श्रवणम्

1.80.5
इन्द्रो᳚ वृ॒त्रस्य॒ दोध᳚त॒ः सानुं॒ वज्रे᳚ण हीळि॒तः ।
अ॒भि॒क्रम्याव᳚ जिघ्नते॒॑पः सर्मा᳚य चो॒दय॒न्नर्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । वृ॒त्रस्य᳚ । दोध᳚तः । सानु᳚म् । वज्रे᳚ण । ही॒ळि॒तः ।
अ॒भि॒॑क्रम्य᳚ । अव᳚ । जि॒घ्न॒ते॒ । अ॒पः । सर्मा᳚य । चो॒दय᳚न् । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हीळितः क्रुद्ध इंद्रोऽभिक्रम्याभिमुख्येन गत्वा दोधतो भृशं कंपमानस्य वृत्रस्य सानुं समुच्छ्रितं हनुप्रदेशं वज्रेणाव जिघ्नते । प्रहरति । किं कुर्वन् । अपो वृष्ट्युदकानि सर्माय सरणाय निर्गमनाय चोदयन् प्रेरयन् ॥ दोधतः । धूञ् कंपने अस्माद्यङ् लुगंताच्छतर्यंत्यलोपश्छांदसः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । हीळितः । हेडृ होडृ अनादरे । हेळत इत्येतत् क्रुध्यति कर्मसु पठितम् । अस्मान्निष्ठायां वर्णव्यापत्त्येकारः । जिघ्नते । हंतेर्लट व्यत्ययेनात्मनेपदं बहुवचनं च बहुलं छंदसीति शपः श्लुः । इदित्यनुवृत्तौ बहुलं छदसीत्यभ्यासस्येत्वम् । गमहनेत्यादिनोपधालोपः । सर्माय । सृ गतौ । अर्तिस्तुस्वित्यादिना भावे मन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ ५ ॥