याभि॒ः कण्व᳚म॒भिष्टि᳚भि॒ः प्राव᳚तं यु॒वम᳚श्विना ।
ताभि॒ः ष्व१॒᳚स्मा{4} अ᳚वतं शुभस्पती पा॒तं सोम᳚मृतावृधा ॥
ताभि॒ः ष्व१॒᳚स्मा{4} अ᳚वतं शुभस्पती पा॒तं सोम᳚मृतावृधा ॥
पदपाठः (Word-by-word)
याभिः᳚ । कण्व᳚म् । अ॒भिष्टि᳚॑भिः । प्र । आव᳚तम् । यु॒वम् । अ॒श्वि॒ना॒ ।
ताभिः᳚ । सु । अ॒स्मान् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति᳚ । पा॒तम् । सोम᳚म् । ऋ॒त॒॑वृ॒धा॒ ॥
ताभिः᳚ । सु । अ॒स्मान् । अ॒व॒त॒म् । शु॒भः॒ । प॒ती॒ इति᳚ । पा॒तम् । सोम᳚म् । ऋ॒त॒॑वृ॒धा॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे अश्विना युवं युवामुभौ याभिरभिष्टिभिरपेक्षिताभी रक्षाभिः कण्वं महर्षिं प्रावतं रक्षितवंतौ हे शुभस्पती शोभनस्य कर्मणः पालकौ ताभी रक्षाभिरस्माननुष्ठातृन्स्ववतम् । सुष्ठु रक्षतम् । स्पष्टमन्यत् ॥ अभिष्टिभिः । आभिमुख्येनेष्यंत इत्यभिष्टयः फलानि । इषु इच्छायाम् । कर्मणि क्तिनि तितुत्रेत्यादिनेट् प्रतिषेधः । एमनाधिषु च्छंदसि पररूपं वक्तव्यम् । पा ६-१-९४-६ । इति पररूपत्वम् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । उपसर्गाश्चाभिवर्जम् (फि ४-१३) इत्यभिरंतोदात्तः । शुभस्पती । शुभ दीप्तौ । क्विप्चेति क्विप् । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । सुबामंत्रित इति षष्ठ्यंतस्य परांगवद्भावात् षष्ठ्यामंत्रितसमुदायस्याष्टमिकं सर्वानुदात्तत्वं ॥ १ ॥ ५ ॥