतं ॥ बिभ्रता । डुभृञ् धारणपोषणयोः । शतरि जुहोत्यादित्वादित्वाच्भपः श्लुः । भृञामिदित्यभ्यासस्येत्वम् । शतुर्ङित्त्वाद्गुणाभावे यणादेशः । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ३ ॥

1.47.4
त्रि॒ष॒ध॒स्थे ब॒र्हिषि᳚ विश्ववेदसा॒ मध्वा᳚ य॒ज्ञं मि᳚मिक्षतम् ।
कण्वा᳚सो वां सु॒तसो᳚मा अ॒भिद्य᳚वो यु॒वां ह᳚वन्ते अश्विना ॥
▶ पदपाठः (Word-by-word)
त्रि॒॑स॒ध॒स्थे । ब॒र्हिषि᳚ । वि॒श्व॒॑वे॒द॒सा॒ । मध्वा᳚ । य॒ज्ञम् । मि॒मि॒क्ष॒त॒म् ।
कण्वा᳚सः । वा॒म् । सु॒त॑सो᳚माः । अ॒भि॑द्य᳚वः । यु॒वाम् । ह॒व॒न्ते॒ । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे विश्ववेदसा सर्वज्ञावश्विनौ त्रिषधस्थे कक्ष्यात्रयरूपेणास्तीर्णतया त्रिषु स्थानेष्ववस्थिते बर्हिषि दर्भे स्थित्वा मध्वा मधुरेण रसेन यज्ञं मिमिक्षतम् । सेक्तुमिच्छतम् । हे अश्विना वां युष्मदर्थं सुतसोमा अभिषुतसोमयुक्ता अभिद्य वोऽभिगतदीप्तयः कण्वासो युवामुभौ हवंते । आह्वयंते ॥ त्रिषधस्थे । त्रिषु स्थानेषु सह तिष्ठतीति त्रिषधस्थं बर्हिः । सुपि स्थ इति कप्रत्ययः । आतो लोप इट चेत्याकारलोपः । सध मादस्थयोश्छंदसि (पा ६-३-९६) इति सहशब्दस्य सधादेश्यः मध्वा । आगमानुशासनस्यानित्यत्वान्नुमभावः । जसि चेत्यत्र जसादिषु छंदसि वावचनम् । पा ७-३-१०९-१ । इति वचनान्नाभावाभावश्च । मिमिक्षतम् । मिह सेचने । सन्येकाच इतीट् प्रतिषेधः । हलंताच्चेति सनः कित्त्वाल्लघूपधगुणाभावः । अभ्यासहलादिशेषौ । ढत्वकुत्वषत्वानि । सुतसोमाः । सुतः सोमो यैः । बहुव्रीहिस्वरः । अभिद्यवः । द्युरितहर्नाम । तेन तत्संबंधी प्रकाशो लक्ष्यतो । अभिगता द्युम् । आत्यादयः क्रांताद्यर्थे द्वितीयया । म २-२-१८-४ । इति समासः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ४ ॥

1.47.5
याभि॒ः कण्व᳚म॒भिष्टि᳚भि॒ः प्राव᳚तं यु॒वम᳚श्विना ।
ताभि॒ः ष्व१॒᳚स्मा{4} अ᳚वतं शुभस्पती पा॒तं सोम᳚मृतावृधा ॥
▶ पदपाठः (Word-by-word)
याभिः᳚ । कण्व᳚म् । अ॒भिष्टि᳚॑भिः । प्र । आव᳚तम् । यु॒वम् । अ॒श्वि॒ना॒ ।
ताभिः᳚ । सु । अ॒स्मान् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति᳚ । पा॒तम् । सोम᳚म् । ऋ॒त॒॑वृ॒धा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना युवं युवामुभौ याभिरभिष्टिभिरपेक्षिताभी रक्षाभिः कण्वं महर्षिं प्रावतं रक्षितवंतौ हे शुभस्पती शोभनस्य कर्मणः पालकौ ताभी रक्षाभिरस्माननुष्ठातृन्स्ववतम् । सुष्ठु रक्षतम् । स्पष्टमन्यत् ॥ अभिष्टिभिः । आभिमुख्येनेष्यंत इत्यभिष्टयः फलानि । इषु इच्छायाम् । कर्मणि क्तिनि तितुत्रेत्यादिनेट् प्रतिषेधः । एमनाधिषु च्छंदसि पररूपं वक्तव्यम् । पा ६-१-९४-६ । इति पररूपत्वम् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । उपसर्गाश्चाभिवर्जम् (फि ४-१३) इत्यभिरंतोदात्तः । शुभस्पती । शुभ दीप्तौ । क्विप्चेति क्विप् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । सुबामंत्रित इति षष्ठ्यंतस्य परांगवद्भावात् षष्ठ्यामंत्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वं ॥ १ ॥ ५ ॥

