शवि᳚ष्ठ वज्रि॒न्नोज᳚सा पृथि॒व्या निः श᳚शा॒ अहि॒मर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
पदपाठः (Word-by-word)
शवि᳚ष्ठ । व॒ज्रि॒न् । ओज᳚सा । पृ॒थि॒व्याः । निः । श॒शाः॒ । अहि᳚म् । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे शविष्ठातिशयेन बलवन् वज्रिन्वज्रवन्शिंद्र इत्था हि इत्थमेव अनेन शास्त्रोक्तप्रकारेणैव मदे मदकरे हर्षकरे सोमे त्वया पीते सति ब्रह्मा ब्राह्मणः स्तोता वर्धनं तव वृद्धिकरं स्तोत्रं चकार । अनेन सूक्तेन कृतवान् । इदित्येतत्पादपूरणं अतस्त्वमोजसा बलेन पृथिव्याः सकाशादहिमागत्य हंतारं वृत्रं निः शशाः । निःशेषेणाशाः । मा बाधस्वेति शासनं कृत्वा पृथिव्याः सकाशान्निरगमय इत्यर्थः । किंकुर्वन् । स्वराज्यं स्वस्य राज्यं राजत्वमन्वनुलक्ष्यार्चन् पूजयन् । स्वस्य स्वामित्वं प्रकटयन्नित्यर्थः ॥ शशाः । शासु अनुशिष्टौ । लङि लुकि प्राप्ते बहुलं छंदसीति शपः श्लुः । स्वराज्यं राज्ञो भावः कर्म वा राज्यम् । पत्यंतपुरोहितादिभ्यो यक् (पा ५-१-१२८) इति यक् । तत्र हि राजास इति पठ्यते । स्वस्य राज्यं स्वराज्यम् । अकर्मधारये राज्यम् (पा ६-२-१३०) इत्युत्तरपदाद्युदात्तत्वं ॥ १ ॥