अश्वि᳚ना॒ मधु᳚मत्तमं पा॒तं सोम᳚मृतावृधा ।
अथा॒द्य द᳚स्रा॒ वसु॒ बिभ्र᳚ता॒ रथे᳚ दा॒श्वांस॒मुप᳚ गच्छतम् ॥
अथा॒द्य द᳚स्रा॒ वसु॒ बिभ्र᳚ता॒ रथे᳚ दा॒श्वांस॒मुप᳚ गच्छतम् ॥
पदपाठः (Word-by-word)
अश्वि᳚ना । मधु᳚मत्॑तमम् । पा॒तम् । सोम᳚म् । ऋ॒त॒॑वृ॒धा॒ ।
अथ᳚ । अ॒द्य । द॒स्रा॒ । वसु᳚ । बिभ्र᳚ता । रथे᳚ । दा॒श्वांस᳚म् । उप᳚ । ग॒च्छ॒त॒म् ॥
अथ᳚ । अ॒द्य । द॒स्रा॒ । वसु᳚ । बिभ्र᳚ता । रथे᳚ । दा॒श्वांस᳚म् । उप᳚ । ग॒च्छ॒त॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे ऋतावृधा यज्ञस्य वर्धकावश्विनौ मधुमत्तमं सोमं पातम् । पिबतं हे दस्राश्विनौ सोमपानार्थमथास्मदाह्वानानंतरमद्यास्मिन्दिने रथे स्वकीये वसु बिभ्रता अस्मदुपयुक्तं धनं धारयंतौ दाश्वांसं हविष्प्रदं यजमानमुप गच्छतं समीपे प्राप्नुतं ॥ बिभ्रता । डुभृञ् धारणपोषणयोः । शतरि जुहोत्यादित्वादित्वाच्भपः श्लुः । भृञामिदित्यभ्यासस्येत्वम् । शतुर्ङित्त्वाद्गुणाभावे यणादेशः । अभ्यस्तानामादिरित्याद्युदात्तत्वं ॥ ३ ॥