1.47.6
सु॒दासे᳚ दस्रा॒ वसु॒ बिभ्र᳚ता॒ रथे॒ पृक्षो᳚ वहतमश्विना ।
र॒यिं स᳚मु॒द्रादु॒त वा᳚ दि॒वस्पर्य॒स्मे ध᳚त्तं पुरु॒स्पृह᳚म् ॥
▶ पदपाठः (Word-by-word)
सु॒॑दासे᳚ । द॒स्रा॒ । वसु᳚ । बिभ्र᳚ता । रथे᳚ । पृक्षः᳚ । व॒ह॒त॒म् । अ॒श्वि॒ना॒ ।
र॒यिम् । स॒मु॒द्रात् । उ॒त । वा॒ । दि॒वः । परि᳚ । अ॒स्मे इति᳚ । ध॒त्त॒म् । पु॒रु॒॑स्पृह᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे दस्रा दर्शनीयावश्विनौ सुदासे शोभनदानयुक्ताय राज्ञे पिजवनपुत्राय रथे वसु बिभ्रता युवां पृक्षोऽन्नं वहतम् । प्रापितवंतौ । समुद्रादंतरिक्षात् । समुद्रमित्यंतरिक्षनाम । समुद्रोऽध्वरमिति तन्नामसु पाठात् । उत वा दिवस्परि अथवा स्वर्गात्पर्याहृत्य पुरुस्पृहं बहुभिः स्पृहणीयं रयिं धनमस्मे धत्तम् । अस्मासु स्थापयतं ॥ सुष्ठु ददातीति सुदाः । असुनि कृदुत्तरपदप्रकृतिस्वरत्वम् । दिवस्परि । पंचम्याः परावध्यर्थे (पा ८-३-५१) इति विसर्जनीयस्य सत्वम् । पुरुस्पृहम् । स्पृह ईप्सायाम् । चुरादिरदंतः । पुरुभिः स्पृह्यत इति पुरुस्पृहः । कर्मणि घञ् । अतो लोपस्य स्थानिवत्त्वाल्लघूपधगुणाभावः । ञित्स्वरेणोत्वरपदस्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरेण तदेव शिष्यते ॥ ६ ॥

1.47.7
यन्ना᳚सत्या परा॒वति॒ यद्वा॒ स्थो अधि᳚ तु॒र्वशे᳚ ।
अतो॒ रथे᳚न सु॒वृता᳚ न॒ आ ग᳚तं सा॒कं सूर्य᳚स्य र॒श्मिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
यत् । ना॒स॒त्या॒ । प॒रा॒॑वति᳚ । यत् । वा॒ । स्थः । अधि᳚ । तु॒र्वशे᳚ ।
अतः᳚ । रथे᳚न । सु॒॑वृता᳚ । नः॒ । आ । ग॒त॒म् । सा॒कम् । सूर्य᳚स्य । र॒श्मि॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्यासत्यरहितावश्विनौ यद्यदि युवां परावति दूरदेशे स्थो वर्तेर्थे । यद्वा अथवादि तुर्वशेऽधिके समीपे स्थः । अतोऽस्माद्दूरात्समीपाद्वा सूर्यस्य रश्मिभिः साकं सूर्योदयकाले सुवृता शोभनवर्तनयुक्तेन रथेन नोऽस्मान् प्रत्या गतम् । आगच्छतं ॥ नासत्या । सत्सु भवौ सत्यौ । न सत्यावसत्यौ । न असत्यौनासत्यौ नभ्राण्नपादित्यादिना नञिः प्रकृतिभावः । स्थः । अस भुवि । श्नसोरल्लोप इत्यकारलोपः । यद्वृत्तयोगादनिघातः । गतम् । गमेर्लोट बहुलं छंदसीति शपो लुक् । अनु दात्तोपदेशेत्यादिनानुनासिकलोपः ॥ ७ ॥

