प्रेह्य॒भी᳚हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं᳚सते ।
इन्द्र᳚ नृ॒म्णं हि ते॒ शवो॒ हनो᳚ वृ॒त्रं जया᳚ अ॒पो॑र्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
इन्द्र᳚ नृ॒म्णं हि ते॒ शवो॒ हनो᳚ वृ॒त्रं जया᳚ अ॒पो॑र्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
पदपाठः (Word-by-word)
प्र । इ॒हि॒ । अ॒भि । इ॒हि॒ । धृ॒ष्णु॒हि । न । ते॒ । वज्रः᳚ । नि । यं॒स॒ते॒ ।
इन्द्र᳚ । नृ॒म्णम् । हि । ते॒ । शवः᳚ । हनः᳚ । वृ॒त्रम् । जयाः᳚ । अ॒पः । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
इन्द्र᳚ । नृ॒म्णम् । हि । ते॒ । शवः᳚ । हनः᳚ । वृ॒त्रम् । जयाः᳚ । अ॒पः । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे इंद्र प्रेहि । प्रकर्षेण गच्छ । अभीहि । हंतव्यान् शत्रूनाभिमुख्येन प्राप्नुहि । प्राप्य च धृष्णु हि । तान् शत्रूनभिभव । ते तव वज्रो न नि यंसते । शत्रुभिर्न नियम्यते । अप्रतिहतगतिरित्यर्थः । तथा ते शवस्त्वदीयं बलं नृम्णं पुरुषाणां नामकमभिभावकं हि यस्मादेवं तस्माद्वृत्रमसुरं मेघं वा हनः । जहि । ततोऽनंतरं तेन निरुद्धा अप उदकानि जयाः । वृत्रं हत्वा तेनावृतमुदकं लभस्वेत्यर्थः । अन्यत्समानं ॥ यंसते । यमेः कर्मणि लेट सिब्बहुलमिति सिप् । लेटोऽडाटावित्यडागमः । हनः । लोडर्थे छांदसो लङ् । बहुलं छंदसीति शपो लुगभावः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । पूर्वपदस्यासमानवाक्यस्थत्वान्निघाताभावः । जयाः । जयतेर्लेट्याडागमः । पूर्ववत्स्वरः ॥ ३ ॥