श्रवणम्

1.80.13
यद्वृ॒त्रं तव᳚ चा॒शनिं॒ वज्रे᳚ण स॒मयो᳚धयः ।
अहि᳚मिन्द्र॒ जिघां᳚सतो दि॒वि ते᳚ बद्बधे॒ शवो॑र्च॒न्ननु᳚ स्व॒राज्य᳚म् ॥
▶ पदपाठः (Word-by-word)
यत् । वृ॒त्रम् । तव᳚ । च॒ । अ॒शनि᳚म् । वज्रे᳚ण । स॒म्॑अयो᳚धयः ।
अहि᳚म् । इ॒न्द्र॒ । जिघां᳚सतः । दि॒वि । ते॒ । ब॒द्ब॒धे॒ । शवः᳚ । अर्च᳚न् । अनु᳚ । स्व॒॑राज्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इंद्र यद्यदा वृत्रं तव हननार्थं तेन सृष्टामशनिं च त्वं वज्रेण समयोधयः सम्यक् प्राहार्षीः तदानीमहिमागत्य हंतारं वृत्रं जिघांसतो हंतुमिच्छतस्ते तव शवो बलं दिवि बद्बधे । बद्धमनुस्यूतं व्याप्तमासीत् । शिष्टं पूर्ववत् ॥ जिघांसतः । हंतेरिच्छार्थे सन्यज्झनगमां सनि (पा ६-४-१६) इत्युपधादीर्घत्वम् । बद्बधे । बध बंधने । कर्मणि लिट व्यत्ययेन हलादिशेषाभावः ॥ १३ ॥