1.47.8 समानपद
अ॒र्वाञ्चा᳚ वां॒ सप्त᳚यो॑ध्वर॒श्रियो॒ वह᳚न्तु॒ सव॒नेदुप᳚ ।
इषं᳚ पृ॒ञ्चन्ता᳚ सु॒कृते᳚ सु॒दान᳚व॒ आ ब॒र्हिः सी᳚दतं नरा ॥
▶ पदपाठः (Word-by-word)
अ॒र्वाञ्चा᳚ । वा॒म् । सप्त᳚यः । अ॒ध्व॒र॒॑श्रियः᳚ । वह᳚न्तु । सव᳚ना । इत् । उप᳚ ।
इष᳚म् । पृ॒ञ्चन्ता᳚ । सु॒॑कृते᳚ । सु॒॑दान᳚वे । आ । ब॒र्हिः । सि॒द॒त॒म् । न॒रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ अध्वरश्रियो यागसेविनः सप्तयोऽश्वाः सवनेदुपास्मदनुष्ठेयानि त्रीणि सवनान्येवोपलक्ष्यार्वांचाभिमुखौ वां युवां वहंतु । प्रापयंतु । हे नराश्विनौ सुकृते सुष्ठु कर्मकारिणे सुदानवे शोभनदानयुक्ताय यजमानायेषमन्नं पृंचंतां संयोजयंतौ युवां बर्हिरा सीदतम् । दर्भं प्राप्नुतं ॥ आर्वांचा । सुपां सुलुगिति विभक्तेराकारः । अध्वरश्रियः । अध्वरं श्रयंतीत्यध्वरश्रियः । क्विब्वचिप्रछीत्यादिना (उ २-५७) क्विब्दीर्घश्च । वहंतु । वह प्रापणे । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरेणाद्युदात्तत्वम् । पादादित्वान्निघाताभावः । सवना । षुञु् अभिषवे । अभिषूयते सोम एष्विति सवनानि । अधिकरणे ल्युट् । योरनादेशः । गुणावादेशौ । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । शेश्वंदसि बहुलमिति शेर्लोपः । पृंचंता । पृची संपर्के । शतरि रुधादित्वात् श्नम् । श्नसोरल्लोप इत्यकारलोपः । प्रत्ययस्वरः । सुकृते । सुकर्मपापेत्यादिना (पा ३-२-८९) करोतेर्भूते काले क्विप् । ह्रस्वस्य पिति (पा ६-१-७१) इति तुक् । सुदानवे । शोभनं दानु दानं यस्यासौ सुदानुः । दानुशब्दो नुप्रत्ययांत आद्युदात्तः । आद्युदात्तं द्व्यच्छंदसीति बहुव्रीहावुत्तरपदाद्युदात्तत्वम् । सीदतम् । षद्लृविशरणगत्यवसादनेषु॥ ८ ॥

1.47.9
तेन᳚ नास॒त्या ग᳚तं॒ रथे᳚न॒ सूर्य᳚त्वचा ।
येन॒ शश्व᳚दू॒हथु᳚र्दा॒शुषे॒ वसु॒ मध्व॒ः सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
तेन᳚ । ना॒स॒त्या॒ । आ । ग॒त॒म् । रथे᳚न । सूर्य᳚॑त्वचा ।
येन᳚ । शश्व᳚त् । ऊ॒हथुः᳚ । दा॒शुषे᳚ । वसु᳚ । मध्वः᳚ । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या सूर्यत्वचा सूर्यसंवृतेन सूर्यरश्मिसदृशेन वा तेन प्रसिद्धेन रथेना गतं आगच्छतम् । दाशुषे हविर्दत्तवते यजमानाय वसु धनं शश्वत् सर्वदा येन रथेनोहथुः प्रापितवंतौ । तेन रथेनेति पूर्वत्रान्वयः । किमर्थमागमनमिति तदुच्यते । मध्वो मधुरस्य सोमस्य पीतये सोमपानार्थं ॥ सूर्यत्वचा । त्वच संवरणे । त्वचति संवृणोतीति त्वग्रश्मिः । सूर्यस्य त्वगिव त्वग्यस्य । सप्तम्युपमानेत्यादिना । पा २-२-२४-१२ । बहुव्रीहिरुत्तरपदलोपश्च । सूर्यशब्दः षू प्रेरण इत्यस्मात् क्यपि राजसूयसूर्येत्यादिना रुडागमसहितो निपातितः । ततः प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तः । स एव बहुव्रीहौ पूर्वपद । प्रकृतिस्वरेण शिष्यते । ऊहथुः । वह प्रापणे । लिट्यसंयोगाल्लिट् कित् । पा १-२-५ इति लिटः कित्त्वे वचिस्वपीत्यादिना संप्रसारणम् । अभ्यासहलादिशेषौ सवर्णदीर्घः । प्रत्ययस्वरः । यद्वृत्तयोगादनिघातः ॥ ९ ॥

1.47.10
उ॒क्थेभि᳚र॒र्वागव᳚से पुरू॒वसू᳚ अ॒र्कैश्च॒ नि ह्व᳚यामहे ।
शश्व॒त्कण्वा᳚नां॒ सद᳚सि प्रि॒ये हि कं॒ सोमं᳚ प॒पथु᳚रश्विना ॥
▶ पदपाठः (Word-by-word)
उ॒क्थेभिः᳚ । अ॒र्वाक् । अव᳚से । पु॒रु॒वसू॒ इति᳚ पु॒रु॒॑वसू᳚ । अ॒र्कैः । च॒ । नि । ह्व॒या॒म॒हे॒ ।
शश्व᳚त् । कण्वा᳚नाम् । सद᳚सि । प्रि॒ये । हि । क॒म् । सोम᳚म् । प॒पथुः᳚ । अ॒श्वि॒ना॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरूवसू प्रभूतधनावश्विनाववसेऽस्मद्रक्षणार्थमुक्थेभिरुक्थैः शस्त्रैरर्कैश्चार्चनसाधनैः स्तोत्रैश्चार्वागस्मदाभिमुख्येन नि ह्वयामहे । नितरामाह्वयामः । हे अश्विना कण्वानां कण्वपुत्राणां मेधाविनां वा प्रिये सदसि यज्ञस्थाने शश्वत्सर्वदा सोमं पपथुर्हि कम् । युवां पीतवंतौ खलु । उक्थेभिः । बहुलं छंदसीति भिस ऐसादेशाभावः । बहुवचने झल्येदित्येत्वम् । अर्कैः । ऋच स्तुतौ । पुंसि संज्ञायां घः प्रायेणेति करणे घः । चचोः कु घिण्यतोरिति कुत्वम् । नि ह्वया महे । निसमुपविभ्यो ह्वः (पा १-३-३०) इत्यात्मनेपदम् । सदसि । सीदंत्यस्मिन्निति सदः । असुनो नित्त्वादाद्युदात्तत्वम् । पपथुः । पा पाने । लिट्यातो लोप इट चेत्याकारलोपः । प्रत्ययस्वरः । हि चेति निघातप्रतिषेधः ॥ २ ॥ १० ॥